१५

०१ अथातो हस्त्यारोहणम् ...{Loading}...

अथातो हस्त्यारोहणम् १

०२ एत्य हस्तिनमभिमृशति हस्तियशसमसि ...{Loading}...

एत्य हस्तिनमभिमृशति हस्तियशसमसि हस्तिवर्चसमसीति २

०३ अथारोहतीन्द्रस्य त्वा वज्रेणाभितिष्ठामि ...{Loading}...

अथारोहतीन्द्रस्य त्वा वज्रेणाभितिष्ठामि स्वस्ति मा सम्पारयेति ३

०४ एतेनैवाश्वारोहणं व्याख्यातम् ...{Loading}...

एतेनैवाश्वारोहणं व्याख्यातम् ४

०५ उष्ट्रमारोक्ष्यन्नभिमन्त्रयते त्वाष्ट्रोऽसि ...{Loading}...

उष्ट्रमारोक्ष्यन्नभिमन्त्रयते त्वाष्ट्रोऽसि त्वष्टृदैवत्यः स्वस्ति मा सम्पारयेति ५

०६ रासभमारोक्ष्यन्नभिमन्त्रयते शूद्रोऽसि ...{Loading}...

रासभमारोक्ष्यन्नभिमन्त्रयते शूद्रोऽसि शूद्रजन्माग्नेयो वै द्विरेताः स्वस्ति मा सम्पारयेति ६

०७ चतुष्पथमभिमन्त्रयते नमो रुद्राय ...{Loading}...

चतुष्पथमभिमन्त्रयते नमो रुद्राय पथिषदे स्वस्ति मा सम्पारयेति ७

०८ नदीमुत्तरिष्यन्नभिमन्त्रयते नमो रुद्रायाप्सुषदे ...{Loading}...

नदीमुत्तरिष्यन्नभिमन्त्रयते नमो रुद्रायाप्सुषदे स्वस्ति मा सम्पारयेति ८

०९ नावमारोक्ष्यन्नभिमन्त्रयते सुनावमिति ...{Loading}...

नावमारोक्ष्यन्नभिमन्त्रयते सुनावमिति ९

१० उत्तरिष्यन्नभिमन्त्रयते सुत्रामाणमिति ...{Loading}...

उत्तरिष्यन्नभिमन्त्रयते सुत्रामाणमिति १०

११ वनमभिमन्त्रयते नमो रुद्राय ...{Loading}...

वनमभिमन्त्रयते नमो रुद्राय वनसदे स्वस्ति मा सम्पारयेति ११

१२ गिरिमभिमन्त्रयते नमो रुद्राय ...{Loading}...

गिरिमभिमन्त्रयते नमो रुद्राय गिरि षदेस्वस्ति मा सम्पारयेति १२

१३ श्मशानमभिमन्त्रयते नमो रुद्रायम् ...{Loading}...

श्मशानमभिमन्त्रयते नमो रुद्रायं पितृषदे स्वस्ति मा सम्पारयेति १३

१४ गोष्ठमभिमन्त्रयते मनो रुद्राय ...{Loading}...

गोष्ठमभिमन्त्रयते मनो रुद्राय शकृत्पिण्डसदे स्वस्ति मा सम्पारयेति १४

१५ यत्र चान्यत्रापि नमो ...{Loading}...

यत्र चान्यत्रापि नमो रुद्रायेत्येव ब्रूयाद्रुद्रो ह्येवेदं सर्वमिति श्रुतेः १५

१६ सिचाऽवधूतोऽभिमन्त्रयते सिगसि न ...{Loading}...

सिचाऽवधूतोऽभिमन्त्रयते सिगसि न वज्रोऽसि नमस्तेऽअस्तु मा माहिंसीरिति १६

१७ स्तनयित्नुमभिमन्त्रयते शिवा नो ...{Loading}...

स्तनयित्नुमभिमन्त्रयते शिवा नो वर्षाः सन्तु शिवा नः सन्तु हेतयः । शिवा नस्ताः सन्तु यास्त्वं सृजसि वृत्रहन्निति १७

१८ शिवां वाश्यमानामभिमन्त्रयते शिवो ...{Loading}...

शिवां वाश्यमानामभिमन्त्रयते शिवो नामेति १८

१९ शकुनिं वाश्यमानमभिमन्त्रयते हिरण्यपर्ण ...{Loading}...

शकुनिं वाश्यमानमभिमन्त्रयते हिरण्यपर्ण शकुने देवानां प्रहितङ्गम । यमदूत नमस्तेऽस्तु किन्त्वाकार्क्कारिणो ब्रवीदिति १९

२० लक्षण्यं वृक्षमभिमन्त्रयते मा ...{Loading}...

लक्षण्यं वृक्षमभिमन्त्रयते मा त्वाऽशनिर्मा परशुर्मा वातो मा राजप्रेषितो दण्डः । अङ्कुरास्ते प्ररोहन्तु निवाते त्वाऽभिवर्षतु । अग्निष्टेमूलं माहिंसीत्स्वस्ति तेऽस्तु वनस्पते स्वस्तिमेऽस्तु वनस्पत इति २०

२१ स यदि किञ्चिल्लभेत ...{Loading}...

स यदि किञ्चिल्लभेत तत्प्रतिगृह्णाति द्यौस्त्वा ददातु पृथिवी त्वा प्रतिगृह्णात्विति साऽस्य न ददतः क्षीयते भूयसी च प्रतिगृहीता भवति । अथ यद्योदनं लभेत तत्प्रतिगृह्य द्यौस्त्वेति तस्य द्विः प्राश्नाति ब्रह्मा त्वाऽश्नातु ब्रह्मा त्वा प्राश्नात्विति २१

२२ अथ यदि मन्थम् ...{Loading}...

अथ यदि मन्थं लभेत तं प्रतिगृह्य द्यौस्त्वेति तस्य त्रिः प्राश्नाति ब्रह्मा त्वाऽश्नातु ब्रह्मा त्वा प्राश्नातु ब्रह्मा त्वा पिबत्विति २२

२३ अथातोऽधीत्याधीत्यानिराकरणं प्रतीकं मे ...{Loading}...

अथातोऽधीत्याधीत्यानिराकरणं प्रतीकं मे विचक्षण जिह्वा मे मधु यद्वचः । कर्णाभ्यां भूरिशुश्रुवे मा त्वं हार्षीः श्रुतं मयि । ब्रह्मणः प्रवचनमसि ब्रह्मणः प्रतिष्ठानमसि ब्रह्मकोशोसि सनिरसि शान्तिरस्यनिराकरणमसि ब्रह्मकोशं मे विश । वाचा त्वा पिदधामि वाचा त्वा पिदधामीति स्वरकरणकण्ठ्यौरसदन्त्यौष्ठ्यग्रहणधारणोच्चारणशक्तिर्मयि भवतु आप्यायन्तु मेऽङ्गानि वाक् प्राणश्चक्षुः श्रोत्रं यशो बलम् । यन्मे श्रुतमधीतं तन्मे मनसि तिष्ठतु तिष्ठतु २३


  1. The he-ass has twofold sperm, because he begets both asses and mules. Taittirīya Saṃhitā VII, 1, 1, 2. ↩︎ ↩︎

  2. The play on words is untranslatable; ‘jackal’ is śivā, ‘friendly,’ śivaḥ. ↩︎

  3. I do not know the meaning of kārkāriṇaḥ. Jayarāma takes it for a genitive standing instead of an accusative, and explains it by asmadbādhakam. ↩︎