०१

०१ अनाहिताग्नेर्नवप्राशनम् ...{Loading}...

अनाहिताग्नेर्नवप्राशनम् १

०२ नवं स्थालीपाकं श्रपयित्वाज्यभागाविष्ट्वाज्याहुती ...{Loading}...

नवं स्थालीपाकं श्रपयित्वाज्यभागाविष्ट्वाज्याहुती जुहोति । शतायुधाय शतवीर्याय शतोतये अभिमातिषाहे । शतं यो नः शरदोऽजीजानिन्द्रो नेषदति दुरितानि विश्वा स्वाहा । ये चत्वारः पथयो देवयाना अन्तराद्यावापृथिवी वियन्ति । तेषां योऽज्यानिमजीजिमावहात्तस्मै नो देवाः परिधत्तेह सर्वे स्वाहेति २

०३ स्थालीपाकस्याग्रयणदेवताभ्यो हुत्वा जुहोति ...{Loading}...

स्थालीपाकस्याग्रयणदेवताभ्यो हुत्वा जुहोति स्विष्टकृते च स्विष्टमग्ने अभितत् पृणीहि विश्वांश्च देवः पृतना अविष्यत् । सुगन्नु पन्थां प्रदिशन्न एहि ज्योतिष्मद्धयेह्यजरन्न आयुः स्वाहेति ३

०४ अथ प्राश्नाति अग्निः ...{Loading}...

अथ प्राश्नाति । अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिः । भद्रान्नः श्रेयः समनैष्ट देवास्त्वयावशेन समशीमहि त्वा । स नोमयोऽभूः पितो आविशस्व शन्तोकाय तनुवे स्योन इति ४

०५ अन्नपतीयया वा ...{Loading}...

अन्नपतीयया वा ५

०६ अथ यवानामेतमुत्यं मधुना ...{Loading}...

अथ यवानामेतमुत्यं मधुना संयुतम् । यवं सरस्वत्या अधिवनाय चकृषुः इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानव इति ६

०७ ततो ब्राह्मणभोजनम् ...{Loading}...

ततो ब्राह्मणभोजनम् ७


  1. 1, 1. The corresponding ceremony of the Śrauta ritual is treated of in Kāty. IV, 6. ↩︎

  2. A fresh Sthālīpāka means probably a Sthālīpāka prepared from the fresh grain of the new harvest. ↩︎

  3. The deities of the Āgrayaṇa ceremony, which occupies in the Śrauta ritual the place corresponding to the rite described here, are Indra and Agni, the Viśve devās, Heaven and Earth. ↩︎

  4. The Annapatīya verse is Vāj. Saṃh. XI, 83. ↩︎

  5. Comp. manāv adhi, Rig-veda VIII, 72, 2. ↩︎