०२

०१ मार्गशीर्ष्यां पौर्णमास्यामाग्रहायणीकर्म ...{Loading}...

मार्गशीर्ष्यां पौर्णमास्यामाग्रहायणीकर्म १

०२ स्थालीपाकं श्रपयित्वा श्रवणवदाज्याहुती ...{Loading}...

स्थालीपाकं श्रपयित्वा श्रवणवदाज्याहुती हुत्वाऽपरा जुहोति । यां जनाः प्रतिनन्दन्ति रात्रीं धेनुमिवायतीम् । संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली स्वाहा । संवत्सरस्य प्रतिमा या तां रात्रीमुपास्महे । प्रजां सुवीर्यां कृत्वा दीर्घमायुर्व्यश्नवै स्वाहा । संवत्सराय परिवत्सरायेदावत्सरायेद्वत्सराय वत्सराय कृणुते बृहन्नमः । तेषां वयं सुमतौ यज्ञियानां ज्योग्जीता अहताः स्याम स्वाहा । ग्रीष्मो हेमन्त उतनो वसन्तः शिवा वर्षा अभया शरन्नः । तेषामृतूनां शतशारदानां निवात एषामभये वसेम स्वाहेति २

०३ स्थालीपाकस्य जुहोति सोमाय ...{Loading}...

स्थालीपाकस्य जुहोति । सोमाय मृगशिरसे मार्गशीर्ष्यै पौर्णमास्यै हेमन्ताय चेति ३

०४ प्राशनान्ते सक्तुशेषं शूर्पे ...{Loading}...

प्राशनान्ते सक्तुशेषं शूर्पे न्युप्योपनिष्क्रमणप्रभृत्यामार्जनात् ४

०५ मार्जनान्त उत्सृष्टो बलिरित्याह ...{Loading}...

मार्जनान्त उत्सृष्टो बलिरित्याह ५

०६ पश्चादग्नेः स्रस्तरमास्तीर्याहतं च ...{Loading}...

पश्चादग्नेः स्रस्तरमास्तीर्याहतं च वास आप्लुता अहतवाससः प्रत्यवरोहन्ति दक्षिणतः स्वामी जायोत्तरा यथाकनिष्ठमुत्तरतः ६

०७ दक्षिणतो ब्रह्माणमुपवेश्योत्तरत उदपात्रम् ...{Loading}...

दक्षिणतो ब्रह्माणमुपवेश्योत्तरत उदपात्रं शमीशाखासीतालोष्ठाश्मनो निधायाग्निमीक्षमाणो जपति । अयमग्निर्वीरतमोऽयं भगवत्तमः सहस्रसातमः । सुवीर्योऽयं श्रैष्ठ्ये दधातु नाविति ७

०८ पश्चादग्नेः प्राञ्चमञ्जलिं करोति ...{Loading}...

पश्चादग्नेः प्राञ्चमञ्जलिं करोति ८

०९ दैवीं नावमिति तिसृभिः ...{Loading}...

दैवीं नावमिति तिसृभिः । स्रस्तरमारोहन्ति ९

१० ब्रह्माणमामन्त्रयते ब्रह्मन्प्रत्यवरोहामेति ...{Loading}...

ब्रह्माणमामन्त्रयते ब्रह्मन्प्रत्यवरोहामेति १०

११ ब्रह्मानुज्ञाताः प्रत्यवरोहन्ति आयुः ...{Loading}...

ब्रह्मानुज्ञाताः प्रत्यवरोहन्ति आयुः कीर्यशो बलमन्नाद्यं प्रजामिति ११

१२ उपेता जपन्ति सुहेमन्तः ...{Loading}...

उपेता जपन्ति । सुहेमन्तः सुवसन्तः सुग्रीष्मः प्रतिधीयतान्नः । शिवा नो वर्षाः सन्तु शरदः सन्तु नः शिवा इति १२

१३ स्योना पृथिवि नो ...{Loading}...

स्योना पृथिवि नो भवेति दक्षिणपार्श्वैः प्राक्शिरसः संविशन्ति १३

१४ उपोदुतिष्ठन्ति उदायुषा स्वायुषोत्पर्जन्यस्य ...{Loading}...

उपोदुतिष्ठन्ति उदायुषा स्वायुषोत्पर्जन्यस्य वृष्ट्या पृथिव्याः सप्तधामभिरिति १४

१५ एवं द्विरपरं ब्रह्मानुज्ञाताः ...{Loading}...

एवं द्विरपरं ब्रह्मानुज्ञाताः १५

१६ अधः शयीरंश्चतुरो मासान्यथेष्टम् ...{Loading}...

अधः शयीरंश्चतुरो मासान्यथेष्टं वा १६


  1. 2, 2. The two oblations belonging to the Śravaṇā ceremony are those stated above, II, 14, 4. 5. ↩︎

  2. See above, II, 14, 1I-21 (not 19-21 as indicated by Professor Stenzler). ↩︎

  3. ‘Redescending’ means that they do not sleep any longer on high bedsteads, which they did from the Śrāvanī day till the Āgrahāyaṇī, on account of the danger from the snakes, but on the ground. See the notes on Sāṅkh.-Gṛhya IV, 15, 22; 17, 1. ↩︎

  4. 10, 11. See the note on § 6. ↩︎

  5. On upeta, which means a person for whom the Upanayana has been performed, see my note, Śāṅkhāyana-Gṛhya II, 1, 1. ↩︎

  6. The verse occurs, with a few differences, in the Kāṇva Śākhā of the Vāj. Saṃhitā, II, 7, 5. ↩︎