०५

01 अत्र भिक्षाचर्यचरणम् ...{Loading}...

अत्र भिक्षाचर्यचरणम् १

02 भवत्पूर्वां ब्राह्मणो भिक्षेत ...{Loading}...

भवत्पूर्वां ब्राह्मणो भिक्षेत २

03 भवन्मध्यां राजन्यः ...{Loading}...

भवन्मध्यां राजन्यः ३

04 भवदन्त्यां वैश्यः ...{Loading}...

भवदन्त्यां वैश्यः ४

05 तिस्रोऽप्रत्याख्यायिन्यः ...{Loading}...

तिस्रोऽप्रत्याख्यायिन्यः ५

06 षड्द्वादशापरिमिता वा ...{Loading}...

षड्द्वादशापरिमिता वा ६

07 मातरं प्रथमामेके ...{Loading}...

मातरं प्रथमामेके ७

08 आचार्याय भैक्षं निवेदयित्वा ...{Loading}...

आचार्याय भैक्षं निवेदयित्वा वाग्यतोऽहःशेषं तिष्ठेदित्येके ८

09 अहिंसन्नरण्यात्समिध आहृत्य तस्मिन्नग्नौ ...{Loading}...

अहिंसन्नरण्यात्समिध आहृत्य तस्मिन्नग्नौ पूर्ववदाधाय वाचं विसृजते ९

10 अधःशाय्यक्षारालवणाशी स्यात् ...{Loading}...

अधःशाय्यक्षारालवणाशी स्यात् १०

11 दण्डधारणमग्निपरिचरणं गुरुशुश्रूषा भिक्षाचर्या ...{Loading}...

दण्डधारणमग्निपरिचरणं गुरुशुश्रूषा भिक्षाचर्या ११

12 मधुमांसमज्जनोपर्यासनस्त्रीगमनानृतादत्तादानानि ...{Loading}...

मधुमांसमज्जनोपर्यासनस्त्रीगमनानृतादत्तादानानि वर्जयेत् १२

13 अष्टाचत्वारिंशद्वर्षाणि वेदब्रह्मचर्यं चरेत् ...{Loading}...

अष्टाचत्वारिंशद्वर्षाणि वेदब्रह्मचर्यं चरेत् १३

14 द्वादश द्वादश वा ...{Loading}...

द्वादश द्वादश वा प्रतिवेदम् १४

15 यावद्ग्रहणं वा ...{Loading}...

यावद्ग्रहणं वा १५

16 वासांसि शाणक्षौमाविकानि ...{Loading}...

वासांसि शाणक्षौमाविकानि १६

17 ऐणेयमजिनमुत्तरीयं ब्राह्मणस्य ...{Loading}...

ऐणेयमजिनमुत्तरीयं ब्राह्मणस्य १७

18 रौरवं राजन्यस्य ...{Loading}...

रौरवं राजन्यस्य १८

19 आजं गव्यं वा ...{Loading}...

आजं गव्यं वा वैश्यस्य १९

20 सर्वेषां वा गव्यमसति ...{Loading}...

सर्वेषां वा गव्यमसति प्रधानत्वात् २०

21 मौञ्जी रशना ब्राह्मणस्य ...{Loading}...

मौञ्जी रशना ब्राह्मणस्य २१

22 धनुर्ज्या राजन्यस्य ...{Loading}...

धनुर्ज्या राजन्यस्य २२

23 मौर्वी वैश्यस्य ...{Loading}...

मौर्वी वैश्यस्य २३

24 मुञ्जाभावे कुशाश्मन्तकबल्वजानाम् ...{Loading}...

मुञ्जाभावे कुशाश्मन्तकबल्वजानाम् २४

25 पालाशो ब्राह्मणस्य दण्डः ...{Loading}...

पालाशो ब्राह्मणस्य दण्डः २५

26 बैल्वो राजन्यस्य ...{Loading}...

बैल्वो राजन्यस्य २६

27 औदुम्बरो वैश्यस्य ...{Loading}...

औदुम्बरो वैश्यस्य २७

28 केशसम्मितो ब्राह्मणस्य ललाटसम्मितः ...{Loading}...

केशसम्मितो ब्राह्मणस्य ललाटसम्मितः क्षत्रियस्य घ्राणसम्मितो वैश्यस्य सर्वे वा सर्वेषाम् २८

29 आचार्येणाहूत उत्थाय प्रतिशृणुयात् ...{Loading}...

आचार्येणाहूत उत्थाय प्रतिशृणुयात् २९

30 शयानं चेदासीन आसीनम् ...{Loading}...

शयानं चेदासीन आसीनं चेत्तिष्ठंस्तिष्ठन्तं चेदभिक्रामन्नभिक्रामन्तं चेदभिधावन् ३०

31 स एवं वर्तमनोऽमुत्राद्य ...{Loading}...

स एवं वर्तमनोऽमुत्राद्य वसत्यमुत्राद्य वसतीति तस्य स्नातकस्य कीर्तिर्भवति ३१

32 त्रयः स्नातका भवन्ति ...{Loading}...

त्रयः स्नातका भवन्ति विद्यास्नातको व्रतस्नातको विद्याव्रतस्नातक इति ३२

33 समाप्य वेदमसमाप्य व्रतम् ...{Loading}...

समाप्य वेदमसमाप्य व्रतं यः समावर्तते स विद्यास्नातकः ३३

34 समाप्य व्रतमसमाप्य वेदम् ...{Loading}...

समाप्य व्रतमसमाप्य वेदं यः समावर्तते स व्रतस्नातकः ३४

35 उभयं समाप्य यः ...{Loading}...

उभयं समाप्य यः समावर्तते स विद्याव्रतस्नातक इति ३५

36 आ षोडशाद्वर्षाद्ब्राह्मणस्य नातीतः ...{Loading}...

आ षोडशाद्वर्षाद्ब्राह्मणस्य नातीतः कालो भवति ३६

37 आ द्वाविंशाद्राजन्यस्य ...{Loading}...

आ द्वाविंशाद्राजन्यस्य ३७

38 आ चतुर्विंशाद्वैश्यस्य ...{Loading}...

आ चतुर्विंशाद्वैश्यस्य ३८

39 अत ऊर्ध्वं पतितसावित्रीका ...{Loading}...

अत ऊर्ध्वं पतितसावित्रीका भवन्ति ३९

40 नैनानुपनयेयुर्नाध्यापयेयुर्न याजयेयुर्न ...{Loading}...

नैनानुपनयेयुर्नाध्यापयेयुर्न याजयेयुर्न चैभिर्व्यवहरेयुः ४०

41 कालातिक्रमे नियतवत् ...{Loading}...

कालातिक्रमे नियतवत् ४१

42 त्रिपुरुषं पतितसावित्रीकाणामपत्ये संस्कारो ...{Loading}...

त्रिपुरुषं पतितसावित्रीकाणामपत्ये संस्कारो नाध्यापनं च ४२

43 तेषां संस्कारेप्सुर्व्रात्यस्तोमेनेष्ट्वा ...{Loading}...

तेषां संस्कारेप्सुर्व्रात्यस्तोमेनेष्ट्वा काममधीयीरन्व्यवहार्या भवन्तीति वचनात् ४३


  1. 5, 2-4. Comp. Āpastamba I, 3, 28 seqq. (S.B.E., II, p. 12); Manu II, 49, &c. The Brāhmaṇa says, ‘Lady, give alms;’ the Kṣatriya, ‘Give, lady, alms;’ the Vaiśya, ‘Give alms, lady.’ ↩︎

  2. Āśvalāyana-Gṛhya I, 22, 7. ↩︎

  3. Āśvalāyana l.l. §§ 10, 11. ↩︎

  4. The meaning is, he should not break off branches, but only gather such as have fallen off. The words ‘as above’ refer to chap. 4. ↩︎

  5. Gautama II, 13; Āpastamba I, 2, 23. 28-30. 21. 26. ↩︎

  6. Comp. Āpastamba I, 2, 12 seqq.; Āśvalāyana I, 22, 3. ↩︎

  7. Manu II, 43. ↩︎

  8. Comp. Āpastamba I, 30, 1-3; Manu IV, 31. The term of the vows extends through forty-eight (or thirty-six, &c.) p. 311 years; see above, Sūtras 13 and 14, and below, chap. 6, 2. 3. The Samāvartana is the returning home of the student at the end of his studentship. ↩︎

  9. Āśvalāyana-Gṛhya I, 19, 5 seqq. &c. ↩︎

  10. The general rule here alluded to is, according to the commentators, that given by Kātyāyana, Śrauta-sūtra XXV, 1, 12. 13. There it is stated which expiatory oblations have to precede, when a rite that has not been performed, or that has been incorrectly performed, is to be performed for good. ↩︎

  11. Those who have not been initiated in due time, may act as p. 312 stated in Sūtra 41. But if the omission has been perpetuated through three generations, the descendant of such persons is subject to the rules stated in Sūtras 42 and 43. ↩︎

  12. Kātyāyana, after having given the rules on the Vrātyastoma sacrifice (see Weber, Indische Literaturgeschichte, 2nd edition, pp. 73 seq.), says: ‘Intercourse with them (who have performed that sacrifice) is permitted’ (Śraut. XXII, 4, 28). ↩︎