१३

०१ अथातः सभाप्रवेशनम् ...{Loading}...

अथातः सभाप्रवेशनम् १

०२ सभामभ्येति सभाङ्गिरसि नादिर्नामासि ...{Loading}...

सभामभ्येति सभाङ्गिरसि नादिर्नामासि त्विषिर्नामासि तस्यै ते नम इति २

०३ अथ प्रविशति सभा ...{Loading}...

अथ प्रविशति सभा च मासमितिश्चोभे प्रजापतेर्दुहितरौ सचेतसौ । यो मा न विद्यादुप मा स तिष्ठेत्स चेतनो भवतु शंसथे जन इति ३

०४ पर्षदमेत्य जपेदभिभूरहमागमविराडप्रतिवाश्याः अस्याः ...{Loading}...

पर्षदमेत्य जपेदभिभूरहमागमविराडप्रतिवाश्याः । अस्याः पर्षद ईशानः सहसा सुदुष्टरो जन इति ४

०५ स यदि मन्येत ...{Loading}...

स यदि मन्येत क्रुद्धोऽयमिति तमभिमन्त्रयते या त एषा रराट्या तनूर्मन्योः क्रोधस्य नाशनी । तान्देवा ब्रह्मचारिणो विनयन्तु सुमेधसः । द्यौरहं पृथिवी चाहं तौ ते क्रोधं नयामसि गर्भमश्वतर्यसहासाविति ५

०६ अथ यदि मन्येत ...{Loading}...

अथ यदि मन्येत द्रुग्धोऽयमिति तमभिमन्त्रयते तां ते वाचमास्य आदत्ते हृदय आदधे यत्र यत्र निहिता वाक्तां ततस्तत आददे यदहं ब्रवीमि तत्सत्यमधरो मत्तान्द्यस्वेति ६

०७ एतदेव वशीकरणम् ...{Loading}...

एतदेव वशीकरणम् ७


  1. 13, 2. The regular Sandhi would be sabha (for sabhe) āṅgirasi, instead of which the text has sabhāṅgirasi. ↩︎

  2. In Sanskrit the words sabha (court) and samiti (assembly) are of feminine gender. I have translated upa ma sa tiṣṭhet in the sense indicated by Pāṇini I, 4, 87. ↩︎

  3. Perhaps we should read garbheṇāśvataryāḥ saha: we take away thy anger together with the offspring of the she-mule (that cannot foal). Comp. Cullavagga VII, 2, 5; S.B.E., XX, 238. ↩︎

  4. It is impossible to give a sure restoration of this corrupt Mantra. Perhaps we should read something like this: ā te vācam āsya ā te hṛdaya ādade. Comp. Hiraṇy.-Gṛhya I, 4, 15, 6. ↩︎