सुबालोपनिषत्
सुबालोपनिषद्विवरणम्
श्रीश्रुतप्रकाशिकाचार्यविरचितम्
अथ पञ्चमः खण्डः
[परमात्योपासनाप्रकारः]
स्थानानि स्थानिभ्यो गच्छति । नाडी तेषां निबन्धनम् ।
एवं जागराद्यवस्थासु दुःखाभिभूतस्य निर्विण्णस्य चेतनस्यापवर्गार्थम् ,
समस्तचिदचिदन्तरात्मभूतस्य सर्वस्मात् परस्य निदोषस्य कल्याणगुणाकरस्य परमात्मनः
उपासनप्रकारान् उपदिशति - स्थानानि स्थानिध्यो गच्छति इति । वक्ष्यमाणानि
चक्षुरादीनि स्थानानि स्थानिभ्य: आदित्यादिभ्यः परमात्मा यच्छति प्रयच्छति । आदित्यादीनां
चक्षुराद्यभिमानित्वं भगवकिल्याधीनमित्यर्थः । ‘ज्योतिराद्याधिष्ठानं तु तदामननात्
प्राणवता शब्दात्’ (ब्र.सू.२-४-१३) इति हि सूत्रकारः । नाडी तेषां निबन्धनम् इति । नितरां
बन्धनम् संबन्धहेतुः । तेषाम् आदित्यादीनां चक्षुरादीनाच शरीरान्तर्गतहृदयकोशस्थेन
चेतनेन संबन्धहेतुर्नाडी, आदित्याद्याधिष्ठितं चक्षुरादिकं नाङ्या संबद्धम् , नाडी हृदयेन संबद्धा,
हृदयमात्मना संबद्धमिति तत्तद्देवताधिष्ठितैश्चक्षुरादिभिरात्मनः संबन्धो नाडीद्वारक इत्यर्थः ।
[चक्षुरादिषु अध्यात्म-अधिभूत-अधिदेवताख्य-उपासनास्थानत्रैविध्यम्]
१. चक्षुरध्यात्मं द्रष्टव्यमधिभूतमादित्यस्तत्राधिदैवतम् । नाडी तेषां निबन्धनम् ।
यश्चक्षुषि यो द्रष्टव्ये य आदित्यै यो नाड्यां यः प्राणे यो बिज्ञाने व आनन्दे यो
हृद्याकाशे एतस्मिन् सर्वस्मिनन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीत,
अजरममृतमभयमशोकमनन्तम् ॥
अथ त्रिविधस्थानसंबन्धिनः परमात्मन उपासनं वक्तुं स्थानत्रैविध्यामाह-
चक्षुरध्यात्मम् इत्यादिना । आत्मनि शरीरे वर्तमानं वेदितव्यम् अध्यात्मम् ।
भूतेषु पृथिव्यादिषु वर्तमानं वेद्यम् अधिभूतम् । देवेषु वर्तमानं देवतासु अन्तर्भूतत्वेन
वेद्यम् अधिदैवतम् । चक्षुरध्यात्म इति । शरीरे वर्तमानं चक्षुः परमात्मव्याप्यत्वेनानु-
-सन्धेयम् । द्रष्टव्यमधिभूतम् इति । पृथिव्यादिषु वर्तमानं द्रष्टव्यं रूपं तथा वेद्यम् ।
आदित्यस्तत्राधिदैवतम् इति । तत्र द्रष्टव्यगोचरे चक्षुषि अधिष्ठातृत्वेन देवतासु
वेद्यं तत्त्वम् आदित्य इत्यर्थः । पूर्वं सामान्येनोक्तं नाडीनां संबन्धकत्वमिह दर्शयति
नाडी तेषां निबन्धनम् इति । नाडीविशेषा’ वक्ष्यन्ते । हृदससंबद्धा नाडी हृदयस्थेन
पुरुषेण चक्षुरादित्यद्रष्टव्यानां संबन्धहेतुरित्यर्थः ।
एवमुक्ते त्रिविधेऽपि स्थले नाड्यादिषु च परमात्मनोऽवस्थानमाह - यश्चक्षुषि
इत्यादिना । सर्वपर्यायेष्वपि प्राणशब्दो नवमे वक्ष्यमाणवायुविशेषपरः । विज्ञाने एवं
तत्तद्देवताधिष्ठितैः प्राणाधारैः चक्षुरादिभिरिन्द्रियैः जन्ये जीवात्मनो विज्ञाने । आनन्दे
ज्ञानपूर्वकप्रवृत्तिफलभूते सुखे । अनेन जीवात्मनां ज्ञानानन्दयोः चक्षुरादीनां हेतुत्वं
परमात्मसंकल्पाधीनमिति दर्शितम् ॥ ‘प्रज्ञा च तस्मात् प्रसृता पुराणी’, (श्वे.उ.४-१८)
‘एष ह्येवानन्दयाति’ (तै.उ.आन.अनु.७) इति हि श्रुत्यन्तरम् । हृद्याकाशे ।
नाडीसंबन्धद्वारेण सर्वेन्द्रियाश्रये हृदि विद्यमानम् आकाशम् सुषिरम्; तस्मिन् । ‘तस्यान्ते
सुषिरं सूक्ष्मम्’ (तै.ना.११) इति हि श्रूयते । एतस्मिन् इह परिगणिते सर्वस्मिन् वस्तुजाते ।
तत्रापि अन्तरे अन्तर्भागे । यः सञ्चरति वर्तते तिष्ठतीत्यर्थः । सर्वगतस्य परमात्मनो
देशात् देशान्तरसंयोगरूपसञ्चारासंभवात् । सोऽयम् उक्तवैभवविशिष्टः सर्वगतत्वात् संनिविष्टः
आत्मा परमात्मेत्यर्थः; आदित्यादिक्षेत्रज्ञेष्वप्यवस्थानोक्तेः । स नारायण इति व्यक्तीभविष्यति ।
तम् उक्ताकारविशिष्टमुपासीत । मुमुक्षुरित्यर्थसिद्धम्; ‘ब्रह्मैव सन् ब्रह्माप्येति ।
एतन्निर्वाणमनुशासनम्’ (खं-३) इति प्रकरणात् । अजरममृतमिति । जरामरणनिषेधः
सर्वशरीरगतसर्वविकाराभावप्रदर्शनार्थः । अभयमशोकम् इति । भावि-भूतहेतुजन्ये
दुःखे भयशोकौ । तन्निषेधो जीवात्मगतसर्वदोषाभावप्रदर्शनार्थः । एवमचेतनात् बद्धचेतनाञ्च
व्यावृत्तिः । अनन्तम् देशकालवस्तुभिः परिच्छेदरहितम् । अनेन मुक्तात् व्यावृत्तिः ।
एवं चिदचिदात्मकतत्तद्विभूतिविशिष्टं विश्वचिदचिद्विलक्षणं परमात्मानं नारायणमुपासीत इत्यर्थः ।
२. श्रोत्रमध्यात्मं श्रोतव्यमधिभूतं दिशस्तत्राधिदैवतम्; नाडी तेषां निबन्धनम् ।
यः श्रोत्रे यः श्रोतव्ये यो दिक्षु यो नाड्यां यः प्राणे यो विज्ञानं य आनन्दे यो
हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीत,
अजरममृतमभयमशोकमनन्तम् ॥
३. नासाऽध्यात्मं घ्रातव्यमधिभूतं पृथिवी तत्राधिदैवतम्। नाडी तेषां
निबन्धनम् । यो नासायां यो घातव्ये यः पृथिव्याम् यो नाड्यां यः प्राणे यो
विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा ।
तमात्मानमुपासीत, अजरममृतमभयमशोकमनन्तम् ॥
४. जिह्वाऽध्यात्मं रसयितव्यमधिभूतं वरुणस्तत्राधिदैवतम्। नाडी तेषां
निबन्धनम् । यो जिह्वायां यो रसयितव्ये यो वरुणे यो नाड्यां यः प्राणे यो विज्ञाने
.यो आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानम्
उपासीत, अजरममृतमभयमशोकमनन्तम् ॥
श्रोत्रमध्यात्मम् इत्यादयः पर्यायाः सर्वे प्रथमपर्यायविवरणेन प्रायशो व्याख्याताः ।
श्रोतव्यम् शब्दजातम् । दिश इति दिगभिमानिदेवता विवक्षिता ।
नास इति घ्राणेन्द्रियं विवक्षितम् इन्द्रियप्रकरणत्वात् । घ्रातव्यो गन्धः । पृथिवीशब्दो
देवतापरः ।
जिह्वाशब्दो रसनेन्द्रियपरः । रसयितव्यं माधुर्यादिरसः ।
५. त्वगध्यात्मं स्पर्शयितव्यमधिभूतं वायुस्तत्राधिदैवतम्। नाडी तेषां
निबन्धनम् । यस्त्वचि यः स्पर्शयितव्ये यो वायो यो नाड्यां यः प्राणे यो विज्ञाने य
आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा ।
तमात्मानमुपासीताजरममृतभयमशोकमनन्तम् ॥
६. मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रस्तत्राधिदैवतम्। नाडी तेषां निबन्धनम् ।
यो मनसि यो मन्तव्ये यश्चन्द्रे यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो
हृद्याकाशे च एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मान-
मुपासीताजरममृतमभयमशोकमनन्तम् ॥
त्वक् स्पर्शनेन्द्रियम् । स्पर्शयितव्यम् स्पर्शविशेषः । वायुः देवता ।
ननु मन्तव्यमधिभूतमिति कथमुच्यते मनश्चन्द्रप्रभृतयो विहित मन्तव्यकोटिनिविष्टाः ।
ततश्चाध्यात्माधिभूतादिविभागो न स्यादिति - उच्यते । यत्राध्यात्माधिभूतादिसंकरः,
तत्र मनःप्रभृतिपदार्थव्यतिरिक्तविषयत्वेन मन्तव्यादि शब्दाः संकोचयितव्याः । यद्वा
तुलायां प्रमाणभावप्रमेयभाववत् मनश्चन्द्रादीनामेव आकारभेदेनोभयकोटिनिविष्टत्वव्यवहार
उपपन्न इति मनःशरीरान्तर्वृत्तित्ववेषेणाध्यात्मं भवतु; विचार्यत्ववेषेण मन्तव्यञ्च भवतु ।
अधिभूतशब्दोऽपि भूतपरिणामे शरीरे अवस्थितत्वादुपपन्नः । देवतारूपस्य चन्द्रादेरपि
मन्तव्यत्वमविरुद्धम्। सर्वेश्वरस्य तु मन्तव्यत्वेऽपि समाभ्यधिकराहित्येन
अन्याधिष्ठेयत्वाभावात् मन्तव्यशब्दः चन्द्रादेः(?) अर्वाचीनेषु संकोचनीयः । एवं सर्वपर्यायेषु
संकीर्णव्यवहारपरिहारो द्रष्टव्यः ।
७. बुद्धिरध्यात्मं बोद्धव्यमधिभूतं ब्रह्मा तत्राधिदैवतम्। नाडी तेषां निबन्धनम् ।
यो बुद्धो यो बोद्धव्ये यो ब्रह्मणि यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो
हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीता-
जरममृतमभयमशोकमनन्तम् ॥
८. अहङ्कारोऽध्यात्ममहङ्कर्तव्यमधिभूतं रुद्रस्तत्राधिदैवतम्। नाडी तेषां
निबन्धनम् । योऽहङ्कारे योऽहङ्कर्तव्ये यो रुद्रे यो नाड्यां यः प्राणे यो विज्ञाने य
आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा ।
तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥
९. चित्तमध्यात्मं चेतयितव्यमधिभूतं क्षेत्रज्ञस्तत्राधिदैवतम्; नाडी तेषां निबन्धनम् ।
यश्चित्ते यश्चेतयितव्ये यः क्षेत्रज्ञे यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो
हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीताजरम-
मृतमभयमशोकमनन्तम् ॥
बुद्धिः व्यवसायवृत्तेर्मनसोऽनुग्राहकं महत्तत्त्वम् । बोद्धव्यम् निश्चेतव्यं रूपादि ।
महत्तत्त्वब्रह्मादिनाऽपि (दीनामपि?) बोद्धव्यत्वादिविरोधः पूर्ववदनुसंधेयः । ब्रह्मणि
चतुर्मुखे ।
अहंकारः अनात्मनि आत्माभिमानवृत्तेर्मनसोऽनुग्राहकं महत्कार्यं तत्त्वम् ।
अहङ्कर्तव्यमधिभूतम् । भूतपरिणामे देहे वर्तमान: जीवात्मैव स्थूलोऽहमित्यभिमान-
विषयत्वात् अहंकर्तव्यशब्दार्थः । तत्र सविषयेऽहंकारे रुद्रोऽधिदैवतम् । महदभिमानी
चतुर्मुखपुत्रो रुद्रो महत्कार्यस्याहङ्कारस्याधिदैवतमित्युपपन्नम् । अत एव हि दीक्षिते
स्वस्मिन् ब्राह्मणत्वाभिमानेन रुद्रतनुरित्युच्यते ।
चिन्तावृत्तिमत् मन एव हि चित्तम् । चिन्ता च स्मरणं वा
१०. वागध्यात्मं वक्तव्यमधिभूतमग्निस्तत्राधिदैवतम्। नाडी तेषां निबन्धनम्।
यो वाचि यो वक्तव्ये योऽग्नौ यो नाड्यां यः प्राणे यो विज्ञानं य आनन्दे यो
हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्
सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीताजरममृतमभयमशोक-
मनन्तम् ॥
११. हस्तावध्यात्ममादातव्यमधिभूतमिन्द्रस्तत्राधिदैवतम्। नाडी तेषां
निबन्धनम् । यो हस्ते य आदातव्ये य इन्द्रे यो नाड्यां यः प्राणे यो विज्ञाने य
आनन्दे यो हद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा ।
तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥
१२. पादावध्यात्मं गन्तव्यमधिभूतम् विष्णुस्तत्राधिदेवतम्। नाडी तेषां
निबन्धनम् । यः पादे यो गन्तव्ये यो विष्णो यो नाड्यां यः प्राणे यो विज्ञाने य
आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति सोऽयमात्मा ।
तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥
अपेक्षितबुभुत्सा वा । ‘एवं सञ्चिन्तयन् विष्णुम्’, (वि.पु.१-२०-१) ‘मानसं
विष्णुचिन्तनम्’ ‘चिन्तयन्ती जगत्सूतिम्’, (वि.पु.५-१३-२२) ‘चिन्तयामास कोन्वेतत्
प्रयुञ्जीयादिति प्रभुः’, ‘तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः’ इत्यादिप्रयोगदर्शनात् ।
क्षेत्रज्ञो जीवात्मा स्वयमेव । यद्वा, -
‘क्षेत्राणि च शरीराणि बीजानि च शुभाशुभे ।
तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते’ ॥ इत्युक्तोऽन्तरात्मा वा । यः
क्षेत्रज्ञे - सञ्चरति इत्यत्र, क्षेत्रज्ञशब्दस्य परमात्मवाचित्वे, स्वस्मिन्नवस्थित इति
स्वमहिमप्रतिष्ठितत्वमुक्तं भवति ।
वक्तव्यं शब्दः । अग्निः देवता ।
विष्णुः उपेन्द्रः । त्रिविक्रमत्वात् पादेन्द्रियाद्यधिष्ठातृत्वं तस्य ।
१३. पायुरध्यात्मं विसर्जयितव्यमधिभूतं मृत्युस्तत्राधिदैवतम्। नाडी तेषां
निबन्धनम्। य: पायौ यो विसर्जयितव्ये यो मृत्यौ यो नाड्यां यः प्राणे यो विज्ञाने
य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा ।
तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥
१४. उपस्थोऽध्यात्ममानन्दयितव्यमधिभूतं प्रजापतिस्तत्राधिदैवतम्। नाडी
तेषां निबन्धनम्। य उपस्थे य आनन्दयितव्ये यः प्रजापतौ यो नाड्यां यः प्राणे
यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा ।
तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥
‘यद्विष्णुक्रमान् क्रमते’, ‘विष्णोः क्रमोऽस्यभिमातिहा’ इत्यादि श्रुतेः । विष्णोः
सञ्चरति इति यच्छब्दस्य नारायणपरत्वात् यो विष्णो इति वैयधिकरण्यनिर्देशात्
रूपमस्य शुक्ल इति न्यायेन असमानविभक्तिनिर्देशे सति विशिष्टवाचिशब्दस्यापि
विशेषणमात्रपरत्वोपपत्तेश्च । विष्णुशब्दस्यापि विग्रहविशिष्टभगवद्वाचित्वे पूर्ववत्
स्वमहिमप्रतिष्ठत्वमर्थः । चतुर्मुखादीनां तु अवताररूपत्वश्रवणाभावात् स्वमहिमप्रतिष्ठितत्वं
तत्रानुपपन्नम् । ‘सृष्टिं ततः करिष्यामि त्वामाविश्य प्रजापते’, ‘तवान्तरात्मा मम च ये
चान्ये देहिसंज्ञिताः’ इति सात्त्विकोपबृंहणेषु चतुर्मुखादीनां भगवदनुप्रविष्टत्वदर्शनाञ्च ।
आनन्दयितव्यम् इति स्त्रीपुंसशरीरस्थ आत्मा विवक्षितः । अत्र प्रजापति
शब्दः चतुर्मुखव्यतिरिक्तविषयः । त्वं रुद्रस्त्वं ब्रह्मा त्वं प्रजापतिः’ (महा.ना.१६-१)
इति पृथगुपदेशदर्शनात्; चतुर्मुखस्य महत्तत्त्वाधिष्ठातृत्वप्रतिपादनादर्थान्तरे संभवति
तस्यैव पुनः प्रतिपादनपरत्वकल्पनायोगाच्च ।
[भगवतः मङ्गलगुणनिरूपणम् ]
एष सर्वज्ञ एष सर्वेश्वर एष सर्वाधिपतिरेषोऽन्तर्याम्येष योनिः सर्वस्य ।
सर्वसौख्यैरुपास्यमानः, न च सर्वसौख्यानुपास्यति । वेदशास्त्रैरुपास्यमानः; न च
वेदशास्त्राण्युपास्यति । यस्यान्नमिदं सर्वम् न च योऽन्नं भवति ।
एवं समस्तचिदचिद्वस्तुषु अवस्थितस्य भगवतो व्याप्तेः घटादावाकाशव्याप्ति-
साम्यव्यवच्छेदार्थम् अन्यत्रासंभावितान् मङ्गलगुणविशेषानाह - एष सर्वज्ञ इति ।
व्याप्यसर्ववस्तुसाक्षात्कर्तेत्यर्थः । सर्वेश्वरः साक्षात्कृतस्य सर्वस्य नियन्ता । एष: सर्वाधिपतिः
नियाम्यस्य स्वामी । न केवलं रक्षकत्वमात्रम् अधिपतिशब्दार्थः; मातापितृसंरक्ष्यस्य
पुत्रस्य तत्पतिकत्वव्यवहाराभावात् । जगच्छरीरकत्वसिध्द्यर्थे ईश्वरशब्दोक्तनियमनमन्तः-
प्रवेशपूर्वकमिति दर्शयति एषोऽन्तर्यामि इति । एषः योनिः सर्वचिदचिदच्छरीरकत्वात्
तस्योपादानमित्यर्थः । सर्वसौख्यैः नानाविधसौख्योपेतै: देवादिभिरित्यर्थः । वेदशास्त्रै:
इति । वेदशास्त्राणां भगवदुपासने प्रमाणतया करणत्वं विवक्षितम् । वेदशास्त्राणि इति ।
अशास्रवश्य इत्यर्थः । अन्नम् अदनीयम्; संहार्यमित्यर्थः ।
[भगवतः माहात्म्यवर्णनम्]
अतः परं सर्वनयनः प्रशास्ता अन्नमयो भूतात्मा प्राणमय इन्द्रियात्मा
मनोमयः सङ्कल्पात्मा । विज्ञानमय: कालात्मा आनन्दमयो लयात्मा ॥
अतः परम् इति । भूयोऽपि तन्माहात्म्यमुच्यते इत्यर्थः । यद्वा अतः उक्तगुणकत्वात्
परं केवलं स एव सर्वस्मादधिक इति वक्ष्यमाणगुणैरन्वयः । सर्वनयनः सर्वकार्याणां
नेता - निर्वोढा । प्रशास्ता प्रशासितृत्वेन निर्वोढा । न तु राजनियुक्तपुरुषवत् प्रशासनीयत्वेन
निर्वोढा इत्यर्थः । तमात्मानम् इत्यात्मशब्दनिर्दिष्टस्य परमात्मनः सर्वान्तरात्मत्वेन आत्मत्वकाष्ठां
प्रतिपादयति अन्नमय इत्यादिना । भूतपरिणामरूपदेहोऽन्नमयः । स च सर्वेश्वर
इत्यर्थः । भूतात्मा भूतानां शरीरकारणभूतानामपि आत्मा । अन्नमयादिशब्दानां
परमात्मसामानाधिकरण्यम् आत्मशब्दस्वारस्यादवगम्यते । न च ‘मृदात्मको घट’ इतिवत्
आत्मशब्दः स्वरूपमात्रपरः । प्राणमय इन्द्रियात्मा इत्यनेनैकरीत्यात् । न हि
प्राणापानादिपञ्चवृत्तिप्राण इन्द्रियस्वरूपः । प्राणमयः मुख्यप्राणशरीरकश्च सः इन्द्रियात्मा
प्राणबद्धानामपि इन्द्रियाणामात्मा । मनोमय: मनःप्रभृतिप्रधानपर्यन्ततत्त्वशरीरक इत्यर्थः ।
‘भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् ।
आत्मा च परमात्मा च त्वमेकः पञ्चधा स्मृतः’ ॥ (वि.पु.५-१८-५०)
इति श्रीविष्णुपुराणवचनोपबृंहितत्वात् । संकल्पात्मा सङ्क ल्पशब्दो मनोवृत्तिजन्यज्ञानानां
प्रदर्शनार्थः । ‘कामः सङ्कल्पो विचिकित्सा श्रद्धा धृतिरधृतिः ह्रीर्धीर्भीरित्येतत् सर्वे
मन एव’ (बृ.उ.३-५-३) इति श्रुतानां मनोमूलानां कामसंकल्पादीनाम् आत्मा सत्ताहेतुः
विज्ञानमय: जीवात्मशरीरकश्च सः । कालात्मा आदित्यादिक्षेत्रज्ञशरीरतया अहोरात्रादिकाल-
चक्रनिर्वाहकः । यद्वा आकलनस्य वा आकलयितॄणां वा सर्वेषाम् आत्मा निर्वाहकः ।
अन्तर्यामित्वेन स्थितो जीवानामर्थपरिच्छेदसामर्थ्यमापादयतीति यावत् । आनन्दमय
इत्येतदुपपादयति-लयात्मा इति ॥ लयस्यात्मा । आत्यन्तिकप्रलयरूपस्य मोक्षस्य आत्मा
सत्ताहेतुः; निर्वाहकः । मोक्षप्रदत्वादिलक्षणादैश्वर्यप्रकर्षात् निरतिशयानन्दप्रचुरः
परमात्मेत्यर्थः । तैत्तिरीयोपनिषदि हि ‘अन्योऽन्तर आत्माऽऽनन्दमयः’ (तै.उ.आन.अनु.५)
इति आनन्दमयं प्रस्तुत्य, ‘यतो वाचो निवर्तन्ते’ (तै.उ.आन.अनु.९०) इत्यन्तेनास्य
निरतिशयानन्दयोगमुपपादयत् वाक्यजातम्, ‘सोऽकामयत बहु स्यां प्रजायेय,
(तै.उ.आन.अनु.७) ‘तदनुप्रविश्य-विज्ञानञ्चाविज्ञानञ्च’, (तै.उ.आन.अनु.६) ‘एष
ह्येवानन्दयाति’, (तै.उ.अन.अनु.७) ‘भीषाऽस्माद्वातः पवते’ (तै.उ.आन.अनु.८) इति
जगत्कारणत्वचिदचिदन्तरात्मत्व-कृत्स्नप्रशासितृत्ववत् अनन्यसाधारण्येन आनन्दयितृत्वेनापि
निरतिशयानन्दयोगित्वमुपपादयति ।
ननु चक्षुरध्यात्मम् इत्यादिपर्यायेषु, ‘यः प्राणे यो विज्ञाने य आनन्दे’ इति
जीवधर्मस्याऽऽनन्दस्य प्रकृतत्वात् तस्येह प्रत्यभिज्ञानात् तद्विकार उक्तोऽयमानन्दमयः;
न तु परमात्मा । आनन्दप्रकर्षस्य चित्तप्रलयरूपस्तमित्यहेतुत्वात् लयात्मकत्वञ्चोपपन्नमिति
चेत् - नैतदुपपद्यते । ‘तमात्मानमुपासीत’, ‘एष सर्वज्ञ एष सर्वेश्वर एष सर्वाधिपतिः’
इत्यादिना आत्मत्वेन प्रतिपादितस्य सर्वेश्वरस्य आत्मशब्देनैव भूतेन्द्रियादीनामन्तरात्म-
तयाऽभिहितस्य जीवानन्दविकारत्वायोगात् । तैत्तिरीयोपनिषदि, ‘एष ह्येवानन्दयाति’
(तै.उ.आन.अनु.७) इति जीवानन्दयितृत्वेनोक्तस्य आनन्दमयस्येह प्रत्यभिज्ञानात् । इहापि,
‘य आनन्दे……सञ्चरति’ इति जीवानन्दस्य तदधीनत्वावगमात् । अत एवानन्द (मय)स्य
स्वानन्दयितव्यजीवधर्मविकारत्वायोगात्, तत्र च ‘एतमानन्दमयमात्मानमुपसंक्रामति’
(तै.उ.आन.अनु.८) इत्यानन्दमयस्य प्राप्यत्वोक्त्या ततः प्राप्यान्तरानुक्त्या च परमप्राप्यस्य
तस्यैवाऽऽनन्दमयशब्देन प्रत्यभिज्ञानादात्यन्तिक-प्रलयरूपमोक्षनिर्वाहकत्वस्यैव
लयात्मशब्देन वक्तुं योग्यत्वात् । अस्यामेवोपनिषदि, (९.खं) ‘य आनन्दमेवास्तमेति,
तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येति’
इति जीवानन्दस्य तुरीयादर्वाचीनत्वेन वक्ष्यमाणत्वात् तुरीयस्य (तुरीयातीतस्य?)
परमप्राप्यतया वक्ष्यमाणत्वाञ्च परमप्राप्यतया श्रुतिप्रसिद्धस्यानन्दमयस्य तुरीयातीतत्वेन
तुरीयादर्वाचीनक्षुद्रानन्दविकारत्वानुपपत्तेश्च । एवं व्याप्यत्व-निर्वाह्यत्वतुरीयानतीतत्व-
क्षुद्रत्वैः आत्मत्वनिर्वाहकत्वपरमप्राप्यत्वतुरीयांतीतत्वैश्च विरुद्धस्वभावत्वात्
पूर्वापरवाक्यस्थानन्दानन्दमयशब्दौ चातिदूरभिन्नार्थों ।
न च जीवानन्दशरीरकः परमात्मेति वाच्यम् - ‘यतो वाचो निवर्तन्ते । अप्राप्य
मनसा सह । आनन्दं ब्रह्मणो विद्वान्’ (तै.उ.आन.अनु.९) इति वाङ्मनसागोचरस्य
ब्रह्मसंबन्धित्वश्रवणात्; जीवानन्दस्य स्वसंबन्धित्वेन सर्वप्राणिमनस्संवेद्यत्वाञ्च भिन्नार्थयोरपि
(रत्रापि?) पूर्वापरवक्ययोरिव आनन्दानन्दमयशब्दयोभिन्नार्थत्वं युक्तम् । तस्मात्
आनन्दमयो लयात्मा इति वाक्यस्य यथोक्त एवार्थः ।
एकत्वं नास्ति, द्वैतं कुतः? मर्त्यं नास्ति, अमृतं कुतः? नान्तःप्रज्ञो न बहिः
प्रज्ञो नोभयतः प्रज्ञो न प्रज्ञानघनो न प्रज्ञो नाप्रज्ञः, अपि नो विदितं वेद्यं नास्ति ।
इत्येतन्निर्वाणमनुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् ॥
॥ इति पञ्चमः खण्डः ॥
एवं सर्वान्तरस्यानन्दमयशब्दवाच्यस्य सर्वेश्वरस्य लयात्मत्वप्रसङ्गेन
जगदप्ययस्थानभूतस्य तस्य चिदचिद्विलक्षणत्वानुपपत्तिम् तद्गतविकारादिहेयसंस्पर्शनञ्च
आशङ्क्य परिहरति-एकत्वं नास्ति द्वैतं कुतः? इति । सर्वजगदुपादानस्य
सर्वाप्ययस्थानस्यापि सर्वेश्वरस्य प्रकृतिपुरुषाभ्यां स्वरूपैक्यं नास्ति । तस्य द्वैतं कुतः? ।
चिदचिद्गतभेदान्वयः कुतः? महदहङ्कारादिकार्यभेदो जन्मजराद्यवस्था भेदो
देवमनुष्यादिजातिभेदः शुक्लकृष्णादिगुणभेदः गमनागमनादिक्रियाभेदः खुरपुच्छशृङ्गाद्यवयवभेद
इति अचिद्गतं सर्वविधं बाह्यं द्वैतम् , सुखदुःखमोहरागद्वेषलोभभयशोकमदमान-
मत्सरादिकमान्तरं चिद्गतं द्वैतमपि सर्वेश्वरे न प्रसङ्गमर्हतीत्यर्थः ।
नन्वेकत्वसंख्याऽपि नास्ति । कुतः? सजातीयविजातीयभेद इति अर्थ इति न
वाच्यम्- ‘एष सर्वज्ञ एव सर्वेश्वरः’ इत्यादिभिः ज्ञानेश्वर्यादिगुणानां प्रमाणान्तराप्रतिपन्नानाम्,
कृत्स्नस्य जगतः तद्विभूतित्वस्य च विहितत्वात् । विहितस्य च निषेधायोगात् ।
अनेकवाक्यप्रतिपन्नस्य एकवाक्येन बाधायोगात् । प्रथमवाक्यावगतस्य च चरमवाक्येन
बाधायोगात् । गुणविशेषविधानस्य सामान्यशब्देन बाधायोगात् । विशेषनिषेधे
सामान्यनिषेधसंकोचस्य युक्तत्वाञ्च । अतो यथोक्त एवार्थः ।
मर्त्यं नास्ति अमृतं कुतः? इति । मर्त्यत्वं नास्ति; अमृतत्वं कुतः? प्रसङ्गे
सति हि प्रतिषेधः । मर्त्यत्वमिति सांसारिकस्वभावानामुपलक्षणम् । संसारित्वप्रसङ्गाभावात्
परमात्मनो जीवात्मन इव तद्विनाशरूपममृतत्वं नास्तीत्यर्थः ।
एवं चिदचिद्वैलक्षण्यमुक्त्वा कल्याणगुणेषु प्रथमप्रतिपादितं सार्वज्ञ्यमादरातिशयात्
प्रपञ्चयति-नान्तःप्रज्ञ इत्यादिना । अन्तरेव प्रज्ञा यस्य सः अन्तःप्रज्ञः । अव्भक्ष इतिवत्
अवधारणगर्भोऽयं निर्देशः । नान्तःप्रज्ञः । बाह्यमपि जानातीत्यर्थः । न बहिःप्रज्ञः ।
न बहिरेव जानाति, अपि त्वन्तरपि जानातीत्यर्थः । कूपकच्छप: कूपाबहिर्न वेति ।
भूतलस्थः पुरुषः कूपान्तर्गतं न जानाति । सर्वेश्वरस्तु नैवम् ; अपितु सर्वपदार्थानामन्तर्बहिश्च
जानातीत्यर्थः । नोभयतःप्रज्ञः । यद्यपि परिच्छिन्नरूपाद्यपेक्षया अन्तर्गतबहिर्भागौ
विद्येते, तथापि परमात्मनः सर्वगतत्वात् बहिर्भागो नास्ति; तदभावात् तदपेक्षान्तर्भागश्च
नास्तीति नोभयतःप्रज्ञः; अपितु सर्वगतः सर्वं जानातीत्यर्थः । न प्रज्ञानघन: न
घनीभूतज्ञनः । घनत्वं बहुलत्वम् । बाहुल्यञ्च प्रसृमरद्रव्यस्य करतलादिप्रतिहतिकृतम् ।
यथा रविकिरणादेः । अन्तःप्रतिहतिहेतुकघनीभावनिषेधात् प्रतिहतिः निषिद्धा भवति ।
अप्रतिहतज्ञान इत्यर्थः । न प्रज्ञः प्रकृष्टं ज्ञानं प्रज्ञा । अपरोक्षज्ञानं प्रकृष्टज्ञानम् ।
इन्द्रिययोगाभ्यासादिजन्यज्ञानरहित इत्यर्थः । नाप्रज्ञः तथाऽपि न प्रकृष्टज्ञानशून्य
इत्यर्थः । अपितु हेतुनिरपेक्षस्वाभाविकसर्वसाक्षात्कारवानित्यर्थः । नो विदितं वेद्यं
नास्तीति । तस्य सर्वेश्वरस्य विदितमतीतज्ञानविषयो नास्ति । वेद्यम् आगामिज्ञानविषयश्च
नास्ति । किंतु सर्वं नित्यज्ञानगम्यमित्यर्थः । इत्येतन्निर्वाणमनुशासनम् । एवं सर्वेश्वरस्य
गुणविभूतिप्रकर्षवैशिष्ट्यविषयमिदमनुशासनं मोक्षहेतुः । इति वेदानुशासनम्
वेदपुरुषस्योपदेशः । अभ्यासः समाप्तिद्योतकः; आदरकृतो वा ॥
॥ इति श्रीहरितकुलतिलकवाग्विजयिसूनोः श्रीरङ्गराजदिव्याज्ञालब्ध वेदव्यासापरनामधेयस्य
श्रीसुदर्शनार्यस्य कृतिषु सुबालोपनिषद्विवरणे पञ्चमः खण्डः ॥
अस्याः उपनिषदः एतावतेव भाष्यं सर्वत्र उपलभ्यते ।