सुबालोपनिषत्-द्वितीयः खण्डः

सुबालोपनिषत्

अथ द्वितीयः खण्डः

सुबालोपनिषद्विवरणम्

श्रीश्रुतप्रकाशिकाचार्यविरचितम्

[अथ भूतादिसृष्टिः]

अपानानिषादा यक्षराक्षसगन्धर्वाश्च, अस्थिभ्यः पर्वता लोमभ्या

ओषधिवनस्पतयः, ललाटात् क्रोधजो रुद्रोऽजायत (जायते) ।

तस्यैतस्य महतो भूतस्य निःश्वसितमेवैतत्, ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः

शिक्षा कल्पो व्याकरणं निरुक्तं छन्दोविजि(चि?) तं ज्योतिषामयनं न्यायो मीमांसा

धर्मशास्त्राणि व्याख्यानान्युपव्याख्यानानि च सर्वाणि च भूतानि ।

अथ अनुक्तसर्गप्रपञ्चपूर्वकं प्रळय उच्यते - अपानात् इति । मनुष्येषु निकृष्टाः

निषादाः, देवयोन्यवान्तरभेदा: यक्षराक्षसगन्धर्वाश्च चतुर्मुखस्य अपानादजायन्त इति

अध्याहारेण वा अजायत इति पदस्य विपरिणामे वा अन्वयः । ललाटात् क्रोधज इति ।

रुद्रोत्पत्तौ चतुर्मुखस्य मनोवृत्तिषु क्रोधः, अवयवेषु ललाटञ्च हेतुः । ‘ब्रह्मणः पुत्राय

नमः’ इत्यादिष्वपि क्रोधात् ललाटोद्भवतया पुत्रत्वमेतदैकार्थ्येन सिद्धम् ।

अथ शास्त्रप्रवर्तनमाह - तस्यैतस्य इति । तस्य अण्डसंभवस्य एतस्य

देवादिस्रष्टुर्हिरण्यगर्भस्य इत्यर्थः ।

महतो भूतस्य इति परमात्मवाचिशब्देन सामानाधिकरण्यात् हिरण्यगर्भकर्तृकस्य

सर्वस्य भगवदधीनत्वं ज्ञाप्यते । ‘महद्भूतमनन्तमपारम्’ (बृ.उ.४-४-१२) ‘एतस्य वा

अक्षरस्य महतो भूतस्य’ (बृ.उ.५-८-८) इति ‘एकोविष्णुर्महद्भूतम्’ (शरभो.२५) इति

च श्रुतिस्मृतिषु महद्भूतशब्दयोः भगवति प्रसिद्धिरविगीता । निःश्वसितम् इति ततः प्रवृत्तत्वं

विवक्षितम् । सर्वाणि च (तानीमानि) भूतानि निश्वसितम् इत्यन्वयः । भूतशब्दः

शरीरपरः ।

हिरण्यज्योतिर्यस्मिन्नयमात्माऽधिक्षीयन्ति भुवनानि विश्वा, आत्मानं

द्विधाऽकरोत्, अर्धेन स्त्री अर्धेन पुरुषः । देवो भूत्वा देवानसृजत् ऋषिर्भूत्वा

ऋषीन्, यक्षरक्षसगन्धर्वान्, ग्राम्यान् आरण्यान् पशूनसृजत् । इतरा

गौरितरोऽनड्वान्; इतरा बडबेतरोऽश्वः; इतरा गर्दभीतरो गर्दभः; इतरा विश्वम्भरी

इतरो विश्वम्भरः ।

हिरण्यज्योतिः इत्यादि । हिरण्यसमानं ज्योतिः यस्य सः हिरण्यज्योतिः

इत्यात्मविशेषणम् । यस्मिन् विश्वा भुवनानि अधिक्षीयन्ति वश्यतया स्थितानि,

सोऽयं हिरण्यज्योतिरात्मा हिरण्यगर्भः आत्मानं द्विधाऽकरोत् इत्यन्वयः । कथम्? अर्धांशेन

स्री अर्धांशेन पुरुषः । अभूदिति शेषः । शरीरिणः स्रष्टुं ब्रह्मा स्वांशाभ्यां तत्तञ्जातीय:

पुरुषोऽभूत्, तत्तज्जतीया स्त्री च अभूत् इत्यर्थः । तदेव प्रपञ्चयति - देवो भूत्वा देवानसृजत्

इत्यादिना । यक्षराक्षसगन्धर्वान् इति । तज्जातीयः पुमान् भूत्वाऽसृजदिति प्रकरणवशात्

अवगम्यते । ग्राम्यारण्यपशुसृष्टिं प्रपञ्चयति - इतरा गौ: इत्यादिना । इतरा पूर्वं ब्रह्मणा

स्वांशेन सृष्टा स्त्री गौः अभवत् । इतर: तत्कल्पितः पुरुषः अनड्वान् पुङ्गवोऽभूत् ।

गोजातीयसृष्ट्यर्थम् इत्यर्थः । इतरा बडबा इतरोऽश्व इत्यादेरप्येवं योजना । बडबा

तुरगस्त्री । विश्वम्भरी भारवहा उष्ट्री । अर्थान्तरमन्वेष्टव्यम् ।

[प्रलयनिरूपणम्]

सोऽन्ते वैश्वानरो भूत्वा संदग्धे सर्वाणि भूतानि ।

पृथिव्यप्सु प्रलीयते । आपस्तेजसि लीयन्ते । तेजो वायौ लीयते । वायुराकाशे लीयते ।

अथ प्रळयं प्रतिपादयति - सोऽन्ते इत्यादिना । सः हिरण्यगर्भरूप: परमपुरुष:

अन्ते स्थितिकालसमाप्तौ वैश्वानरः कालाग्निः भूत्वा सर्वाणि भूतानि कार्यजातानि

संदग्धे दहति = धक्ष्यति इत्यर्थः । भवनदहनक्रिययोर्भेदात् स इति द्विरुक्तिः । दाहानन्तरं

प्रळयमाह - पृथिव्यप्सु प्रलीयते इति । पूर्वावस्थाप्रहाणेन कारणसंसर्गो लयः ।

‘लीङ् श्लेषणे’ (धा.पा.११३९) इति हि धातुः । कार्यस्य तदुपयुक्तकारणद्रव्यांश उपादानम् ।

तदतिरिक्तांशस्त्वपादानम् । तदपेक्षया कार्यस्य विभागव्यपदेशः । अतः पञ्चम्यन्तेन

उच्यते । अपादानं (उपादानं?) त्यक्तकार्यावस्थद्रव्यमपादानेन संसृष्टं भवति । तस्य

तदानीम्, घटस्य भूतलवत् अधिकरणत्वात् अपादानमेव सप्तम्यन्तेन उच्यते । अपादानस्य

उपादानद्रव्यसजातीयत्वात्, ‘कारणे लय’ इति व्यपदेशः ।

पृथिव्यप्सु प्रलीयते । पृथिवी पृथिवीत्वावस्थाम् तदुपक्रमभूतां गन्धतन्मात्रावस्थाञ्च

हित्वा अम्ब्ववस्था सती प्रागवस्थितेषु समुद्रादिजलेषु संसृष्टा भवतीत्यर्थः । स च

संसर्गः समानाकारयोः निरन्तरसंश्लेषरूपत्वादैक्यम् इत्युच्यते । शुक्लगो क्षीरे कपिलादिगो

क्षीरं संसृष्टमेकीभूतम् इति व्यपदिश्यते । आपस्तेजसि लीयन्ते इत्यादिवाक्यानामपि

अयमेवार्थः । त्यक्तजलावस्थस्य त्यक्तरसतन्मात्रावस्थस्य च द्रव्यस्य तेजोवस्थापन्नस्य

प्रागवस्थिततेजस्सम्पर्को लयः । एवम् उत्तरत्राप्यनुसन्धेयम् ।

एतत्सर्वं भगवता पराशरेण स्पष्टमुक्तम्

‘आपो ग्रसन्ति वै पूर्वं भूमेर्गन्धात्मकं गुणम् ।

आत्तगन्धा ततो भूमिः प्रळयत्वाय कल्पते ।

प्रणष्टे गन्धतन्मात्रे भवत्युवीं जलात्मिका ।

आपस्तदा प्रवृद्धास्तु वेगवत्यो महास्वनाः ।

सर्वमापूरयन्तीदं तिष्ठन्ति विचरन्ति च’ ॥ इति ।

(वि.पु.६-४-१४,१५,१६)

तथा -

‘नश्यन्त्यापः पुनस्ताश्च रसतन्मात्रसंक्षयात् ।

ततश्चापो हतरसाः ज्योतिष्ट्वं प्राप्नुवन्ति वै ।

अग्न्यवस्थे तु सलिले तेजसा सर्वतो वृते ।

स चाग्निः सर्वतो व्याप्य आदत्ते तज्जलं तथा ।

प्रणष्टे रूपतन्मात्रे हृतरूपो विभावसुः ।

प्रशाम्यति तथा ज्योतिः वायुर्दोधूयते महान् ।

निरालोके तदा लोके वाय्ववस्थे च तेजसि’ ॥ इत्यादिना ।

(वि.पु.६-४-१७,१८,२९,२१,२२)

अत्र, ‘प्रणष्टे गन्धतन्मात्रे भवत्युर्वी जलात्मिका’ इत्यनेन स्थूलपृथिव्या एव

गन्धतन्मात्रावस्थाप्रहाणेन जलत्वापत्तिरुक्ता । ‘आपस्तदा प्रवृद्धास्तु’ इत्यनेन प्रागवस्थितानाम्

अपां पृथिव्यवस्थान्तररूपसलिलान्तरसंसर्गात् तदेकीभूततया प्रवृद्धत्वमुक्तम् । ‘सर्वमापूरयन्ति’

इति पूर्वपृथिव्याक्रान्तप्रदेशस्यापि सकलिलस्याऽऽपूरितत्त्वमुक्तम् । एवमग्न्यवस्थजलस्यापि

रसतन्मात्रावस्थाप्रहाणेन ज्योतिष्ट्वापत्तिः कण्ठोक्ता - ‘अग्न्यवस्थे तु सलिले तेजसा सर्वतो

वृते’ इति । औज्वल्यगुणेनाऽऽवृते सति प्रागवस्थितो ह्यग्निः सर्वतो व्याप्य =

पूर्वजलसंसृष्टमपि प्रदेशं व्याप्य तज्जलम् अग्न्यवस्थमादत्ते = स्वात्मनैकीकरोति इत्यर्थः ।

‘प्रणष्टे रूपतन्मात्रे’ इत्यादिना अग्नेरपि तन्मात्रावस्थाप्रहाणेन वायुत्वापत्तिः, तेन एकीभावात्

प्रागवस्थितस्य वायोरतिमहत्त्वापत्तिश्च प्रतिपादतिा । एवम् उपबृंहणानुगृहीतत्वात् पृथिव्यप्सु

प्रलीयते इत्यादिवाक्यानां यथोक्त एवार्थः ।

आकाशमिन्द्रियेष्विन्द्रियाणि तन्मात्रेषु

आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेषु इति । अत्र इन्द्रियाणि तन्मात्राणि च

न लयस्थानत्वेन विवक्षितानि । इन्द्रियाणामाकाशकारणत्वाभावात् तन्मात्राणामिन्द्रिय-

कारणत्वाभावात् । प्रलीयत इति पदाश्रवणाञ्च । अत एव लयशब्दानुषङ्गश्च न युक्तः ।

प्रथमेतरसर्ववाक्येष्वनुषङ्गश्चेत्, मध्यगतवाक्यद्वयेऽपि अनुषङ्गः स्यात् । पूर्वापरवाक्येषु

सर्वेषु लयवाचिपदस्य पठितत्वात् मध्येऽनुषङ्गश्चानुचितः । अतो लयपदाश्रवर्णं

लयस्याविवक्षितत्वं दर्शयति । अतः संसर्गमात्रमेव विवक्षितम् ।

ननु आकाशस्य इन्द्रियसंयोगः प्रागप्यस्तीति प्रळयदशायां तदुक्तिवैयर्थ्यमिति

चेत् - (?) इह विवक्षितस्य संसर्गस्य प्रागसिद्धत्वात् । मन आदीनाम् इन्द्रियाणाम् हि

पृथिव्यादिभूतैराप्यायनं श्रुतिस्मृतिषु प्रसिद्धम्, ‘अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी

वाक्’ (छां.उ.६-४,४) ‘श्रोत्रं नभो घ्राणमुक्तं पृथिव्याः’ इत्यारभ्य ‘वाय्वात्मकं

स्पर्शनमामनन्ति’ ‘नभः श्रोत्रञ्च तन्मयम्’ इत्यादिषु । तत्र पृथिव्यादिषु वायुपर्यन्तेषु

प्रलीनेषु तत्तदिन्द्रियाप्यायकभूतांशानामपि प्रलीनतया तेषामाकाशतापन्नत्वात् सर्वेष्वपि

इन्द्रियेषु स्वान्तर्गतेतरभूतमाकाशमेव संसर्गितयाऽवस्थितम्, न तु पृथिव्यादीत्यर्थः । अथ

इन्द्रियाणाम् आकाशस्य च अहङ्कारकार्यत्वात् सेन्द्रियस्य स्वान्तर्गतेतरभूतचतुष्टयस्य

आकाशस्य तत्र लयं वक्तुम्, आकाशस्य तन्मात्रावस्थापनस्यैव इन्द्रियसंसर्गमाह - इन्द्रियाणि

तन्मात्रेषु इति । पूर्वमाकाशसंसृष्टानि इन्द्रियाणि पश्चात् शब्दतन्मात्रेषु संसृष्टानीत्यर्थः ।

परित्यक्त तन्मात्रावस्थतया पृथिव्यादिषु प्रलीनेषु गन्धतन्मात्रादीनाम् अवस्थानानुपपत्तेः

शब्दतन्मात्रमेव तन्मात्रशब्देन विवक्षितम् । तत्तदिन्द्रियाप्यायकपृथिव्यादिभूतांशानामपि

स्वस्वकारणतत्त्वलयक्रमेण शब्दतन्मात्रतापन्नत्वात् तत्तदंशेन भेदविवक्षायां बहुवचनम् ।

एतदुक्तं भवति - इन्द्रियाप्यायकभूतानां सर्वेषां आकाशतापन्नत्वात् आकाशस्यैव इन्द्रियेषु

संसर्ग आसीत् । पञ्चानामपि भूतानां शब्दतन्मात्रतापन्नत्वात् इन्द्रियाणि शब्दतन्मात्रभेदेषु

संसृष्टान्यासन्निति ।

तन्मात्राणि भूतादौ लीयन्ते

अथ सेन्द्रियाणां शब्दतन्मात्रांशानां स्वकारणे प्रळयमाह - तन्मात्राणि भूतादौ

लीयन्ते इति । भूतादिशब्दो अहङ्कारमात्रपरः । इन्द्रियाणां सात्त्विकाहङ्कारकार्यतया

तस्मिन्नंशे लयोपपत्तेः । तामसाहङ्कारांशे लयानुपपत्तेश्च ।

यद्वा -

अण्डान्तर्गतस्य भूतचतुष्टयस्य स्वस्वतन्मात्रलयक्रमेणाकाशतापत्ति:

आकाशस्येन्द्रियसंसर्गश्च उक्तौ । अथ तेन आकाशेन सह अण्डात् बहिरावरणत्वेनावस्थितानां

भूतानां तन्मात्रावस्थापत्तिरूपं प्रळयमिन्द्रियसंसर्गञ्चाह - इन्द्रियाणि तन्मात्रेषु इति ।

ब्रह्माण्डतदावरणरूपेणावस्थितानि पृथिव्यादीनि भूतानि स्वस्वकारणे प्रलीयमानानि

तन्मात्रावस्थां क्रमेणापन्नानि भवन्ति । तेषु तन्मात्रेषु इन्द्रियवर्गः क्रमेण संसृष्ट इत्यर्थः ।

अथ अण्डोदरतद्बहिर्भागावस्थितमहाभूतकारणानां साधारणं प्रळयमाह - तन्मात्राणि

भूतादौ लीयन्ते इति । तानि तन्मात्राणि साक्षात्परम्परया च स्वकारणभूतेऽहङ्कारे

साक्षात् परम्परया च लीयन्ते इत्यर्थः ।

अयमर्थाे भगवता पराशरेण स्पष्टमुक्तः ‘आपो ग्रसन्ति वै पूर्व भूमेर्गन्धात्मकं

गुणम्’ (वि.पु.६-४-१४) इत्यादिना अण्डान्तर्गतानां तत्त्वानाम् अव्यक्तपर्यन्तम् प्रळयमुक्त्वा,

‘येनेदमावृतं पूर्वमण्डमप्सु प्रलीयते ।

सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् ॥

उदकावरणं यत्तु ज्योतिषा लीयते तु तत् ।

ज्योतिर्वायौ लयं याति यात्याकाशे समीरणः ॥

आकाशश्चैव भूतादिर्ग्रसते तं तथा महान् ।

महान्तमेभिः सहितं प्रकृतिर्ग्रसते द्विज’ ॥ इति । (वि.पु.६-४-३१,३२,३३)

अस्यां योजनायां तन्मात्रेषु, तन्मात्राणि इत्युभयत्र तन्मात्रशब्दसङ्कोचः;

बहुवचनस्वारस्यम्; उपबृंहणानुग्रहश्च सिद्ध्यति ।

भूतादिर्महति लीयते । महानव्यक्ते लीयते । अव्यक्तमक्षरे लीयते । अक्षरं

तमसि लीयते । तमः परे देव एकीभवति ।

परस्तात् नसन्नासन्नसदसत् - इत्येतन्निर्वाणमनुशासनम् । इति वेदानुशासनम् ।

वेदानुशासनम् ।

॥ इति द्वितीयः खण्डः ॥

भूतादिर्महति लीयते इत्यत्रापि भूतादि शब्दोऽहङ्कारमात्रपरः । वैकारिक-

तेजसाहङ्कारयोः तदानीमवस्थानानुपपत्तेः । महानव्यक्ते लीयते इति ।

गुणत्रयवैषम्यानन्तरपूर्वावस्था गुणसाम्यम् । गुणसाम्यलक्षणमव्यक्तम् । अव्यक्तमक्षरे

लीयते इति । यस्याम् अवस्थायां गुणसाम्यमप्यस्फुटम्, तदवस्थं चेतनसमष्टिगर्भं तत्

अक्षरशब्देन उच्यते, न तु चेतनमात्रम् । तस्याव्यक्तप्रकृतित्व - तमोविकृतित्वायोगात् ।

अतः सर्वं तत्त्वज्ञातं चिदचिदात्मकं मन्तव्यम् । ‘प्रधानादिविशेषान्तं चेतनाचेतनात्मकम्’

इति पराशरवचनात् । अत्र तु चिद्गर्भवस्तुनि अक्षरशब्दः उपचरितः; प्रयोगेऽन्यथासिद्धे

शक्तयन्तरकल्पनायोगात् । अक्षरं तमसि लीयते इति । चिद्गर्भत्वमचित्त्वमपि यत्र

विवेक्तुम् अशक्यम्, तदवस्थमतिसूक्ष्म प्रधानं तमश्शब्दाभिलप्यम् ।

अक्षराद्यवस्थाप्राप्त्यौन्मुख्यविशिष्टं तदेव विभक्तं तमः । तदौन्मुख्यरहितमविभक्तं तमः

परमात्मशरीरतयाऽपि चिन्तयितुमशक्यम्, सलिलविलीनलवणचन्द्रकान्तस्थसलिल .

सूर्यकान्तस्थवह्रिकल्पं सर्वज्ञपरमात्मैकवेद्यमवतिष्ठते । भूतलविनिहितबीजस्थानीयमविभक्तं

तमः । मृन्निस्सृतबीजवत् विभक्तं तमः । सलिलसंसृष्टार्द्रशिथिलावयवबीजतुल्यमक्षरम् ।

उच्छूनबीजसमानमव्यक्तम् । अङ्कुरस्थानीयो महानिति विवेकः । तम …… एकीभवति ।

महादाद्यवस्थाप्रहाणवत् तमस्त्वप्रहाणाभावात् लीयते इत्यनुक्तिः । कार्योपयोगितया विभक्तं

तमः कार्यानुपयुक्ताविभक्ततमसि एकीभवति इत्यर्थः । यथा सलिलावस्थपृथिव्यंशः

प्रागवस्थितसलिलेन एकीभवति, यथाऽग्न्यवस्थो जलांशः प्रागवस्थिततेजसैकीभवति,

तद्वत् तमस्तत्त्वस्य परमात्मशरीरभावस्य वक्ष्यमाणत्वात् अविभक्ततमश्शरीरक-

परमात्मनैकीभाव इति तत्त्वस्थितिः ।

चिदचिदात्मकतमःपर्यन्तप्रकृतिप्राकृतत्त्वविलक्षणं तत्त्वान्तरं प्रतिपादयति -

परस्तान्नसन्नासन्नसदसत् इति । परशब्दः ऊर्ध्वदेशपरः । ‘अथ हैषोऽनन्तमपारमक्षय्यम् लोकं

जयति । यः परेणाऽऽदित्यम्’ इत्यादिप्रयोगात् । ‘दिग्देशकालेष्वस्तातिः’ (पा.सू.५-३-२७)

इति पाणिनिस्मृतिः । तमस ऊर्ध्वदेशे इत्यर्थः । सदसत् शब्दौ कार्यावस्थचेतनाचेतनपरौ ।

सत् आदिशब्दाश्च न निषेधमात्रपराः । अपि तु तद्विलक्षणपरा इति पूर्वमेवोपपादितम् ।

तमस उपरिभागे कार्यकारण (कार्यावस्थ?) चिदचिदात्मकोभयात्मकजगद्विलक्षणं

तत्त्वमित्यर्थः ।

न च वाच्यम् - सदसदनिर्वचनीयत्वमुच्यत इति । परस्तात् इति पदवैयर्थ्यात् ।

परमते हि तमःपर्यन्तं कृत्स्नं वस्तुजातमनिर्वचनीयम् । परशब्दस्य

तमोविलक्षणब्रह्मपरत्वे प्रपञ्चस्य निर्वचनीयत्वं ब्रह्मण एव अनिर्वचनीयत्वञ्च उक्तं स्यात् ।

अस्तातिप्रत्ययवैयर्थ्यञ्च भवेत् । अतः प्रकृति प्राकृतसमस्तवस्तु विलक्षणं किमपि

तत्त्वं विवक्षितम् । तञ्च किमित्यपेक्षायाम् ‘आदित्यवर्णं तमसः परस्तात्’ (महा.ना.४-३)

‘तदक्षरे परमे व्योमन्’ (महा.ना.१-२) ‘विश्वं पुराणं तमसः परस्तात्’ (महा.ना.१-५)

इत्यादिभिः वेदान्तवाक्यैः मुक्तप्राप्यस्थानविशेषविशिष्टं परं ब्रह्मेति निश्चीयते । न च

केवलं परं ब्रह्मैव विश्वविलक्षणत्वात् नसन्नासन्नसदसदित्युच्यते; परस्ताच्छब्दानन्वयप्रसङ्गात् ।

त्रिविधपरिच्छेदरहिततया सर्वगतस्य परब्रह्मणः स्वरूपं हि देशविशेषपरिच्छिन्नं कथमुच्यते ।

अतः स्थानविशेषरूपविशेषविशिष्टमेव तथा वक्तुं युक्तं (क्तमिति?) परस्य ब्रह्मणो

रूपमनेन वाक्येन प्रतिपाद्यत इति सिद्धम् ।

इत्येतन्निर्वाणमनुशासनम् । एतदनुशासनम् विविच्य ज्ञापनम् = उपदेशः ।

निर्वाणम् - निर्वाणहेतुः = मोक्षहेतुः; तत्कारणविषयत्वादित्यर्थः । इति वेदानुशासनम्

इति । ‘जगत्सृष्टिरेवं विधा । प्रळय एवंविधः । कार्यकारणभूतानि तान्येतानि ।

ब्रह्मादयश्च कार्यभूताः । परमकारणं ब्रह्मैव चिदचिद्वस्तुविलक्षणं विलक्षणदेशादिविशिष्टम् ।

तञ्च परमपुरुषः । ब्रह्मादयश्च तत्कार्यभूताः तदात्मकाः । परमकारणविषयज्ञानमेव मोक्षहेतुः’

इत्ययं वेदोपदेश इत्यर्थः । कारणतत्त्वोपदेशसमाप्तिद्योतकोऽभ्यासः ॥

॥ इति श्रीहरितकुलतिलकवाग्विजयिसूनोः श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापरन्नामधेयस्य

श्रीसुदर्शनार्यस्य कृतो सुबालोपनिषद्विवरणे द्वितीयः खण्डः ॥