॥ श्रीः ॥
शुक्लयजुर्वेदीया
सुबालोपनिषत्
शान्तिमन्त्रः
ओम् पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
॥ ओम् शान्तिः शान्तिः शान्तिः ॥
शुक्लयजुर्वेदीयानां एष शान्तिपाठमन्त्रः । परब्रह्मणः समग्रस्य स्वरूपस्य भावप्रतिपादक
इति यथासिद्धान्तं विपुलविशदं विवरणं अर्हति । तथा हि - ‘पूरी -आप्यायने’ (धा.पा.१८०४)
इत्यस्मात् चौरादिकत्वेन स्वार्थणिजन्तात् धातोः क्तप्रत्यये सति ‘वा दान्त-शान्त-पूर्ण-
दस्त-स्पष्ट-छन्न-ज्ञप्ताः’ इति पाणिनिसूत्रेण (पा.सू.७-२-२७)पूर्णशब्दोऽयं निपात्यते ।
इडागमाभावः निपातस्य फलम् । णिलोपः, रात् परत्वात् प्रत्ययतकारस्य नत्वं, तस्य णत्वं
चेति पूर्णशब्दसिद्धौ प्रक्रिया । क्तप्रत्ययश्च इह कर्तरि-कर्मणि वेति उभयथापि भाव्यम् ।
तत्र कर्तरि-ब्रह्म स्वरूपेण पूरयति-व्याप्नोति इत्यर्थः । कर्मणि तु - ब्रह्म कल्याणगुणैः
सम्भृतमित्यर्थः। असंकुचितवृत्तिनानेन पूर्णशब्देन सर्वत्र, सर्वदा, सर्वथा च पूर्णत्वं ब्रह्मणः
प्रतिपाद्यते ।
(१) तत् यथा सर्वत्रेति सर्वदेशव्याप्तिविवक्षा । सर्वत्र पूर्णता नाम
सर्वव्याप्तस्य तत्तद्देशावच्छेदेनापि परिसमाप्यवृत्तित्वपर्यवसानम् । तद्वा कथम्? न हि
एकत्र पूर्णतया स्थितस्य अन्यत्र वृत्तिसम्भवः । इति शङ्का निरस्यते सिद्धान्तिभिः
विशिष्टाद्वैतिभिः व्यक्तिषु परिसमाप्तामपि व्यापिनी तार्किकाणां जाति निदर्शयद्भिरिति
भाव्यम् ।
(२) सर्वदा - इति कालानवच्छेदेन व्याप्तिविवक्षा ।
(३) सर्वथा - इति व्याप्तिप्रकारविवक्षा च । तत्र स्वरूपतः गुणतश्चेति
व्याप्तिप्रकारद्वैविध्यम् । तेन ‘दीपादुत्पन्नप्रदीप न्यायेन’ परस्वरूपवत् उत्तरेषां व्यूह-विभव-
अन्तर्यामि-अर्चावताराणामपि गुणैः पूर्णतासिद्धिः । एतदभिप्रायेणैव मन्त्रपदानि व्याख्येयानि ।
तथा हि - पूर्णमिदं पूर्णमदः इति च पाठभेदो दृश्यते । तत्र विप्रकृष्टवाचिना अदः शब्देन
नित्यविभूतिवर्तिपरस्वरूपग्रहणम् । सन्निहितवाचिना इदं शब्देन च हृदयगुहावर्ति अन्तर्यामिरूपं
विवक्षितम् । पूर्णशब्द: गुणपौष्कल्यवचनः । तथा च परवासुदेवमूर्तिरिव अन्तर्यामिस्वरूपं
च षाड्गुण्यपुष्कलमिति प्रथमवाक्यार्थः । अथ, पूर्णात् - पूर्वोक्तपरवासुदेवसकाशात्
आविर्भूतं पूर्णम् - व्यूहस्वरूपम्, उदच्यते बहुप्रकारं भवति । सङ्कर्षण
प्रद्युम्नानिरुद्धरूपेण द्वि-द्वि-गुणाविष्करणशालि सत् त्रिप्रकारं भवतीति भावः । तत्र
व्यूहत्रये प्रतिव्यक्ति गुणद्वयमात्राविष्करणेऽपि स्वतो गुणषट्कपूर्णमेवेति न न्यूनता भाव्या ।
इदं चोक्तम् - पाञ्चरात्रानुसारतः श्रीवत्सचिह्रगुरुभिः वरदराजस्तवे - ‘गुणैष्षड्भिस्त्वेतैः
प्रथमतरमूर्तिस्तव बभौ । ततः तिस्रः तेषां त्रियुग! युगलैर्हि त्रिभिः अभुः’ (१६) इत्यादिना ।
पूर्णस्य पूर्णम् - इह षष्ठ्यन्तपूर्णशब्दः सर्वावतारकन्दभूतं क्षीराब्धिशायि व्यूहरूपं
वदति । तत्सम्बन्धिपूर्णं रामकृष्णादिविभवावतारजातम् । तत् (द्वितीयान्तम्) आदाय -
स्वहेतुत्वेन स्वीकृत्य - पूर्णं एव अवशिष्यते अर्चावताररूपमेव चरमतया वर्तते
सर्वसमाश्रयणोपयोगि नित्यसन्निहितं कल्याणगुणपूर्णञ्च । इति मन्त्रस्य पदार्थविवरणम् ।
एतेन परब्रह्मणः सर्वव्याप्तिः सर्वत्र गुणपौष्कल्यं च प्रतिपादितं भवति । अध्ययनारम्भे
एवं विध परिपूर्णब्रह्मस्वरूपध्यानं शान्तिमन्त्रेणानेन विधित्सितमिति बोध्यम् । श्रीवचनभूषणस्य
अरुम्बदाख्ये द्रविडभाषामयटिप्पणे समञ्जसमिदं विवरणं दृश्यम् ।
यद्यपि श्रीरङ्गरामानुजमुनीन्द्रै: बृहदारण्यके (७-१-१) अयं मन्त्रः प्रकरणात्
प्रणवस्तुतिपरतया व्याख्यातः । तदेवं - पूर्णमदः पूर्णमिदम् इत्यनेन परोक्ष-प्रत्यक्षसर्वलोकानां
वेदशब्दप्रभवत्वात् तद्व्याप्तत्वं प्रोच्य, (कारणेन कार्यस्य व्याप्तत्वात् - कारणीभूतवेदशब्दव्याप्तता
लोकानाम् इति ।) एवं पूर्णात् - (व्याप्तात् लोकात्) पूर्णम् - पूर्णकर्तृ व्याहृतिरूप
भूर्भुवादिशब्दजातम् उदच्यते - उत्कृष्टं भवतीति च व्याख्याय, पूर्णस्य पूर्णम् - व्याप्तलोकस्य
पूरकं व्याहतिरूपशब्दजातम् आदाय - उपसंहृत्य, पूर्णम् - तस्यापि व्यापकं ओङ्काररूपं
वस्तु अवशिष्यते - कार्यसर्वशब्दजाते नष्टेऽपि परिशिष्यते - इति विवरणं कृतम् । अथ
तैरेव अन्ते, इदञ्च रुच्युत्पादनाय प्रणवस्तुतिमात्रम् । अन्यथा निमित्तकारणस्य व्याहृत्यादेः
कार्यव्यापकत्वासम्भवतात् । उपादानभूतस्य भूतपञ्चकस्यैव व्यापकत्वसम्भवात् असामञ्जस्यं
स्यादिति समापितम् । तथापि एवं स्वेनैव रुच्युत्पादनाय प्रणवस्तुतिपरत्वोक्त्या अवास्तवमेवेदं
प्रणवस्तुतिपरत्वमिति व्यञ्जनात्, युक्तं प्रणवप्रतिपाद्यस्य ब्रह्मण एव परत्वादि पञ्चकपरतया
व्याख्यानमिति प्रतीमः । वस्तुतः इदं श्रीरङ्गरामानुजीयं विवरणं वाक्यान्वयाधिकरणगत-
श्रुतप्रकाशिकावचनविरुद्धमपि । तत्र हि व्यासार्यै: यादवप्रकाशपक्षनिराससन्दर्भे परमात्मपरतयैव
मन्त्रोऽयं विवृतः । तत्रेयं तदीया सूक्तिः - परमात्मनः पूर्णत्वञ्च अणुमात्रेपि वस्तुनि
स्थितस्य निरवधिकषाड्गुण्यविशिष्टतया प्रतिपत्तियोग्यत्वम्’ इति ॥
॥ इति शान्तिपाठविवरणम् ॥
॥ श्रीः ॥
सुबालोपनिषत्
अथ प्रथमः खण्डः
[जगत्कारणत्वविषयकप्रश्नः]
तदाहुः - किं तदाऽऽसीत्
[उत्तरम्]
तस्मै स होवाच - नसन्नासन्नसदसदिति ।
सुबालोपनिषद्विवरणम्
श्रीश्रुतप्रकाशिकाचार्यविरचितम्
विशुद्धविज्ञानविशेषकारणं रजस्तमःकल्मषदोषनाशनम् ।
सदैव रामानुजपादपङ्कजं स्मरामि नौमि प्रणमामि चादरात् ॥ १ ॥
सौबालोपनिषद्धृदि विनिहितमर्थं सुपुष्कलं गहनम् ।
अनुसन्दधीमहि वयमक्लिष्टमृजूपपन्नञ्च ॥ २ ॥
तदाहुः इति । तत् - वक्ष्यमाणं वाक्यजातमध्येतारोऽधीयत इत्यर्थः । यद्वा
शिष्याचार्यभावेन स्थिताः प्रष्टारः प्रतिवक्तारश्च ब्रह्मवादिन आहुरित्यर्थः । तत्र कस्यचित्
शिष्यस्य प्रश्नवचनं दर्शयति - किं तदासीत् इति । तदा - सृष्टेः पूर्वं किं जगत्कारणत्वेन
अवस्थितमासीत् इत्यर्थः । तस्मै स होवाच । तस्मै - प्रष्टत्वेन प्रकृताय शिष्याय सः
प्रष्टव्यतया बुद्धिस्थ आचार्य उवाच इत्यर्थः । ह इति पूजायाम् । अत्र पृष्ट रैक्वः, प्रतिवक्ता
आचार्यो घोराङ्गिरा इति व्यक्ती भविष्यति । सङ्खपतः कारणविषयं प्रतिवचनं दर्शयति
नसन्नासन्नसदसदिति । तत्र (अत्र?) सत् आदिपदानि नगशब्दवत् न शब्देन समस्तानि ।
न शब्दश्च तदन्यवाची । सत् शब्दः कार्यावस्थ चेतनपर: ‘इदं सर्वमसृजत्’
(तै.उ.आन.अनु.६) इत्युपक्रम्य, ‘सञ्च त्यञ्चाभवत् विज्ञानञ्चाविज्ञानञ्च’ (तै.उ.आन.अनु.६)
इति कार्यावस्थचेतनविषये सच्छब्दस्य प्रयुक्तत्वात् । असत् शब्दश्च कार्यावस्थाचेतनपरः ।
कार्यावस्थचेतनविलक्षणं कार्यावस्था चेतनविलक्षणमुभयात्मक जगद्विलक्षणं परमे व्योम्नि
स्थितं परं ब्रह्म कारणमासीदित्यर्थः । ब्रह्मणः परमव्योमसम्बन्धो हि वक्ष्यते,
‘परस्तान्नसन्नासन्नसदसत्’ इति । अस्य वाक्यस्य सदादिनिषेधमात्रपरत्वे, ‘तस्मात् तमः
सञ्जायते’ इति तच्छब्देन कारणतया कस्यचित् परामर्शायोगात् । किञ्चिदपि नास्ति चेत्,
तस्मात् इति परामृश्यते? सदसदनिर्वचनीयमज्ञानमिति चेत्, तदयुक्तम् । अस्यामेव
उपनिषदि, ‘अपुनर्भावा(र्भव?) याण्डकोशं भिनत्ति’ इत्यारभ्य ‘मुत्युं भिनत्ति मृत्योर्वे परे
देव एकीभवति । परस्तान्नसन्नासनसदसत्’ (खं-११) इति देशतः कालतः स्वभावतो वा
मुक्तप्राप्यत्वकथनायोगात् । ‘मृत्युं दहति परस्तान्नसन्नासन्नसदसत्’ इति ज्ञानाग्निदाह्यात्
मृत्योः परत्वाभिधानायोगाञ्च । अनिर्वाच्यं हि ज्ञाननिवर्त्यमभिमतम् । परस्तात् शब्दवैयर्थ्याञ्च ।
मृत्योरपि सान्ततया परत्वविशेषणं हि न घटते ‘मृत्युर्वे परे देव एकी भवति
परस्तान्नसन्त्रासनसदसत्’ इति देशतः कालतः स्वभावतो वा सर्वे श्वारात्
परत्वमनिर्वचनीयस्यात्यन्तानुपपन्नम् । जगत्कारणब्रह्मपरत्वे तु मुक्तप्राप्यत्वादिकं
सर्वमुपपन्नम् । इति शब्दः प्रतिवचनसंक्षेपसमाप्तौ ।
[तमः आदिसृष्टिक्रमः]
तस्मात् तमः सञ्जायते ।
तमसो भूतादिर्भूतादेराकाशमाकाशाद्वायुः
वायोरग्निरग्नेरापोऽब्द्य: पृथिवी । तदण्डं समभवत् ॥
अथ विस्तरेण सृष्टिमाह - तस्मात् तमः सञ्जायते इति । तस्मात् सर्वविलक्षणत्वेन
प्रतिपादितात् परस्मात् ब्रह्मणः अतिसूक्ष्मम् प्रधानतत्त्वं सञ्जायते सञ्जातम् ।
विभक्तमित्यर्थः ।
ननु पूर्वमविभक्तस्य हि पश्चाद्विभागः । ब्रह्मणः चिदचिद्विलक्षणतया तेन तत्पूर्वमपि
अविभागाभावात् विभागोक्ति: न घटते । न । अस्यामेव उपनिषदि तमोमृत्यु शब्दवाच्यस्य
सूक्ष्माचिद्वस्तुनः परब्रह्मशरीरत्वं वक्ष्यते । अतः तमश्शरीरके ब्रह्मणि कार्योपयुक्तांशस्य
प्रलयदशायामविभागो युक्तः । वक्ष्यते ‘तम एकी भवति’ इति । अतः सर्गकाले
विभागोऽप्युपपन्नः । विभागश्च न छित्वा भित्वा क्रियते । अपि तु केनचिदाकारेण
व्यावृत्तिर्विभागः । परब्रह्मप्रकारभूतकार्योपयोग्यंशस्य कार्यानुरूप्यापत्तिर्विभागः । स च
परमात्मप्रेरणाधीनः । परमात्मनोऽचिच्छरीरकत्वं तत्प्रेरकत्वञ्च भगवता मनुना स्पष्टमुक्तम्,
‘आसीदिदं तमोभूतम्’ (म.स्मृ.१-५) इत्यारभ्य, ‘प्रादुरासीत् तमोनुदः’ । (म.स्मृ.१-६)
‘सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः’ (म.स्मृ.१-८) इति ।
एतदुक्तं भवति - समस्तचिदचिद्विलक्षणस्वरूपात् तमश्शब्दवाच्याति-
सूक्ष्मप्रधानशरीरकात् परब्रह्मणः कार्योत्पादनाय कश्चित् तमस्तत्त्वांश:
तत्सङ्कल्पाद्विभक्तोऽभूदिति’ ।
तमसो भूतात् इति । भूतादिः आकाशादि भूतानामादिभूतः तामसाहङ्कारः ।
तस्माद्विभक्तात् तमसोऽक्षराव्यक्तमहदवस्थाद्वारेण भूतादिरभूदित्यर्थः । ‘भूतादिर्महति लीयते
महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते’ (खं-२) इति प्रळयक्रमस्य
वक्ष्यमाणत्वात् तमसो भूतादिकारणत्वं तत्त्वान्तरव्यवधानेन इत्यवगम्यते । भूतादि
शब्दः सात्त्विकाहङ्कारराजसाहङ्कारयोरपि प्रदर्शनार्थः ।
‘वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ।
त्रिविधोऽयमहङ्कारो महत्तत्त्वादजायत’ ॥ (वि.पु.१-२-३५,३६) इति
भगवत्पराशरस्मरणात् ।
भूतादेराकाशम् इति । शब्दतन्मात्रावस्थापूर्वकम् आकाशमुत्पन्नमित्यर्थः ।
‘आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ लीयन्ते’ इति अस्यामेव
उपनिषदि पञ्चभूतप्रळयदशायां तन्मात्रलयप्रतिपादनेन उत्पत्तावपि तन्मात्रोत्पत्तेरर्थ-
सिद्धत्वात् ।
‘भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः ।
ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम्’ ॥ (वि.पु.१-२-३७,३८)
इति भगवत्पराशरवचनेन शब्दतन्मात्रादाकाशोत्पत्तेः स्पष्टतरमवगतत्वाञ्च । आकाशाद्वायुः
इति । अत्रापि स्पर्शतन्मात्रपूर्वकं वायुरुत्पन्न इत्यर्थः ।
‘आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ।
बलवानभवद्वायुस्तस्य स्पर्शो गुणो मतः ॥ (वि.पु.१-२-३०)
इति पराशरोक्ते : । वायोरग्निः अग्नेरापः अब्द्य: पृथिवीति । अत्रापि
रूपतन्मात्रादग्नेरुत्पत्तिः, रसतन्मात्रादपामुत्पत्तिः, गन्धतन्मात्रात् पृथिव्युत्पत्तिरपि सिद्धा ।
ततो वायुर्विकुर्वाणो रूपमात्रं ससर्ज ह । (वि.पु.१-२-४०)
ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥ (वि.पु.१-२-४१)
ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह । (वि.पु.१-२-४२)
विकुर्वाणानि चाम्भांसि गन्धमात्रं ससर्जिरे’ इति ॥ (वि.पु.१-२-४३)
पुराणवचनोपबृंहितत्वात् । वायोरग्निः इत्यत्र अग्नि शब्दः तेजोमात्रपरः । ‘आपस्तेजसि
लीयन्ते’ इति अत्रैव प्रलयवाक्ये तेजःशब्दश्रवणात्; ‘तत् तेजोऽसृजत’ (छां.उ.६-२-३) इति
श्रुत्यन्तरैकार्थ्यात्; ‘ज्योतिरुत्पद्यते वायोः’ (वि.पु.१-२-१४) इति स्मृतिवचनाञ्च ।
तदण्डं समभवत् इति । तत् शब्दः पृथिव्यन्ततत्त्वजातपरः । महदादिपृथिव्यन्तं
तत्त्वजातमण्डात्मना परिणतम् अभूदित्यर्थः । ‘महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते’
(वि.पु.१-२-५३) इति स्मरणात् ।
ननु ‘तन्मात्राणि भूतादौ लीयन्ते’ इति तन्मात्राणां युगपत् प्रलयश्रवणात्
उत्पत्तिरपि युगपदित्यवगम्यते । युगपत् उत्पन्नेभ्यः तन्मात्रेभ्यः परस्परानपेक्षेभ्यः
आकाशाद्युत्पत्तिः । अत एव आकाशादीनां न परस्परकारणत्वम् । तथा सति, ‘अष्टौ
प्रकृतयः षोडश विकाराः’ (गर्भो-३) इति विकाराणां षोडशसंख्याकत्वं घटते । अन्यथा
आकाशादीनां चतुर्णां प्रकृतित्वेन (प्रकृतीनां?) विकाराणाञ्च द्वादशत्वं स्यात् । तन्मात्राणां
युगपत् उत्पत्यङ्गीकारे लयश्रुत्यनुरोधश्च भवति । आकाशाद्वायुः इत्यादि वाक्येषु
आकाशादिशब्दाः पञ्चम्यन्ताः तन्मात्रावस्थाकाशादिभूतपरा इति -
अत्रोच्यते न तावत् तन्मात्राणां युगपदुत्पत्तिः श्रुता । युगपत्प्रलयश्रवणात्
कल्पनीयेति चेन्न - प्रळयस्यापि यौगपद्याश्रवणात् । लीयन्त इति हि श्रूयते; न तु
‘युगपल्लीयन्ते’ इति । अतः क्रमयोगपद्यसाधारणी इयं श्रुतिः । यथा, ‘यतो वा इमानि
भूतानि जायन्ते - यत्प्रयन्त्यभिसंविशन्ति’ (तै.उ.भृ.अनु.१) ‘यस्मिन्निदं सञ्च वि चैति
सर्वम्’ (श्वे.उ.४-११) इत्यादि । तत्रापि यौगपद्यविवक्षा अस्तीति चेत्, महदहङ्कारादि
तत्त्वानां देवमनुष्यादीनाञ्च प्रमाणान्तरावगतसर्गप्रळयक्रमो बाध्येत । अतो युगपत्प्रळय
श्रवणात् युगपदुत्पत्तिकल्पनं तन्मात्राणामयुक्तम् । न केवलं कल्पकाभावात्
युगपदुत्पत्तिकल्पनमयुक्तम्; बाधकसद्भावाञ्चायुक्तम् । न हि श्रुतिक्रमविरोधेन
योगपद्यकल्पनमुपपद्यते ।
तथा हि - ‘भूतादेराकाशमाकाशाद्वायुः वायोरग्निः’ इत्यादि वाक्येषु पञ्चम्यन्तानाम्
आकाशादिशब्दानां प्रसिद्धाकाशादिमात्रपरत्वप्रहाणेन तन्मात्राकाशादिपरत्वमस्वरसम् ।
स्वारस्यबाधाभावेऽपि क्लिष्टार्थकल्पनमयुक्तम् । प्रथमान्तानां पञ्चम्यन्तानाञ्च
आकाशादिशब्दानामर्थवैरूप्यञ्च स्यात् । प्रथमान्तानामपि तन्मात्रपरत्वात् नार्थवैरूप्यमिति
चेत् - तर्हि भूतादेः शब्दतन्मात्रमुत्पन्नम्, शब्दतन्मात्रात् स्पर्शतन्मात्रमुत्पन्नम् इत्ययमर्थं
उक्तः स्यात् । तदानीम् उत्तरोत्तरतन्मात्राणां पूर्वपूर्वतन्मात्रसृष्टत्वात् तेषां युगपदुत्पत्तिः
बाध्येत । तन्मात्रेभ्यः प्रसिद्धाकाशाद्युत्पत्तिः निष्प्रमाणिका च स्यात् । ‘एतस्माज्जायते
प्राणः ……खं वायुयर्कोतिरापः’ (मुं.उ.२-१-३) इत्यादौ कस्मिंश्चिदपि वेदवाक्ये तन्मात्रेभ्यः
खाद्युत्पत्तिश्रवणाभावात् । प्रथमान्तानां शब्दानां तन्मात्रवाचित्वमपि अयुक्तम् । ‘अब्द्य:
पृथिवी’ इत्यनेन भग्नत्वात् । न हि पृथिवीशब्दो गन्धतन्मात्रपरः; अनन्तरवाक्यविरोधात् ।
‘तदण्डं समभवत्’ इति अस्याम् उपनिषदि, अन्यत्र ‘पृथिव्या ओषधयः’ (ते.उ.आन.अनु.१)
इत्येवानन्तरं श्रूयते । न हि गन्धतन्मात्रात् अण्डोत्पत्तिरोषधीनामुत्पत्तिश्च भवति । किञ्च
युगपदुत्पन्नेभ्यः तन्मात्रेभ्यः पञ्चभूतोत्पत्यभ्युपगमे, ‘पृथिव्यप्सु प्रलीयते’ इति
प्रळयश्रुतिश्च विरुद्ध्यते । पृथिव्याः तत्कारणस्य गन्धतन्मात्रस्य च सलिलकारणकत्वा-
भावात् । एवम् ‘आपस्तेजसि लीयन्ते’
इत्यादिभिश्च विरोधः । उत्तरोत्तरभूतानां
पूर्वपूर्वभूतप्रसूतत्वाभावात् । अतः तन्मात्राणां युगपदुत्पत्तिः कल्पकाभावात्
सर्गप्रळयपरानेकवाक्यविरोधाच्चानुपपन्ना । छान्दोग्ये च - ‘तत् तेजोऽसृजत - तत् तेज
ऐक्षत - तदपोसृजत - ता अन्नमसृजन्त’ (छां.उ.६-२-३) इति तेजोबन्नवाचिशब्दानां तन्मात्रपरत्वे
स्वारस्यभङ्गः, तस्मिन् सोढेऽपि युगपदुत्पत्तिविरोधश्चावर्जनीयः ।
'
आकाशाद्वायुः’ इत्यादि वाक्यानां केचिदेवं निर्वाहमिच्छन्ति- ‘भूतादेराकाशाद्वायुः’,
‘आत्मन आकाशः संभूतः, आकाशाद्वायुः’ (तै.उ.आन.अनु.१) इत्यादिवाक्येषु आकाशादयः
शब्दा अविशेषेण स्थूलसूक्ष्मावस्थतत्तद्भूतवाचिनः । अतोऽर्थ वैरूप्यादिदोषा न स्युः ।
तत्रार्थसामर्थ्यात् सूक्ष्मांशस्यैव स्थूलभूतमनन्तरं प्रति कारणत्वं सिद्ध्येत्’ - इति । इदानीमपि
तन्मात्राणां युगपदुत्पत्तिः दूरतः परित्यक्ता । किञ्च - ‘आकाशाद्वायुः’ इत्यादीनि वाक्यानि
मिथुनात् मिथुनोत्पत्तिवचनानि । पञ्चम्यन्तानां प्रथमान्तानाञ्च पदानामुभयवाचित्वात् ।
एवं सति मातापित्रोरिव पुत्रदुहित्रोरिव च स्थूलसूक्ष्मभूतयोः न परस्परकार्यकारणभावः
सिद्ध्येत्’ । पुत्रदुहितरौ प्रति पित्रोरन्यतरस्येव स्थूलाकाशस्यापि स्पर्शमात्रं वायुमपि प्रति
कारणत्वं स्यात् । सूक्ष्मस्येव स्थूलाकाशस्यापि प्रकृत्त्युत्पन्नस्य स्थूलं सूक्ष्मञ्च वायुं
प्रति हेतुतयाऽन्वायस्य अविशेषेण पञ्चमीप्रतिपन्नत्वात् स्थूलाकाशस्य
स्पर्शमात्रस्थूलवायुजननायोग्यत्वे प्रमाणान्तराभावात् । शास्त्रैकसमधिगम्यो ह्ययमर्थो यथाशब्द
स्वीकार्यः । अतः अर्थसामर्थ्यात् अभिमतव्यवस्था दुर्लभा । तथा, ‘वायुराकाशे लीयते’
इत्युक्ते स्पर्शतन्मात्रवाय्वोः स्थूलाकाशेऽपि लयः प्रतिपादितः स्यात् । अतः सर्वं परमतं
व्याकुलं स्यात् ।
तस्मात् प्रमाणान्तरागोचरे जगत्सर्गप्रळयादौ शब्दानां स्वरससिद्ध एवार्थ: स्वीकार्यः ।
स्वप्रकरणस्थवाक्यानुगुण्यात् उपबृंहणवचनानुगुण्याञ्च प्रसिद्धानामेव आकाशादीनां
तन्मात्रव्यवहिता सृष्टिरित्यभ्युपगन्तव्यम् । ‘तमसो भूतादिः, भूतादेराकाशम्’ इत्यादिषु
व्यवधानेऽपि कार्यकारणभावनिर्देशदर्शनात् ।
तर्हि ‘अष्टौ प्रकृतयः षोडश विकाराः’ इति श्रुतेः का गतिः? इति चेत्-
वेदोपबृंहणनिपुणतरपरमर्षिसंदर्शितैव गतिः । नास्माभिः तद्विरुद्धनिर्वहणेऽभिनिवेष्टव्यम् ।
भगवता वेदव्यासेन हि मोक्षधर्मे याज्ञवल्क्यजनकसंवादे षोडशविकाराः प्रत्यक्षश्रुत्यन्तराविरोधेन
दर्शिता: -
‘अष्टौ प्रकृतयः प्रोक्ताः विकाराश्चैव षोडश ।
तथा व्यक्तानि सप्तैव प्राहुरध्यात्मचिन्तकाः ॥
अव्यक्तञ्च महांश्चैव तथाऽहङ्कार एव च ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥
एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु ।
श्रोत्रं त्वक् चैव चक्षुश्च जिह्वा घ्राणञ्च पञ्चमम् ॥
वाक् च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च ।
शब्दस्पर्शाै च रूपञ्च रसो गन्धस्तथैव च ॥
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु ।
दशेन्द्रियाण्यथैतानि सविशेषाणि मैथिल ॥
मनःषोडशमित्याहुः अध्यात्मगतिचिन्तकाः’ ॥ इति ।
(महा.भा.शां.प.२९८-१०.११.१२.१३.१४.१५)
अत्र ज्ञानप्रवृत्तिकारणानीन्द्रियाणि तद्विषयाः शब्दादयश्च तत्त्वान्तरानारम्भकत्वात्
षोडश विकाराः इति प्रतिपादितम् । ‘एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु’ इति
वैयधिकरण्यनिर्देशात् विशेषशब्दः शब्दस्पर्शादिगुणमात्रपरः । ‘शान्ता घोराश्च मूढाश्च
विशेषास्तेन ते स्मृताः’ (वि.पु.१-२-५०) इत्यत्र तदभावात् विशेषशब्दो गुणिपरः ।
‘पटस्य शुक्लः, पटः शुक्लः’ इत्यादिषु शुक्लादिशब्दानामिव विशेषशब्दस्यापि गुणपरत्वं
गुणिपरत्वञ्च युक्तमेवेति प्रयोगवशादवगम्यते ।
नन्वेवं सति चतुर्विंशत्याधिक्यं स्यादिति चेन । द्रव्यरूपाणां कार्यकारणाचित्तत्त्वानाम्
अव्यक्तादीनां चतुर्विंशतिसंख्यानतिरेकात् । ‘अष्टौ प्रकृतयः षोडश विकाराः’ इत्यादि
वाक्यस्य तु द्रव्यैक्यपरत्वनियमो नास्तीति उपबृंहणवशादवगम्यते । अर्थान्तराणाम्
अनुपपन्नत्वाञ्च । आकाशादीनामपि प्रकृतित्वे, ‘अष्टौ प्रकृतयः’ इति श्रुतं प्रकृतीनाम्
अष्टसंख्याकत्वं न घटत इति चेन्न-तन्मात्राणां भूतेष्वन्तर्भावाभिप्रायेण अष्टसंख्यानिर्देशो-
पपत्तेः ।
-
तथा वसिष्ठ-कराळजनकसंवादेऽपि भूततन्मात्रव्यतिरिक्तानां शब्दस्पर्शादीनां
विशेषशब्दोक्तानां षोडशविकारान्तर्भावः प्रतिपाद्यते
‘अव्यक्तमाहुः प्रकृतिं परां प्रकृतिवादिनः ।
तस्मान्महत् समुत्पन्नं द्वितीयं राजसत्तम ॥
अहङ्कारस्तु महतः तृतीय इति नः श्रुतम् ।
पञ्च भूतान्यहङ्कारादाहुः सांख्यनिदर्शिनः ॥
एताः प्रकृतयस्त्वष्टौ विकाराश्चापि षोडश ।
पञ्चैव च विशेषाश्च पञ्च पञ्चेन्द्रियाणि तु’ ॥ इति ।
(महाभा.शां.प.२९४-२७,२८,२९)
अत्र पञ्चानां भूतानां प्रकृतिषु परिगणनात् केवलविकारत्वमपास्तम् । विशेषशब्दस्य
तन्मात्रपरत्वं तन्मात्राणां केवलविकारत्वञ्च न कस्यापि इष्टम् । अतो विशेषशब्दः
शब्दस्पर्शादिगुणमात्रपर इति परिशेषात् सामर्थ्याञ्च सिद्धम् । ‘पञ्च भूतानीति भूतशब्दः
तन्मात्रपरः; विशेषशब्द: आकाशादि परः’ इति चेन्न । अपवादाभावेऽपि भूतशब्दस्य
क्लिष्टार्थकल्पनाऽयोगात् । विशेषशब्दो गुणेष्वक्लिष्टः। न केवलमुपबृंहणवचनस्थ
भूतशब्दस्यैव, श्रुतिवाक्यस्थाकाशादिशब्दानामपि तन्मात्रपरत्वे स्वारस्याभावः स्फुटतरः ।
एवम् उपनिषद्वाक्यानां परमर्षिवचसाञ्चामुख्यार्थाश्रवणमर्वाचीनसांख्यदुर्निबन्धनम्
स्वरसवचनान्तरयुक्त्यन्तराभावात् । समीचीनं सांख्यमतं तु श्रुतिस्वारस्यानुगुणमिति अत्रैव
दर्शितम् , ‘आहुः सांख्यनिदर्शनम्’—इति
तथा यमस्मृतौ विषयेन्द्रियाण्येव षोडशविकारा इत्युक्तम् -
‘पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः ।
प्रकृतिज्ञो विकारज्ञः स दुःखात् परिमुच्यते ॥
मनो बुद्धिरहङ्कारः खानिलाग्निजलानि भूः ।
एताः प्रकृतयस्त्वष्टौ विकाराः षोडशापरे ॥
श्रोत्राक्षिरसनाघ्राणम् त्वक् च सङ्कल्प एव च ।
शब्दरूपरसस्पर्शगन्धवाक्पाणिपायवः ॥
उपस्थपादाविति च विकाराः षोडश स्मृताः ।
चतुर्विंशकमित्येतत् ज्ञानमाहुर्मनीषिणः ॥
पञ्चविंशकमव्यक्तं षड्विंशः पुरुषोत्तमः ।
एतत् ज्ञात्वा तु मुच्यन्ते यतयः शान्तबुद्धयः ॥
अशब्दमरसस्पर्श रूपगन्धविवर्जितम् ।
निर्दुःखं सुसुखं शुद्धं तद्विष्णोः परमं पदम् ॥
अजं निरञ्जनं शान्तमव्यक्तं ज्ञानमक्षरम् ।
अनादिनिधनं ब्रह्म तद्विष्णोः परमं पदम्’ ॥ इति ।
अत्र प्रकृतिषु परिगणनात् प्रथमोपादानाञ्च प्रधानतत्त्वमव्यक्ततया मन इत्युक्तम् ।
सङ्कल्पशब्देन तत्कारणं मनो विवक्षितम् । ज्ञानम् ज्ञातव्यम् । प्रत्यगात्मनः पञ्चविंशकत्वेन
उक्तत्वात् परिशेषाञ्च चक्षुराद्यगम्यमात्मतत्त्वम् अव्यक्त शब्देनोक्तम् । ‘विकाराः
षोडशस्मृताः’ इति षोडशविकारशब्दोपादानात् ‘एताः प्रकृतयस्त्वष्टौ’ इत्युक्तत्वाञ्च अस्य
स्मृतिवचनस्य, ‘अष्टौ प्रकृतयः षोडश विकाराः’ इति श्रुतिमूलत्वमवगम्यते ।
अतः तस्याः श्रुतेः अयमर्थ इति यमेन निर्णीयत इति स्फुटम् ।
ईदृशस्मृत्युपबृंहितया अनया श्रुत्या विषयेन्द्रियाण्येव षोडश विकारत्वेन विवक्षितानीति
भगवतो भाष्यकारस्य हृदयमिति भगवद्गीताभाष्ये स्पष्टमवगम्यते .
‘महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च’ इति क्षेत्रारम्भकद्रव्याणि । पृथिव्यप्तेजो-
वाय्वाकाशानि महाभूतानि । अहङ्कारो भूतादिः । बुद्धिः महान् । अव्यक्तम् प्रकृतिः ।
‘इन्द्रियाणि दशैकञ्च पञ्च चेन्द्रियगोचराः इति क्षेत्राश्रितानि तत्त्वानि । श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि
पञ्च ज्ञानेन्द्रियाणि, वाक्पाणिपादपायूपस्थाः पञ्च कर्मेन्द्रियाणि दश; एकमिति मनः ।
इन्द्रियगोचराश्च पञ्च शब्दस्पर्शरूपरसगन्धाः’ (गी.भा.१३-५) इति । अत्र क्षेत्रारम्भक-
द्रव्याणीत्यारम्भकद्रव्यपदेन, ‘अष्टौ प्रकृतयः’ इति प्रकृतिशब्दो व्याख्यातः । क्षेत्राश्रितानि
तत्त्वानि’ इति विषयेन्द्रियाणां षोडशानां साधारणाकार उक्तः ।
एवम्, ‘अष्टौ प्रकृतयः षोडश विकाराः’ इति वाक्येऽपि विषयेन्द्रियाण्येव
श्रुत्यन्तराविरोधेन षोडशविकारत्वेन विवक्षितानीति व्यासादीनां परमर्षीणां भाष्यकारस्य
च (हृदयं) स्फुटतरमवगम्यते । अतः आकाशाद्वायुरित्यादीनां यथोक्त एवार्थः ॥
[अण्डद्वैधरूपेण ब्रह्मसृष्टिः]
तत् संवत्सरमात्रमुषित्वा द्विधाऽकरोत्, अधस्ताद्भूमिमुपरिष्टादाकाशम् ।
मध्ये पुरुषो दिव्यः सहस्त्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् सहस्रबाहुरिति ।
सोऽग्रे भूतानां मृत्युमसृजत् त्र्यक्षं त्रिशिरस्कं त्रिपादं खण्डपरशुम् । तस्य
ब्रह्मा बिभीते । सो ब्रह्माणमेव विवेश । स मानसान् सप्त पुत्रानसृजत् । ते ह
विराजः सप्त मानसानसृजन् । ते ह प्रजापतयः ।
एवं ब्रह्मण्ड’सृष्टिरुक्ता । अथ हिरण्यगर्भोत्पत्तिमाह - तत् संवत्सरमात्रमुषित्वा’
द्विधाऽकरोत् इति । वक्ष्यमाणः पुरुषः तस्मिन्नण्डे संवत्सरमात्रमुषित्वा परिणतं तदण्डं
द्विधाऽकरोत् इत्यर्थः । आकाशम् इति । अकरोत् इत्यन्वयः । आकाशादि शब्दः
स्वर्गादि परः । मध्ये अन्तरिक्षे पुरुषः । अभूदिति शेषः । पुरुषशब्दस्य
मनुष्यपरत्वव्यावृत्त्यर्थं दिव्यः पुरुषः इत्युक्तम् । तस्याण्डोत्पन्नस्य दिव्यपुरुषस्य
पुरुषसूक्त प्रतिपाद्य-परमपुरुषात्मकत्वमाह - सहस्रशीर्षा पुरुषः इति । अन्यथा
द्वितीयपुरुषशब्दस्य पौनरुक्त्यप्रसङ्गात् । सर्वज्ञत्वात् सर्वशक्तित्वाश्च सर्वत्र शिरश्चक्षुः
पादकार्यबाहुकार्यकरणसमर्थो यो महापुरुषः श्रुतः, तदात्मकोऽयमण्डोत्पन्नः पुरुष इत्यर्थः ।
इदञ्च सामानाधिकरण्यं परमपुरुषान्तर्यामिकत्वनिबन्धनम्। न तु स्वरूपैक्य-
कृतम् । तस्य ब्रह्मा बिभीते इति तस्य मृत्युभयाभिधानात्, ‘भीषाऽस्मादग्निश्चेन्द्रश्च
मृत्युर्धावति पञ्चमः’ (तै.आन.अनु.८) ‘स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः’
(तै.उ.आन.अनु.८) इति पुण्डरीकाक्षस्य परमपुरुषस्य, मृत्योरपि भयनिमित्तत्वाञ्च मृत्योर्भीतस्य
मृत्युभयजनकस्य च स्वरूपैक्यानुपपत्तेः । शाखान्तरे हिरण्यगर्भस्य, महापुरुषस्य
महापुरुषत्वानाभिज्ञत्वाम्नानाञ्च न स्वरूपैक्यम् । ‘स प्रजापतिरेकः पुष्करपणे समभवत्’
इत्यारभ्य ‘मम चै त्वङ्गांसा समभूत्’ इति प्रजापतिनोक्ते, ‘नेत्यत्रवीत् ।
पूर्वमेवाहमिहाऽऽसमिति । तत् पुरुषस्य पुरुषत्वम् । स सहस्रशीर्षा पुरुषः’ इति
चतुर्मुखस्य परमपुरुषावेदनं हि प्रतिपादितम् । अत एव हि उक्तं ब्रह्मणैव,
‘यन्न देवा न मुनयो न चाहं न च शङ्करः ।
जानन्ति परमेशस्य तद्विष्णोः परमं पदम्’ ॥ (वि.पु.१-९-५५)
इति । तथा तेनैव ब्रह्मरुद्रसंवादेऽप्युक्तम् -
‘तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिताः ।
सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित् क्वचित्’ ॥
इति । अतः तदन्तर्यामित्वनिबन्धनं सामानाधिकरण्यम् ।
इतिशब्दो भगवदेककर्तृकसर्गसमाप्तौ ।
अथ हिरण्यगर्भकर्तृकसर्गमाह - सोऽग्रे भूतानां मृत्युमसृजत् इति । मृत्युं
विशिनष्टि त्र्यक्षम् इत्यादिपदैः । तस्य ब्रह्मा बिभीते । तस्य इति सम्बन्धमात्रे षष्ठी । तस्मात्
मृत्योर्भीतः । स्रष्टुरपि भयावहो मृत्युः; किमुत अन्येषामित्यर्थः । सो ब्रह्माणमेव विवेश
इति । सो ब्रह्माणम् इति सन्धिश्छान्दसः । ब्रह्मशरीरे तिरोहित इत्यर्थः । स मानसान्
इति । सः ब्रह्मा सप्त मानसान् असृजत् मनसा असृजत् इत्यर्थः । ते ह विराजः
विविधदीप्तियोगात् विराट्छब्दवाच्यभूताः सप्त मानसपुत्राः स्वयमपि मानसानसृजन् । कथं
मनसा सृष्टिरित्याह - ते ह प्रजापतयः इति । प्रजापतित्त्वात् मनसा स्रष्टुं शक्ता हि इत्यर्थः ।
ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः ।
ऊरू तदस्य यद् वैश्यः पभ्ध्यां शूद्रो अजायत ।
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च हृदयात् सर्वमिदं जायते ॥
॥ इति प्रथमः खण्डः ॥
पुनश्च हिरण्यगर्भात् प्राणिसृष्टिमाह - ब्राह्मणोऽस्य मुखमासीत् इति । ब्राह्मणः
मुखमासीदिति औपचारिकं सामानाधिकरण्यम् । मुखजात इत्यर्थः । पभ्ध्यां शूद्र इत्यनन्त-
रोक्तेः । बाहू राजन्यः कृतः । बाहुभ्यां कृतः तज्जनित इत्यर्थः । ऊरू तदस्य यद्वैश्यः ।
(यदिति) नपुंंसकं वस्तुत्वाभिप्रायम् । वैश्य इति यत् तदस्य ब्रह्मणः ऊरू ऊरुभ्यां जात-
मित्यर्थः । प्राणः पञ्चवृत्तिप्राणः । हृदयात् सङ्कल्पादित्यर्थः । सर्वमिदम् अनुक्तं सर्वमिदम् ॥
॥ इति श्रीहरितकुलतिलकवाग्विजयिसूनोः श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापरनामधेयस्य
श्रीसुदर्शनार्यस्य कृतौ सुबालोपनिषद्विवरणे प्रथमः खण्डः ॥