सुबालोपनिषत् अथ द्वादशः खण्डः ओं नारायणाद्वा अन्नमागतं पक्वं ब्रह्मलोके महासंवर्तके पुनः पक्वमादित्येपुनः पक्वं क्रव्यादि पुनः पक्वं जालकिलक्लिन्नं पर्युषितं पूतमन्नमयाचितमसंक्लुप्त–मश्नीयात्। न कञ्चन याचेत ॥ ॥ इति द्वादशः खण्डः ॥