सुबालोपनिषत्-सप्तमः खण्डः

सुबालोपनिषत्

अथ सप्तमः खण्डः

[भगवतः सर्वशरीरान्तर्यामित्वम् ।

अन्तश्शरीरे निहितो गुहायामज एको नित्यः यस्य पृथिवी शरीरम्, यःपृथिवीमन्तरे सञ्चरन्, यं पृथिवी न वेद; यस्यापः शरीरं योऽपोऽन्तरे सञ्चरन् यमापोन विदुः। यस्य तेजः शरीरं यस्तेजोऽन्तरे सञ्चरन् यं तेजो न वेद; यस्य वायुः शरीरं योवायुमन्तरे सञ्चरन् यं वायुर्न वेदः यस्याकाशः शरीरं य आकाशमन्तरे सञ्चरन्यमाकाशो न वेद; यस्य मनः शरीरं यो मनोऽन्तरे सञ्चरन् यं मनो न वेद; यस्यबुद्धिर् यो बुद्धिमन्तरे सञ्चरन् यं बुद्धिर्न वेद; यस्याहङ्कारः शरीरं योऽहकारमन्तरेसञ्चरन् यमहङ्कारो न वेद; यस्य चित्तं शरीरं यश्चित्तमन्तरे सञ्चरन् यं चित्तं नवेद; यस्याव्यक्तं शरीरं योऽव्यक्तमन्तरे सञ्चरन् यमव्यक्तं न वेद; यस्याक्षरं शरीरयोऽक्षरमन्तरे सञ्चरन् यमक्षरं न वेद; यस्य मृत्युः शरीरं यो मृत्युमन्तरे सञ्चरन् यंमृत्युर्न वेद; एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण एतांविद्यामपान्तरतमाय ददौ । अपान्तरतमो ब्रह्मणे ददौ । ब्रह्मा घोराङ्गिरसे ददौ ।घोराङ्गिरा रेक्वाय ददौ । रैक्वो रामाय ददौ । रामः सर्वेभ्यो ददौ । निर्वणानुशासनम् ।इति वेदानुशासनम् । इति वेदानुशासनम् ॥

॥ इति सप्तमः खण्डः ॥