१४

०१ अथातः श्रवणाकर्म ...{Loading}...

अथातः श्रवणाकर्म १

०२ श्रावण्यां पौर्णमास्याम् ...{Loading}...

श्रावण्यां पौर्णमास्याम् २

०३ स्थालीपाकं श्रपयित्वाऽक्षतधानाश्चैककपालम् पुरोडाशम् ...{Loading}...

स्थालीपाकं श्रपयित्वाऽक्षतधानाश्चैककपालम् पुरोडाशं धानानां भूयसीः पिष्ट्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुती जुहोति ३

०४ अपश्वेतपदाजहि पूर्वेण चापरेण ...{Loading}...

अपश्वेतपदाजहि पूर्वेण चापरेण च । सप्त च वारुणीरिमाः प्रजाः सर्वाश्च राजबान्धवैः स्वाहा ४

०५ न वै श्वेतस्याध्याचारेऽहिर्ददर्श ...{Loading}...

न वै श्वेतस्याध्याचारेऽहिर्ददर्श कञ्चन । श्वेताय वैदर्व्याय नमः स्वाहेति ५

०६ स्थालीपाकस्य जुहोति विष्णवे ...{Loading}...

स्थालीपाकस्य जुहोति विष्णवे श्रवणाय श्रावण्यै पौर्णमास्यै वर्षाभ्यश्चेति ६

०७ धानावन्तमिति धानानाम् ...{Loading}...

धानावन्तमिति धानानाम् ७

०८ घृताक्तान्सक्तून्सर्पेभ्यो जुहोति ...{Loading}...

घृताक्तान्सक्तून्सर्पेभ्यो जुहोति ८

०९ आग्नेयपाण्डुपार्थिवानां सर्पाणामधिपतये स्वाहा ...{Loading}...

आग्नेयपाण्डुपार्थिवानां सर्पाणामधिपतये स्वाहा श्वेतवायवान्तरिक्षाणां सर्पाणामधिपतये स्वाहाऽभिभूःसौर्यदिव्यानां सर्पाणामधिपतये स्वाहेति ९

१० सर्वहुतमेककपालं ध्रुवाय भौमाय ...{Loading}...

सर्वहुतमेककपालं ध्रुवाय भौमाय स्वाहेति १०

११ प्राशनान्ते सक्तूनामेकदेशं शूर्पे ...{Loading}...

प्राशनान्ते सक्तूनामेकदेशं शूर्पे न्युप्योपनिष्क्रम्य बहिः शालायाः स्थण्डिलमुपलिप्योल्कायां ध्रियमाणायां माऽन्तरागमतेत्युक्त्वा वाग्यतः सर्पानवनेजयति ११

१२ आग्नेयपाण्डुपार्थिवानां सर्पाणामधिपतेऽवनेनिक्ष्व ...{Loading}...

आग्नेयपाण्डुपार्थिवानां सर्पाणामधिपतेऽवनेनिक्ष्व श्वेतवायवान्तरिक्षाणां सर्पाणामधिपतेऽवनेनिक्ष्वाभिभूः सौर्यदिव्यानां सर्पाणामधिपतेऽवनेनिक्ष्वेति १२

१३ यथाऽवनिक्तं दर्व्योपघातं सक्तून्सर्पेभ्यो ...{Loading}...

यथाऽवनिक्तं दर्व्योपघातं सक्तून्सर्पेभ्यो बलिं हरति १३

१४ आग्नेयपाण्डुपार्थिवानां सर्पाणामधिपत एष ...{Loading}...

आग्नेयपाण्डुपार्थिवानां सर्पाणामधिपत एष ते बलिः श्वेतवायवान्तरिक्षाणां सर्पाणामधिपत एष ते बलिरभिभूः सौर्यदिव्यानां सर्पाणामधिपत एष ते बलिरिति १४

१५ अवनेज्य पूर्ववत्कङ्कतैः प्रलिखति ...{Loading}...

अवनेज्य पूर्ववत्कङ्कतैः प्रलिखति १५

१६ आग्नेयपाण्डुपार्थिवानां सर्पाणामधिपते प्रलिखस्व ...{Loading}...

आग्नेयपाण्डुपार्थिवानां सर्पाणामधिपते प्रलिखस्व श्वेतवायवान्तरिक्षाणां सर्पाणामधिपते प्रलिखस्वाभिभूः सौर्यदिव्यानां सर्पाणामधिपते प्रलिखस्वेति १६

१७ अञ्जनानुलेपनं स्रजश्चाञ्जस्वानुलिम्पस्व ...{Loading}...

अञ्जनानुलेपनं स्रजश्चाञ्जस्वानुलिम्पस्व स्रजोऽपिनह्यस्वेति १७

१८ सक्तुशेषं स्थण्डिले ...{Loading}...

सक्तुशेषं स्थण्डिले न्युप्योदपात्रेणोपनिनीयोपतिष्ठते नमोऽस्तु सर्पेभ्य इति तिसृभिः १८

१९ स यावत्कामयेत न ...{Loading}...

स यावत्कामयेत न सर्पा अभ्युपेयुरिति तावत्सन्ततयोदधारया निवेशनं त्रिः परिषिञ्चन्परीयादपश्वेतपदा जहीति द्वाभ्याम् १९

२० दर्वीं शूर्पं प्रक्षाल्य ...{Loading}...

दर्वीं शूर्पं प्रक्षाल्य प्रतप्य प्रयच्छति २०

२१ द्वारदेशे मार्जयन्त आपोहिष्ठेति ...{Loading}...

द्वारदेशे मार्जयन्त आपोहिष्ठेति तिसृभिः २१

२२ अनुगुप्तमेतं सक्तुशेषं निधाय ...{Loading}...

अनुगुप्तमेतं सक्तुशेषं निधाय ततोऽस्तमितेऽस्तमितेऽग्निं परिचर्य दर्व्योपघातं सक्तून्सर्पेभ्यो बलिं हरेदाग्रहायण्याः २२

२३ तं हरन्तं नान्तरेण ...{Loading}...

तं हरन्तं नान्तरेण गच्छेयुः २३

२४ दर्व्याचमनं प्रक्षाल्य निदधाति ...{Loading}...

दर्व्याचमनं प्रक्षाल्य निदधाति २४

२५ धाना प्राश्नन्त्यसंस्यूताः ...{Loading}...

धाना प्राश्नन्त्यसंस्यूताः २५

२६ ततो ब्राह्मणभोजनम् ...{Loading}...

ततो ब्राह्मणभोजनम् २६


  1. 14, 1 seqq. Comp. Śāṅkhāyana IV, 5; Āśvalāyana II, 1; Gobhila III, 7. ↩︎

  2. Āśvalāyana II, 3, 3; Śāṅkhāyana IV, 18, 1. For Vāruṇaiḥ and rājabāndhavaiḥ I read Vāruṇīḥ, rājabāndhavīḥ. Prajāḥ is an interpolation. ↩︎

  3. Āśvalāyana, loc. cit. One is rather tempted to correct ahir dadaṃśa kañcana, but Rāmacandra’s Paddhati on Śāṅkhāyana gives the reading dadarśa, as the Pāraskara MSS. do. ↩︎

  4. The ceremony with the fire-brand seems to stand in connection with the rule given by Āśvalāyana, II, 1, 13, that before the sacrificer has given himself in charge’ to the serpents, nobody is allowed to step between him and the Bali destined for the serpents. Comp. also below, Sūtra 23. ↩︎

  5. I have translated upaghātam by ‘picking out.’ On the full p. 329 technical meaning of the term, which implies the omission of the upastaraṇa and abhighāraṇa, see Bloomfield’s note on Gṛhya-saṃgraha I, 111 (Zeitschrift der deutschen Morgenländischen Gesellschaft, XXXV, 568). ↩︎

  6. The words as above refer to Sūtra 11. Pralikhati, which I have translated ‘he combs them,’ is the same act for which Sāṅkhāyana (IV, 15, 7) says, phaṇena ceṣṭayati. I think Professor Stenzler is wrong in translating: Er scharrt (das Mehl) mit Kämmen zusammen. Jayarāma says: pralekhanaṃ ca krameṇa pratimantram balikaṇḍūyanaṃ kaṅkataiḥ. tāni ca vaikaṅkatīyāni prādeśamātrāṇy ekatodantāni kāṣṭhāni bhavanti. ↩︎

  7. The Āgrahāyaṇī is the full-moon day of Mārgaśīrṣa, on which the Pratyavarohaṇa ceremony is celebrated. See below, III, 2; Weber, die vedischen Nachrichten von den Naxatra, II, 332. The expression darvyopaghātaṃ is the same that has occurred above in Sūtra 13. ↩︎

  8. Comp. Āśvalāyana-Gṛhya II, 1, 13, and see above, Sūtra 11. ↩︎

  9. Prakṣālya seems to me to refer to the Darvī; see Sūtra 20. ↩︎

  10. Asaṃsyūtāḥ. Comp. Böhtlingk-Roth sv. saṃ-sīv. ↩︎