१७

०१ अथ सीतायज्ञः ...{Loading}...

अथ सीतायज्ञः १

०२ व्रीहियवानां यत्र यत्र ...{Loading}...

व्रीहियवानां यत्र यत्र यजेत तन्मयं स्थालीपाकं श्रपयेत् २

०३ कामादीजानोऽन्यत्रापि व्रीहियवयोरेवान्यतरम् ...{Loading}...

कामादीजानोऽन्यत्रापि व्रीहियवयोरेवान्यतरं स्थालीपाकं श्रपयेत् ३

०४ न पूर्वचोदितत्वात्सन्देहः ...{Loading}...

न पूर्वचोदितत्वात्सन्देहः ४

०५ असम्भवाद्विनिवृत्तिः ...{Loading}...

असम्भवाद्विनिवृत्तिः ५

०६ क्षेत्रस्य पुरस्तादुत्तरतो वा ...{Loading}...

क्षेत्रस्य पुरस्तादुत्तरतो वा शुचौ देशे कृष्टे फलानुपरोधेन ६

०७ ग्रामे वोभयसम्प्रयोगादविरोधात् ...{Loading}...

ग्रामे वोभयसम्प्रयोगादविरोधात् ७

०८ यत्र श्रपयिष्यन्नुपलिप्त ...{Loading}...

यत्र श्रपयिष्यन्नुपलिप्त उद्धतावोक्षितेऽग्निमुपसमाधाय तन्मिश्रैर्दर्भैः स्तीर्त्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति ८

०९ पृथिवी द्यौः प्रदिशो ...{Loading}...

पृथिवी द्यौः प्रदिशो दिशो यस्मै द्युभिरावृताः तमिहेन्द्रमुपह्वये शिवा नः सन्तु हेतयः स्वाहा । यन्मे किञ्चिदुपेप्सितमस्मिन्कर्मणि वृत्रहन् । तन्मे सर्वं समृध्यतां जीवतः शरदः शतं स्वाहा । सम्पत्तिर्भूतिर्भूमिर्वृष्टिर्ज्यैष्ठ्यं श्रैष्ठ्यं श्रीः प्रजामिहावतु स्वाहा । यस्या भावे वैदिकलौकिकानां भूतिर्भवति कर्मणाम् । इन्द्रपत्नीमुपह्वये सीतां सा मे त्वन्नपायिनी भूयात्कर्मणि कर्मणि स्वाहा । अश्वावती गोमती सूनृतावती बिभर्ति या प्राणभृतो अतन्द्रिता । खलमालिनीमुर्वरामस्मिन्कर्मण्युपह्वये ध्रुवां सा मे त्वनपायिनी भूयात्स्वाहेति ९

१० स्थालीपाकस्य जुहोति सीतायै ...{Loading}...

स्थालीपाकस्य जुहोति सीतायै यजायै शमायै भूत्या इति १०

११ मन्त्रवत्प्रदानमेकेषाम् ...{Loading}...

मन्त्रवत्प्रदानमेकेषाम् ११

१२ स्वाहाकारप्रदाना इति श्रुतेर्विनिवृत्तिः ...{Loading}...

स्वाहाकारप्रदाना इति श्रुतेर्विनिवृत्तिः १२

१३ स्तरणशेषषु सीतागोप्तृभ्यो बलिम् ...{Loading}...

स्तरणशेषषु सीतागोप्तृभ्यो बलिं हरति पुरस्ताद्ये त आसते सुधन्वानो निषङ्गिणः । ते त्वा पुरस्ताद्गोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममिति १३

१४ अथ दक्षिणतोऽनिमिषा वर्मिण ...{Loading}...

अथ दक्षिणतोऽनिमिषा वर्मिण आसते । ते त्वा दक्षिणतो गोपायन्त्वप्रमता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममिति १४

१५ अथ पश्चात् आभुवः ...{Loading}...

अथ पश्चात् आभुवः प्रभुवो भूतिर्भूमिः पार्ष्णिः शुनङ्कुरिः । ते त्वा पश्चाद्गोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममिति १५

१६ अथोत्तरतो भीमा वायुसमा ...{Loading}...

अथोत्तरतो भीमा वायुसमा जवे । ते त्वोत्तरतः क्षेत्रे खले गृहेऽध्वनि गोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममिति १६

१७ प्रकृतादन्यस्मादाज्यशेषेण च पूर्ववद्बलिकर्म ...{Loading}...

प्रकृतादन्यस्मादाज्यशेषेण च पूर्ववद्बलिकर्म १७

१८ स्त्रियश्चोपयजेरन्नाचरितत्वात् ...{Loading}...

स्त्रियश्चोपयजेरन्नाचरितत्वात् १८

१९ संस्थिते कर्मणि ब्राह्मणान्भोजयेत्संस्थिते ...{Loading}...

संस्थिते कर्मणि ब्राह्मणान्भोजयेत्संस्थिते कर्मणि ब्राह्मणान्भोजयेत् १९


  1. 17, 1. The goddess Sītā is, as her name indicates, the rustic deity of the furrow. ↩︎

  2. Perhaps the meaning is that a person who has already once performed the Sītā-yajña on the field, is allowed, when repeating the sacrifice another time, to celebrate it elsewhere, and to choose at his will between rice and barley. ↩︎

  3. A rule has been given in the Śrauta-sūtra (Kāty. I, 9, 1: ‘Rice or barley, if a Havis [is prescribed]’) which shows that it is indifferent whether rice or barley is taken. Thus the sacrificer is free to elect the one or the other. At least this is the traditional meaning of this Sūtra. But possibly we had better understand it otherwise. The sacrificer should offer, according to Sūtra 3, rice or barley. Whether he has to take the one or the other, there can be no doubt, as the rule given above (Sūtra 2) shows that rice should be cooked, if the ceremony is performed for a rice-field, and barley, if for a barley-field. ↩︎

  4. The quotation has not been as yet identified in the Śruti itself, but the words quoted are found in Kāty.-Śraut. I, 2, 7. ↩︎

  5. Some words in the beginning of the Mantra are lost. We should probably write: atha dakṣiṇataḥ. ye dakṣiṇatoऽnimiṣāḥ . . . varmiṇa āsate, &c. Of course it is impossible to say which is the word that is wanting before (or perhaps after) varmiṇaḥ. ↩︎

  6. Pārṣṇi, which means ‘heel,’ stands here, of course, as the name of a protecting demon. ↩︎

  7. See above, chap. 13, 2. ↩︎