सुबालोपनिषत्
अथ दशमः खण्डः
[कस्मिन् सर्वे प्रतिष्ठिता‘ इति प्रश्नस्य ‘परमात्मनि प्रतिष्ठिता‘ इति उत्तरम् ।
अथ हैन रैक्वः पप्रच्छ – भगवन्! कस्मिन् सर्वे सम्प्रतिष्ठिता भवन्तीति ।रसातललोकेष्विति होवाच । कस्मिन् रसातललोका ओताश्च प्रोताश्चेतिभूर्लोकेष्विति होवाच – कस्मिन् भूर्लोका ओताश्च प्रोताश्चेति । भुवर्लोर्केष्वितिहोवाच । कस्मिन् भुवर्लोक ओताश्च पोताश्चेति । सुवर्लोकेष्विति होवाच ।कस्मिन् सुवर्लोका ओताश्च प्रोताश्चेति । महर्लोकेष्विति होवाच । कस्मिन्महर्लोका ओताश्च प्रोताश्चेति । जनोलोकेष्विति होवाच । कस्मिन् जनोलोकाओताश्च प्रोताश्चेति । तपोलोकेष्विति होवाच । कस्मिंस्तपोलोका ओताश्चप्रोताश्चेति । सत्यलोकेष्विति होवाच । कस्मिन् सत्यलोका ओताश्च प्रोताश्चेति ।प्रजापतिलोकेष्विति होवाच । कस्मिन् प्रजापतिलोका ओताश्च प्रोताश्चेति ।ब्रह्मलोकेष्विति होवाच । कस्मिन् ब्रह्मलोका ओताश्च प्रोताश्चेति । सर्वलोकाआत्मनि ब्रह्मणि मणय इवौताश्च प्रोताश्चेति । स होवाच – एवमेतान् लोकान्आत्मनि प्रतिष्ठितान् वेद, आत्मैव स भवति । इत्येतनिर्वाणानुशासनम् । इतिवेदानुशासनम् । इति वेदानुशासनम् ॥
॥ इति दशमः खण्डः ॥