०६

०१ वेदं समाप्य स्नायात् ...{Loading}...

वेदं समाप्य स्नायात् १

०२ ब्रह्मचर्यं वाऽष्टाचत्वारिंशकम् ...{Loading}...

ब्रह्मचर्यं वाऽष्टाचत्वारिंशकम् २

०३ द्वादशकेऽप्येके ...{Loading}...

द्वादशकेऽप्येके ३

०४ गुरुणाऽनुज्ञातः ...{Loading}...

गुरुणाऽनुज्ञातः ४

०५ विधिर्विधेयस्तर्कश्च वेदः ...{Loading}...

विधिर्विधेयस्तर्कश्च वेदः ५

०६ षडङ्गमेके ...{Loading}...

षडङ्गमेके ६

०७ न कल्पमात्रे ...{Loading}...

न कल्पमात्रे ७

०८ कामं तु याज्ञिकस्य ...{Loading}...

कामं तु याज्ञिकस्य ८

०९ उपसङ्गृह्य गुरुं समिधोऽभ्याधाय ...{Loading}...

उपसङ्गृह्य गुरुं समिधोऽभ्याधाय परिश्रितस्योत्तरतः कुशेषु प्रागग्रेषु पुरस्तात्स्थित्वाऽष्टानामुदकुम्भानाम् ९

१० ये अप्स्वन्तरग्नयः प्रविष्टा ...{Loading}...

ये अप्स्वन्तरग्नयः प्रविष्टा गोह्य उपगोह्यो मयूषो मनोहास्खलो विरुजस्तनूदूषुरिन्द्रियहातान्विजहामि यो रोचनस्तमिह गृह्णामीत्येकस्मादपो गृहीत्वा १०

११ तेनाभिषिञ्चते तेन मामभिषिञ्चामि ...{Loading}...

तेनाभिषिञ्चते । तेन मामभिषिञ्चामि श्रियै यशसे ब्रह्मणे ब्रह्मवर्चसायेति ११

१२ येन श्रियमकृणुतां येनावमृशताम् ...{Loading}...

येन श्रियमकृणुतां येनावमृशतां सुराम् । येनाक्ष्यावभ्यषिञ्चतां यद्वां तदश्विना यश इति १२

१३ आपोहिष्ठेति च प्रत्यृचम् ...{Loading}...

आपोहिष्ठेति च प्रत्यृचम् १३

१४ त्रिभिस्तूष्णीमितरैः ...{Loading}...

त्रिभिस्तूष्णीमितरैः १४

१५ उदुत्तममिति मेखलामुन्मुच्य दण्डम् ...{Loading}...

उदुत्तममिति मेखलामुन्मुच्य दण्डं निधाय वासोऽन्यत्परिधायादित्यमुपतिष्ठते १५

१६ उद्यन्भ्राजभृष्णुरिन्द्रो ...{Loading}...

उद्यन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थात्प्रातर्यावभिरस्थाद्दशसनिरसि दशसनिं मा कुर्वाविदन्मागमय । उद्यन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थाद्दिवा यावभिरस्थाच्छतसनिरसि शतसनिं मा कुर्वाविदन्मागमय । उद्यन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थात्सायंयावभिरस्थात्सहस्रसनिरसि सहस्रसनिं मा कुर्वाविदन्मागमयेति १६

१७ दधितिलान्वा प्राश्य जटालोमनखानि ...{Loading}...

दधितिलान्वा प्राश्य जटालोमनखानि संहृत्यौदुम्बरेण दन्तान्धावेत । अन्नाद्याय व्यूहध्वं सोमो राजाऽयमागमत् । स मे मुखं प्रमार्क्ष्यते यशसा च भगेन चेति १७

१८ उत्साद्य पुनः स्नात्वाऽनुलेपनम् ...{Loading}...

उत्साद्य पुनः स्नात्वाऽनुलेपनं नासिकयोर्मुखस्य चोपगृह्णीते प्राणापानौ मे तर्पय चक्षुर्मे तर्पय श्रोत्रं मे तर्पयेति १८

१९ पितरः शुन्धध्वमिति पाण्योरवनेजन ...{Loading}...

पितरः शुन्धध्वमिति पाण्योरवनेजन दक्षिणानिषिच्यानुलिप्य जपेत् । सुचक्षा अहमक्षीभ्यां भूयासं सुवर्चा मुखेन । सुश्रुत्कर्णाभ्यां भूयासमिति १९

२० अहतं वासो धौतम् ...{Loading}...

अहतं वासो धौतं वाऽमौत्रेणाच्छादयीत । परिधास्यै यशोधास्यै दीर्घायुत्वाय जरदष्टिरस्मि । शतं च जीवामि शरदः पुरूचीरायस्पोषमभिसंव्ययिष्य इति २०

२१ अथोत्तरीयम् यशसा मा ...{Loading}...

अथोत्तरीयम् । यशसा मा द्यावापृथिवी यशसेन्द्राबृहस्पती । यशो भगश्च माविन्दद्यशो मा प्रतिपद्यतामिति २१

२२ एकञ्चेत्पूर्वस्योत्तरवर्गेण प्रच्छादयीत ...{Loading}...

एकञ्चेत्पूर्वस्योत्तरवर्गेण प्रच्छादयीत २२

२३ सुमनसः प्रतिगृह्णाति या ...{Loading}...

सुमनसः प्रतिगृह्णाति । या आहरज्जमदग्निः श्रद्धायै मेधायै कामायेन्द्रियाय । ता अहं प्रतिगृह्णामि यशसा च भगेन चेति २३

२४ अथावबध्नीते यद्यशोऽप्सरसामिन्द्रश्चकार विपुलम् ...{Loading}...

अथावबध्नीते यद्यशोऽप्सरसामिन्द्रश्चकार विपुलं पृथु । तेन सङ्ग्रथिताः सुमनस आबध्नामि यशोमयीति २४

२५ उष्णीषेण शिरो वेष्टयते ...{Loading}...

उष्णीषेण शिरो वेष्टयते युवा सुवासा इति २५

२६ अलङ्करणमसि भूयोऽलङ्करणं भूयादिति ...{Loading}...

अलङ्करणमसि भूयोऽलङ्करणं भूयादिति कर्णवेष्टकौ २६

२७ वृत्रस्येत्यङ्क्ते ऽक्षिणी ...{Loading}...

वृत्रस्येत्यङ्क्ते ऽक्षिणी २७

२८ रोचिष्णुरसीत्यात्मानमादर्शे प्रेक्षते ...{Loading}...

रोचिष्णुरसीत्यात्मानमादर्शे प्रेक्षते २८

२९ छत्रं प्रतिगृह्णाति बृहस्पतेश्छदिरसि ...{Loading}...

छत्रं प्रतिगृह्णाति । बृहस्पतेश्छदिरसि पाप्मनो मा मन्तर्धेहि तेजसो यशसो माऽन्तर्धेहीति २९

३० प्रतिष्ठेस्थो विश्वतो मा ...{Loading}...

प्रतिष्ठेस्थो विश्वतो मा पातमित्युपानहौ प्रतिमुञ्चते ३०

३१ विश्वाभ्यो मा नाष्ट्राभ्यस्परिपाहि ...{Loading}...

विश्वाभ्यो मा नाष्ट्राभ्यस्परिपाहि सर्वत इति वैणवं दण्डमादत्ते ३१

३२ दन्तप्रक्षालनादीनि नित्यमपि ...{Loading}...

दन्तप्रक्षालनादीनि नित्यमपि वासश्छत्रोपानहश्चापूर्वाणि चेन्मन्त्रः ३२


  1. 6, 2. See above, chap. 5, 13. ↩︎

  2. See chap. 5, 14. ↩︎

  3. The expressions of the text for the three categories are, vidhi, vidheya, tarka. ↩︎

  4. I.e. with the supplementary treatises on ritual, grammar, astronomy, etymology, pronunciation of the Mantras, and metrics. ↩︎

  5. As to the names of the eight hostile powers of Agni, comp. Śāṅkhāyana-Gṛhya V, 2; Atharva-veda XIV, I, 38; XVI, 1; Mantrabrāhmaṇa I, 7, I. ↩︎

  6. The reading of the Mantra seems to be corrupt. Compare the form in which it is given by Bhavadeva, quoted in Professor Stenzler’s note on this Sūtra. Instead of śriyam we have probably to read, as Bhavadeva has, striyam; instead of akṣyau, akṣān. Professor Stenzler very pertinently compares Atharva-veda XIV, 1, 35. 36. Comp. also Mantrabrāhmaṇa I, 7, 5. ↩︎

  7. In the Mantra the Pāraskara MSS. give bhrājabhṛṣṇuḥ and bhrājabhṛṣṭiḥ, and the Gobhila MSS. (Gṛhya III, 4) bhrājabhṛṣṭibhiḥ. Possibly the instrumental case is right. Böhtlingk and Roth propose to read bhrājadṛṣṭiḥ. ↩︎

  8. Comp. Kātyāyana, Śrauta-sūtra VII, 2, 18, to which Sūtra Professor Stenzler refers. ↩︎

  9. I give this translation merely as tentative. Professor Stenzler translates: Wenn er nur Ein Gewand hat, so bedecke er sich (noch einmal) mit dem oberen Theile des zuerst angelegten. Jayarāma (MS. Chambers 373) says: ekaṃ cet tatrāpi paridhānamantraṃ paṭhitvā vastrārdham paridhāya dvir ācamya uttarārdhe gṛhītvā uttarīyaṃ [sic] mantraṃ paṭhitvottarīyaṃ kṛtvā punar dvir ācamed ity arthaḥ. ↩︎

  10. Hiraṇy.-Gṛhya I, 3, 11, 4. ↩︎

  11. See above, chap. 2, 9. ↩︎