०४

०१ अथातः शालाकर्म ...{Loading}...

अथातः शालाकर्म १

०२ पुण्याहे शालां कारयेत् ...{Loading}...

पुण्याहे शालां कारयेत् २

०३ तस्या अवटमभिजुहोत्यच्युताय भौमाय ...{Loading}...

तस्या अवटमभिजुहोत्यच्युताय भौमाय स्वाहेति ३

०४ स्तम्भमुच्छ्रयति इमामुच्छ्रयामि भुवनस्य ...{Loading}...

स्तम्भमुच्छ्रयति इमामुच्छ्रयामि भुवनस्य नाभिं वसोर्धारां प्रतरणीं वसूनाम् । इहैव ध्रुवां निमिनोमि शालां क्षेमे तिष्ठतु घृतमुक्षमाणा । अश्वावती गोमती सूनृतावत्युच्छ्रयस्व महते सौभगाय । आत्वा शिशुराक्रन्दत्वा गावो धेनवो वाश्यमानाः । आत्वा कुमारस्तरुण आवत्सो जगदैः सह । आत्वा परिस्रुतः कुम्भ आदध्नः कलशैरुप । क्षेमस्य पत्नी बृहती सुवासा रयिं नो धेहि सुभगे सुवीर्यम् । अश्वावद्गोमदूर्जस्वत् पर्णं वनस्पतेरिव । अभिनः पूर्यतां रयिरिदमनुश्रेयो वसान इति चतुरः प्रपद्यते ४

०५ अभ्यन्तरतोऽग्निमुपसमाधाय दक्षिणतो ...{Loading}...

अभ्यन्तरतोऽग्निमुपसमाधाय दक्षिणतो ब्रह्माणमुपवेश्योत्तरत उदपात्रं प्रतिष्ठाप्य स्थालीपाकं श्रपयित्वा निष्क्रम्य द्वारसमीपे स्थित्वा ब्रह्माणमामन्त्रयते ब्रह्मन् प्रविशामीति ५

०६ ब्रह्मानुज्ञातः प्रविशत्यृतं प्रपद्ये ...{Loading}...

ब्रह्मानुज्ञातः प्रविशत्यृतं प्रपद्ये शिवं प्रपद्य इति ६

०७ आज्यं संस्कृत्येहरतिरित्याज्याहुती हुत्वाऽपरा ...{Loading}...

आज्यं संस्कृत्येहरतिरित्याज्याहुती हुत्वाऽपरा जुहोति । वास्तोष्पते प्रतिजानीह्यस्मान्स्वावेशो अनमीवो भवानः । यत्त्वेमहे प्रति तन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे स्वाहा । वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति तन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे स्वाहा । वास्तोष्पते शग्मया संसदा ते सक्षीमहि रण्वया गातुमत्या । पाहि क्षेम उत योगे वरन्नो यूयम्पात स्वस्तिभिः सदा नः स्वाहा । अमीवहा वास्तोष्पतेविश्वारूपाण्याविशन् । सखा सुशेव एधि नः स्वाहेति ७

०८ स्थालीपाकस्य जुहोति अग्निमिन्द्रम् ...{Loading}...

स्थालीपाकस्य जुहोति । अग्निमिन्द्रं बृहस्पतिं विश्वान्देवानुपह्वये सरस्वतीं च वाजीं च वास्तु मे दत्त वाजिनः स्वाहा । सर्पदेवजनान्त्सर्वान् हिमवन्तं सुदर्शनम् । वसूंश्च रुद्रानादित्यानीशानं जगदैः सह । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा । पूर्वाह्णमपराह्णं चोभौ मध्यन्दिना सह । प्रदोषमर्द्धरात्रं च व्युष्टां देवीं महापथाम् । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा । कर्तारं च विकर्तारं विश्वकर्माणमोषधींश्च वनस्पतीन् । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा । धातारं च विधातारं निधीनां च पतिं सह । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा । स्योनं शिवमिदं वास्तु दत्तं ब्रह्मप्रजापती । सर्वाश्च देवताः स्वाहेति ८

०९ प्राशनान्ते कांस्ये सम्भारानोप्यौदुम्बरपलाशानि ...{Loading}...

प्राशनान्ते कांस्ये सम्भारानोप्यौदुम्बरपलाशानि ससुराणि शाड्वलं गोमयं दधि मधु घृतं कुशान्यवांश्चासनोपस्थानेषु प्रोक्षेत् ९

१० पूर्वे सन्धावभिमृशति श्रीश्च ...{Loading}...

पूर्वे सन्धावभिमृशति । श्रीश्च त्वा यशश्च पूर्वे सन्धौ गोपायेतामिति १०

११ दक्षिणे सन्धावभिमृशति यज्ञश्च ...{Loading}...

दक्षिणे सन्धावभिमृशति । यज्ञश्च त्वा दक्षिणा च दक्षिणे सन्धौ गोपायेतामिति ११

१२ पश्चिमे सन्धावभिमृशति अन्न ...{Loading}...

पश्चिमे सन्धावभिमृशति । अन्न च त्वा ब्राह्मणाश्च पश्चिमे सन्धौ गोपायेतामिति १२

१३ उत्तरे सन्धावभिमृशति ऊर्क्च ...{Loading}...

उत्तरे सन्धावभिमृशति । ऊर्क्च त्वा सूनृता चोत्तरे सन्धौ गोपायेतामिति १३

१४ निष्क्रम्य दिश उपतिष्ठते ...{Loading}...

निष्क्रम्य दिश उपतिष्ठते । केता च मा सुकेता च पुरस्ताद्गोपायेतामित्यग्निर्वै केतादित्यः सुकेता तौ प्रपद्ये ताभ्यां नमोऽस्तु तौ मा पुरस्ताद्गोपायेतामिति १४

१५ अथ दक्षिणतो गोपायमानम् ...{Loading}...

अथ दक्षिणतो गोपायमानं च मारक्षमाणा च दक्षिणतो गोपायेतामित्यहर्वै गोपायमानं रात्री रक्षमाणा ते प्रपद्ये ताभ्यां नमोऽस्तु ते मा दक्षिणतो गोपायेतामिति १५

१६ अथ पश्चात् दीदिविश्च ...{Loading}...

अथ पश्चात् दीदिविश्च भा जागृविश्च पद्चाद्गोपायेतामित्यन्नं वै दीदिविः प्राणो जागृविस्तौ प्रपद्ये ताभ्यां नमोऽस्तु तौ मा पश्चाद्गोपायेतामिति १६

१७ अथोत्तरतोऽस्वप्नश्च मानवद्राणश्चोत्तरतो ...{Loading}...

अथोत्तरतोऽस्वप्नश्च मानवद्राणश्चोत्तरतो गोपायेतामिति चन्द्रमा वा अस्वप्नो वायुरनवद्रानस्तौ प्रपद्ये ताभ्यां नमोस्तु तौ मोत्तरतो गोपायेतामिति १७

१८ निष्ठितां प्रपद्यते धर्मस्थूणा ...{Loading}...

निष्ठितां प्रपद्यते धर्मस्थूणा जाजं श्रीरतूपमहोरात्रे द्वारफलके । इन्द्रस्य गृहा वसुमन्तो वरूथिनस्तानहं प्रपद्ये सह प्रजया पशुभिः सह । यन्मे किञ्चिदस्त्युपहूतः सर्वगणसखायसाधुसंवृतः । तां त्वा शालेऽरिष्टवीरा गृहान्नः सन्तु सर्वत इति १८

१९ ततो ब्राह्मणभोजनम् ...{Loading}...

ततो ब्राह्मणभोजनम् १९


  1. 4, 3. Āśvalāyana-Gṛhya II, 8, 15. ↩︎

  2. On gagadaiḥ saha (in the third verse) see my note on Śāṅkhāyana-Gṛhya III, 2, 9. ↩︎

  3. Rig-veda VII, 54; 55, 1. ↩︎

  4. 8 a. Vājī is, as the name shows, the goddess of quick vigour. Jayarāma explains Vājī, a name of Sītā, as a personification of food. ↩︎

  5. Comp. Āśvalāyana II, I, 14. On jagada, comp. above, § 4. ↩︎

  6. Comp. Śāṅkhāyana-Gṛhya III, 3, 7 seq.; chap. 4, 10. The comparison of Sāṅkhāyana shows that we have to divide saha prajayā paśubhiḥ, saha yan me kiñcid asty, upahūtaḥ, &c. Sādhusaṃvṛtaḥ (if the reading is correct) seems to me to be the nom. plur. of sādhusaṃvṛt. I understand this to be a Bahuvrīhi compound, in which saṃvṛt means ’the approaching.’ In Atharva-veda VII, 60, 4 we have sakhāyaḥ svādusaṃmudaḥ. After śāle a verb meaning ‘I enter,’ or something like that, has been lost. ↩︎