सुबालोपनिषत्-नवमः खण्डः

सुबालोपनिषत्

अथ नवमः खण्डः

[उपासकस्य लयस्थानप्रदर्शनम्]

अथ हैनं रैक्वः पप्रच्छ – भगवन्! कस्मिन् सर्वेऽस्तं गच्छन्तीति । तस्मै सहोवाच – चक्षुरेवाप्येति । यश्चक्षुरेवास्तमेति, द्रष्टव्यमेवाप्येति । यो द्रष्टव्यमेवास्तमेति,आदित्यमेवाप्येति । य आदित्यमेवास्तमेति, विराजमेवाप्येति । यो विराजमेवास्तमेति,प्राणमेवाप्येति । यः प्राणमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति,आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति,तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ॥

श्रोत्रमेवाप्येति । यः श्रोत्रमेवास्तमेति, श्रोतव्यमेवाप्येति । यःश्रोतव्यमेवास्तमेति, दिशमेवाप्येति । यो दिशमेवास्तमेति, सुदर्शनामेवाप्येति । यःसुदर्शनमेवास्तमेति, अपानमेवाप्येति । योऽपानमेवास्तमेति, विज्ञानमेवाप्येति,तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमशोकमभयमनन्तं निर्बीजमेवाप्येतीतिहोवाच ॥

नासामेवाप्येति । यो नासामेवास्तमेति, घ्रातव्यमेवाप्येति । योघ्रातव्यमेवास्तमेति, पृथिवीमेवाप्येति । यः पृथिवीमेवास्तमेति, जितामेवाप्येति । योजितामेवास्तमेति, व्यानमेवाप्येति । यो व्यानमेवास्तमेति, विज्ञानमेवाप्येति । योविज्ञानमेवास्तमेति आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति ।यस्तुरीयमेवास्तमेति, तदमृतमशोकमभयमनन्तं निर्बीजमेवाप्येतीति होवाच ॥

जिह्वामेवाप्येति । यो जिह्वामेवास्तमेति, रसयितव्यमेवाप्येति । योरसयितव्यमेवास्तमेति, वरुणमेवाप्येति । यो वरुणमेवास्तमेति, सौम्यामेवाप्येति ।यः सौम्यामेवास्तमेति, उदानमेवाप्येति । य उदानमेवास्तति, विज्ञानमेवाप्येति । योविज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति ।यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ॥

त्वचमेवाप्येति । यस्त्वचमेवास्तमेति, स्पर्शयितव्यमेवाप्येति । यःस्पर्शयितव्यमेवास्तमेति, वायुमेवाप्येति । यो वायुमेवास्तमेति, मोघामेवाप्येति । योमोघामेवास्तमेति, समानमेवाप्येति । यः समानमेवास्तमेति, विज्ञानमेवाप्येति,यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति ।यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ॥

वाचमेवाप्येति । यो वाचमेवास्तमेति, वक्तव्यमेवाप्येति । योबक्तव्यमेवास्तमेति, अग्निमेवाप्येति । योग्निमेवास्तमेति, कुमारामेवाप्येति । यःकुमारामेवास्तमेति, वैरम्भमेवाप्येति । यो वैरम्भमेवास्तमेति, विज्ञानमेवाप्येति । योविज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति ।यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ॥

हस्तमेवाप्येति । यो हस्तमेवास्तमेति, आदातव्यमेवाप्येति । यआदातव्यमेवास्तमेति, इन्द्रमेवाप्येति । य इन्द्रमेवास्तमेति, अमृतामेवाप्येति ।योऽमृतामेवास्तमेति, मुख्यमेवाप्येति । यो मुख्यमेवास्तमेति, विज्ञानमेवाप्येति । योविज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति ।यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ॥

पादमेवाप्येति । यः पादमेवास्तमेति, गन्तव्यमेवाप्येति । योगन्तव्यमेवास्तमेति, विष्णुमेवाप्येति । यो विष्णुमेवास्तमेति, सत्यमेवाप्येति । यःसत्यामेवास्तमेति, अन्तर्याममेवाप्येति । योऽन्तर्याममेवास्तमेति, विज्ञानमेवाप्येति ।यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति ।यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ॥

पायुमेवाप्येति । यः पायुमेवास्तमेति, विसर्जयितव्यमेवाप्येति । योविसर्जयितव्यमेवास्तमेति, मृत्युमेवाप्येति । यो मृत्युमेवास्तमेति, मध्यमामेवाप्येति । योमध्यमामेवास्तमेति, प्रभञ्जनमेवाप्येति । यः प्रभञ्जनमेवास्तमेति, विज्ञानमेवाप्येति ।यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति ।यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ॥

उपस्थमेवाप्येति । यः उपस्थमेवास्तमेति, आनन्दयितव्यमेवाप्येति । यआनन्दयितव्यमेवास्तमेति, प्रजापतिमेवाप्येति । यः प्रजापतिमेवास्तमेति,नासीरामेवाप्येति । यो नासीरामेवास्तमेति, कुमारमेवाप्येति । यः कुमारमेवास्तमेति,विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति,तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीतिहोवाच ॥

मन एवाप्येति । यो मन एवास्तमेति । मन्तव्यमेवाप्येति । योमन्तव्यमेवास्तमेति, चन्द्रमेवाप्येति । यश्चन्द्रमेवास्तमेति, शिशुमेवाप्येति । यःशिशुमेवास्तमेति, श्येनमेवाप्येति । यः श्येनमेवास्तमेति, विज्ञानमेवाप्येति । योविज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति ।यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ॥

बुद्धिमेवाप्येति । यो बुद्धिमेवास्तमेति, बोद्धव्यमेवाप्येति, । यो बोद्धव्यमेवास्तमेति,ब्राह्मणमेवाप्येति । यो ब्रह्माणमेवास्तमेति, सूर्यामेवाप्येति । यः सूर्यामेवास्तमेति,कृष्णमेवाप्येति । यः कृष्णमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति,आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यः तुरीयमेवास्तमेति,तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ॥

अहङ्कारमेवाप्येति । योऽहकारमेवास्तमेति, अहङ्कर्तव्यमेवाप्येति ।योऽहङ्कर्तव्यमेवास्तमेति, रुद्रमेवाप्येति । यो रुद्रमेवास्तमेति, असुरामेवाप्येति ।योऽसुरामेवास्तमेति, श्वेतमेवाप्येति । यः श्वेतमेवास्तमेति, विज्ञानमेवाप्येति ।यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, आनन्दमेवाप्येति । यआनन्दमेवाप्येति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तंनिर्बीजमेवाप्येतीति होवाच ॥

चित्तमेवाप्येति । यश्चित्तमेवास्तमेति, चेतयितव्यमेवाप्येति ।यश्चेतयितव्यमेवास्तमेति, क्षेत्रज्ञमेवाप्येति । यः क्षेत्रज्ञमेवास्तमेति, भास्वतीमेवाप्येति ।यो भास्वतीमेवास्तमेति; नागमेवाप्येति । यो नागमेवास्तमेति, विज्ञानमेवाप्येति ।यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति ।यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येति होवाच ॥

य एवं निर्बीजं वेद, निर्बीज एव स भवति । न जायते, न म्रियते, न मुह्यते,न भिद्यते, न दह्यते, न छिद्यते, न कम्पते, न कुप्यते, सर्वदहनोऽयमात्मेत्याचक्षते ।

नेवमात्मा प्रवचनशतेनापि लभ्यते, न बहुश्रुतेन, न बुद्धिज्ञानाश्रितेन नमेधया, न वेदैर्न यज्ञैर्न तपोभिरुग्रैर्न सांख्यैर्न योगेर्नाश्रमैः । नान्यरात्मानमुपलभन्ते ।प्रवचनेन प्रशंसया व्युत्थानेन तमेतं ब्राह्मणाः शुश्रुवांसोऽनूचाना उपलभन्ते ।शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्यति । सर्वास्यात्माभवति, य एवं वेद ॥

॥ इति नवमः खण्डः ॥