सुबालोपनिषत्-चतुर्दशः खण्डः

सुबालोपनिषत्

अथ चतुर्दशः खण्डः


ओं पृथिवी वान्नमापोऽन्नादाः आपो वा अन्नं ज्योतिरन्नादं ज्योतिर्वान्नं वायुरन्नादोवायुर्वान्नमाकाशोऽन्नाद आकाशो वान्नमिन्द्रियाण्यन्नादानि । इन्द्रियाणि वान्नं मनोऽन्नादंमनो वान्नं बुद्धिन्नादा बुद्धिर्वान्नमव्यक्तमन्नादमव्यक्तं वान्नमक्षरमन्नादमक्षरं वान्नं मृत्युरन्नादः ।मृत्युर्वै परे देव एकीभवतीति । परस्तान्नसन्नासन्नसदसत् । इत्येतन्निर्वाणानुशासनम् ।इति वेदानुशासनम् । इति वेदानुशासनम् ॥

॥ इति चतुर्दशः खण्डः ॥