सुबालोपनिषत्-चतुर्थः खण्डः

सुबालोपनिषत्

सुबालोपनिषद्विवरणम्

श्रीश्रुतप्रकाशिकाचार्यविरचितम्

अथ चतुर्थः खण्डः

[जीवस्य जागराद्यवस्थावर्णनम्]

हृदयस्य मध्ये लोहितं मांसपिण्डम्, यस्मिंस्तद्दहरं पैण्डरीकं कुमुदमिवानेकधा

विकसितम् ।

हृदयस्य दश छिद्राणि भवन्ति; येषु प्राणाः प्रतिष्ठिताः ।

एवं खण्डत्रयेण परस्य ब्रह्मणो जगत्कारणत्वम्, तत्प्रयुक्तदोषशङ्कानिवारणार्थं

विश्वविलक्षणत्वञ्चोक्तम् । अपवर्गोपायश्च सत्याद्यनुगृहीतं तदुपासनमिति च संक्षेपत

उक्तम् । अथ उपासनविशेषान् पञ्च प्रपञ्चयितुं उपासनस्थानेषु प्रधानं हृदयकमलं प्रस्तुत्य

तत्रावस्थितस्य जीवस्य परमात्मोपासिसिषोपजननाय प्रकृतिसम्बन्धसंकुचितज्ञानस्यास्य

ज्ञानसंकोचविकासतारतम्यकृतो जागराद्यवस्थायोगः चतुर्थेन खण्डेन प्रतिपाद्यते ।

हृदयस्य मध्ये लोहितं मांसपिण्डम् इति । अत्रायं हृदयशब्दः शरीरे

वक्षःस्थलोपलक्षितप्रदेशपरः । तस्य मध्ये लोहितं रक्तवर्णं मांसपिण्डं स्थितमित्यर्थः । यस्मिन्

तद्दहरं पैण्डरीकम्’ इति । पुण्डरीकमेव पौण्डरीकम् । उपमानोपमेयभावेन

पुण्डरीकसंबन्धीति वाऽर्थः । ‘पद्मकोशप्रतीकाशं हृदयञ्चाऽप्यधोमुखम्’ (तै.ना.११) इति

(हि?) श्रूयते । यस्मिन् मांसपिण्डे पौण्डरीकं पद्मकोशसदृशावयवविशेषः तिष्ठतीत्यर्थः ।

हृत्पद्मं मांसविशेषेण परित आवेष्टितत्वात् मांसपिण्डमध्यस्थितमित्युक्तम् । कुमुदमिवानेकधा

विकसितम् इति । वर्णेन कुमुदसन्निभम् । तस्य चन्द्रकान्तसमानत्वं हि योगशास्त्रेषूच्यते ।

अनेकधा विकसितं - विकासयोग्यम् अनेकधा शब्दादिनानाविषयज्ञानप्रसरानु-

गुणावकाशमित्यर्थः ।

तदेव विवृणोति - हृदयस्य दश छिद्राणि भवन्ति इति । अयं हृदयशब्दः

पद्मकोशसदृशावयवपरः । छिद्राणि नाडीमुखसम्बन्धद्वाराणि । येषु प्राणा: प्रतिष्ठिता

इत्यनेन नाडीछिद्रत्वं स्पष्टम् । इह बहुवचनान्त प्राणशब्देन इन्द्रियाणि विवक्षितानि । यद्वा

प्राणापानादयो विवक्षिताः ।

स यदा प्राणेन सह संयुज्यते, तदा पश्यति नद्यो नगराणि बहूनि विविधानि

च । यदा व्यानेन सह संयुज्यते, तदा पश्यति देवांश्च ऋषींश्च । यदाऽपानेन सह

संयुज्यते, तदा पश्यति यक्षराक्षसगन्धर्वान् । यदा तु उदानेन सह संयुज्यते, तदा

पश्यति देवलोकान् देवान् स्कन्दं यजञ्चेति । यदा समानेन सह संयुज्यते, तदा

पश्यति देवान् लोकान् धनानि च । यदा वैरम्भेण सह संयुज्यते, तदा पश्यति

दृष्टचादृष्टञ्च श्रुतञ्चाश्रुतञ्च भुक्तञ्चाभुक्तञ्च सञ्चासश्च । सर्वं पश्यति; सर्वं पश्यति ।

योगदशायां वायुविशेषस्य ज्ञानविकासकारणत्वमाह स यदा इत्यादिना । स

यदा प्राणेन संयुज्यते, तदा पश्यति नद्यो नगराणि बहूनि विविधानि च इति

उपासकत्वेन पूर्वखण्डप्रस्तुतः इह च शरीराद्यधिष्ठातृत्वेन बुद्धिस्थो जीवात्मा स इत्युच्यते;

यदा इति योगकालो विवक्षितः । एकवचनान्तोऽयं प्राणशब्दः प्राणाख्यवृत्तिमद्वायुविशेषपरः ।

प्राणेन सह संयुज्यते । मनसा प्राणसंयुक्तत्वेन भावित इत्यर्थः । यत्र हि मनः, तत्र हि

वायुः । नद्यः नदी: पश्यति इति । व्यवहितान्यपि नद्यादीनि पश्यतीत्यर्थः । यदा

व्यानेन सह संयुज्यते इत्यादिवाक्यानामप्यनया दिशा निर्वाहो वेदितव्यः । यदा तु

उदानेनेति । देवान् । देवलोकस्थानिति शेषः । जयम् जयाभिमानिदेवताम्; जयन्तं वा ।

तलोपश्छान्दसः । प्रधानभूतदेवताप्रदर्शनार्थ स्कन्दाद्युक्तिः । धनानि इति । भूमिनिहितानीत्यर्थः ।

वैरम्भः वायुविशेषः । उपरि व्यक्तीभविष्यति । दृष्टश्रुतादिकीर्तनं दृष्टान्तार्थम् ।

जन्मान्तरे दृष्टं वा । सर्वं पश्यति इत्यभ्यास आदरकृतः । एवं प्राणादिविशेषप्रसङ्गेन

तत्प्रशंसा कृता । अयोगदशायामदर्शनं लोकसिद्धत्वादनुक्तम् । एवञ्च हृदयकमलस्थस्य

जीवात्मनः प्राणेन्द्रियव्यापारवतो जागरावस्था दर्शिता भवति ।

[नाडीविशेषाः]

अथेमा दश नाड्यो भवन्ति । तासामेकैकस्यां द्वासप्ततिर्द्वासप्ततिः’

शाखानाडीसहस्राणि भवन्ति, यस्मिन्नयमात्मा स्वपिति शब्दानाञ्च करोति ॥

अथ स्वप्नाद्यवस्थाद्वयं वक्तुं तयोरवस्थयोर्जीवस्य स्थानभूतान् नाडीविशेषानाह.

अथेमा दश नाड्यो भवन्ति इति । नाड्यः प्रधाननाड्यः । तासाम् इति । प्रधाननाडीसंसृष्टाः

अप्रधानसिराः शाखानाड्यः । उक्तानां नाडीनां विनियोगं सामान्येन दर्शयति - यस्मिन्नयमात्मा

स्वपिति इति । नाडीसमूहाभिप्रायेण यस्मिन् इत्युक्तम् । स्वपिति इतिशब्दोऽयं न

सुषुप्तिपरः; अपि तु सुषुप्तिस्वप्नसाधारणनिद्रापरः । उपरतबाह्येन्द्रियव्यापारो यत्र वर्तते

इत्यर्थः । स्वप्नसुषुप्तिसाधारणचेष्टामाह - शब्दानाञ्च करोति इति । द्वितीयार्थे षष्ठी ।

शब्दान् करोतीति । अबुद्धिपूर्वकमवशप्रलपितं करोतीत्यर्थः । स्वप्ने भयाद्यतिशयात्

आक्रोशादिसंभवः । सुषुप्तावपि वातविकारात् अवशप्रलपितसंभवः ।

[स्वप्नावस्थावर्णनम्]

अथ द्वितीये स कोशे स्वपिति । तदेमञ्च लोकं पश्यति सर्वान् शब्दान्

विजानाति स संप्रसाद इत्याचक्षते ।

एवं स्वप्नसुषुप्त्योः साधारणाकारमुक्त्वा स्वप्नावस्थामाह - अथ द्वितीये स कोशे

स्वपिति इति । अथ जागरानन्तरम् । कोशशब्दः स्थानपरः । प्रथमस्थानं हृदयपुण्डरीकम् ।

तत्र स्थितस्य जागरः । यदा तदनन्तरं द्वितीयकोशस्थाने (द्वितीये कोशे=स्थाने?)

उक्तानां नाडी सहस्राणां मध्ये कस्मिंश्चिन्नाडीसमूहविशेषे स्वपिति निद्रायते, तदा स

प्रस्तुतः संप्रसादो जीवात्मा इमञ्च लोकं परञ्च लोकं च(?) पश्यति ।

जाग्रदवस्थादृष्टसजातीयञ्च लोकम् ईश्वरसृष्टं पश्यतीत्यर्थः । ‘न तत्र रथा न रथयोगा न

पन्थानो भवन्ति । अथ रथान् रथयोगान् पथः सृजते । स हि कर्ता’ (बृ.उ.६-३-१०)

इति श्रूयते । पश्यतीति चक्षुर्व्यापार उक्तः । अथ श्रोत्रव्यापारमाह - सर्वान् शब्दान्

विजानाति इति । इदमीश्वरसृष्टशरीरस्थेन्द्रियान्तरव्यापाराणामपि प्रदर्शनार्थमुक्तम् । इत्याचक्षत

इति । स्वप्नावस्थां स्वप्नविदो वदन्ति इत्यर्थः ।

[सुषुप्त्यवस्था]

प्राण: शरीरं परिरक्षति । हरितस्य नीलस्य पीतस्य लोहितस्य श्वेतस्य नाड्यो

रुधिरस्य पूर्णाः ।

अथ सुषुप्तिं वक्तुमारभते प्राणः शरीरम् इत्यादिना । सुषुप्तिकाले जीवेच्छाप्रयत्नौ

विनाऽपि परमात्मसंकल्पप्रेरितो मुख्यः प्राणः शरीरं परिरक्षति धत्त इत्यर्थः ।

प्राणसंचारस्थानभूता नाडीविशिनष्टि - हरितस्य इति । हरितादि पदानि रुधिरविशेषणानि ।

ईषत्पीतं हरितम् । लोहितं शोणवर्णम् । रुधिरस्य रुधिरेण नाड्यः पूर्णा भवन्ति ।

आयासाभावात् नाडीषु रक्त न्यूनाधिकभावविरहेण व्याप्तमित्यर्थः । पूर्व नाडीविशेषाः

स्वप्नस्थानत्वेन उक्ताः ।

अथात्रैतद् दहरं पौण्डरीकं कुमुदमिवानेकधा विकसितम् ।

यथा केशः सहस्रधा भिन्नः, तथा हिता नाम नाड्यो भवन्ति । हृद्याकाशे

परे कोशे दिव्योऽयमात्मा स्वपिति, यत्र सुप्तो न कञ्चन कामं कामयते, न कञ्चन

स्वप्नं पश्यति ।

न तत्र देवा देवलोका यज्ञा वा ।

अथ नाडीविशेषाणामेवान्येषां सुषुप्तिस्थानत्वं वक्तुं तेषामपि हृदयकमलसंबन्धकथनार्थं

हृदयं पुन: प्रस्तौति अथान्न इति । पूर्ववदर्थः । तत्संबन्ध (द्ध?) नाडीबाहुल्यमाह .

यथा केशः सहस्रधा भिन्नः तथा हिता नाम नाड्यो भवन्ति इति । हृदयसंबद्धा

भवन्तीत्यर्थः । तासं हिताख्यानां नाडीनां सुषुप्त्याधारत्वं पुरीतद्व्यवहितमिति श्रुत्यन्तरे विशदमर्थमिह

दर्शयति - हृद्याकाशे परे कोशे दिव्योऽयमात्मा स्वपिति इति । हृदि आकाशेऽवस्थितो

अयमात्मा परे कोशे अन्यस्मिन् स्थाने मांसपिण्डशब्देन पूर्वमुक्ते पुरीतदाख्ये स्थाने

स्वपितीत्यर्थः । ‘हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात् पुरीततमभिप्रतिष्ठन्ते ।

ताभिः प्रत्यवसृप्य पुरीतति शेते’ (कौ.उ.४-३८) इति हि श्रुत्यन्तरम् । हृदयवेष्टनमांसं

पुरीतच्छब्देनोक्तम् । तदिह स्थानान्तरत्वेनोच्यते । हृदये जागरः । नाडीविशेषेषु स्वप्नः ।

हिताख्यनाडीविशेषान्विते पुरीतति सुषुप्तिरिति विभागः । यत्र तृतीयस्थाने । न तत्र

देवा देवलोका यज्ञा वा इति । देवा(देहा)दयः सुषुप्तौ न दृश्यन्त इत्यर्थः ।

न माता न पिता न बन्धुर्न बान्धवो न स्तेनो न बह्म न तेजस्कायममृतं

सलिल एव । इदं सलिलं वनम् । भूयस्तेनैव मार्गेण जाग्राय धावति स सम्राडिति

होवाच ॥

॥ इति चतुर्थः खण्डः ॥

न माता इत्यादि । सुषुप्तः पुरुषः न माता भवति । न पिता भवति ।

मातृत्वपितृत्वाद्यभिमानरहितो भवतीत्यर्थः । बन्धुः - प्रकृतिसंबन्धवान् । बान्धवः -

सुहृदादिः । न तेजस्कायममृतम् इति । अमृतम् मरणादिरहितमात्मवस्तु नतेजस्कायम् ।

तेजः शब्दो ज्ञानपरः । काय शब्दो निकायपरः । विविधज्ञानसमूहरहितमित्यर्थः ।

सलिले । सलिले, सलिलकार्ये शरीरे वा वर्तत इत्यर्थः । सलिलशब्दं विवृणोति - इदं

सलिलं बनम् इति । वनम् । ‘वन षण संभक्तौ’ (धा.पा.४६३,४६४) । आत्मनः

संभजनीयमिदं शरीरं सलिलकार्यत्वात् सलिलमित्यर्थः । इदं सलिलं छन्नम् इति पाठे

इदं शरीरं छन्नम् - सुषुप्तस्य न भासत इत्यर्थः ।

पुनः प्रबोधप्रकारमाह - भूय इति । तेनैव मार्गेण निर्गमनमार्गेण; हिताख्यनाडी-

मार्गेण । ‘ताभिः प्रत्यवसृप्य पुरीतति शेते’ (कौ.उ.४-३८) इति श्रुतेः । सम्राट्

शरीरस्वामिभूतः पुरुषः तेनैव निर्गमनमार्गेणैव जाग्राय जागरणाय धावति गच्छति ।

हृदयस्थानमिति शेषः । इति होवाच इति आचार्य इति शेषः ॥

॥ इति हरितकुलतिलकवाग्विजायिसूनोः श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापरनामधेयस्य

श्रीसुदर्शनार्यस्य कृतौ सुबालोपनिषद्विवरणे चतुर्थः खण्डः ॥