सुबालोपनिषत्
अथ अष्टमः खण्डः
[भगवतो ऽखिलहेयप्रत्यनीकत्वम्]
अन्तश्शरीरे निहितो गुहायां शुद्धः सोऽयमात्मा । सर्वस्य मेदोमांसक्लेदावकीर्णशरीरमध्येऽत्यन्तोपहते चित्रभित्तिप्रतीकाशे गन्धर्वनगरोपमे कदलीगर्भवनिस्सारेजलबुद्बुदवच्चञ्चले निस्सृतमात्मानमचिन्त्यरूपं दिव्यं देवमसङ्ग शुद्धं तेजस्कायमरूपंसर्वेश्वरमचिन्त्यमशरीरं निहितं गुहायाममृतं बिभ्राजमानमानन्दं तं पश्यन्ति विद्वांसः ।तेन लये न पश्यन्ति ॥
॥ इति अष्मः खण्डः ॥