सुबालोपनिषत्
अथ पञ्चदशः खण्डः
[सर्वदाहेन मुक्तिप्राप्तिः]
अथ हैनं रैक्वः पप्रच्छ भगवन् योऽयं विज्ञानघन उत्क्रामन्, स केनकतरद्वाव स्थानं दहतीति । तस्मै स होवाच – योऽयं विज्ञानघन उत्क्रामन्, प्राणंदहत्यपानं व्यानमुदानं समानं वैरम्भं मुख्यमन्तर्यामं प्रभञ्जनं कुमारं श्येन श्वेतंकृष्णं नागं दहति । पृथिव्यापस्तेजोवाय्वाकाशं दहति । जागरितं स्वप्नं सुषुप्तंतुरीयं च महतां च लोकं परं च लोकं दहति । लोकालोकं दहति । धर्माधर्मदहत्यभास्करममर्यादं निरालोकमतः परं दहति । महान्तं दहत्यव्यक्तं दहत्यक्षरं दहति ।मृत्युं दहति । मृत्युर्वै परे देव एकीभवतीति । परस्तान्नसन्नासनसदसत् ।इत्येतन्निर्वाणानुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् ॥
॥ इति पञ्चदशः खण्डः ॥