०४

०१ अत्र समिदाधानम् ...{Loading}...

अत्र समिदाधानम् १

०२ पाणिनाऽग्निं परिसमूहति अग्ने ...{Loading}...

पाणिनाऽग्निं परिसमूहति अग्ने सुश्रवः सुश्रवसं मा कुरु यथा त्वमग्ने सुश्रवः सुश्रवा अस्येवं मां सुश्रवः सौश्रवसं कुरु यथा त्वमग्ने देवानां यज्ञस्य निधिपा अस्येवमहं मनुष्याणां वेदस्य निधिपो भूयासमिति २

०३ प्रदक्षिणमग्निं पर्युक्ष्योत्तिष्ठन्त्समिधमादधाति ...{Loading}...

प्रदक्षिणमग्निं पर्युक्ष्योत्तिष्ठन्त्समिधमादधाति अग्नये समिधमहार्ष बृहते जातवेदसे । यथा त्वमग्ने समिधा समिध्यस एवमहमायुषा मेधया वर्च्चसा प्रजया पशुभिर्ब्रह्मवर्चसेन समिन्धे जीवपुत्रो ममाचार्यो मेधाव्यहमसान्यनिराकारिष्णुर्यशस्वी तेजस्वी ब्रह्मवर्चस्यन्नादो भूयासं स्वाहेति ३

०४ एवं द्वितीयां तथा ...{Loading}...

एवं द्वितीयां तथा तृतीयाम् ४

०५ एषात इति वा ...{Loading}...

एषात इति वा समुच्चयो वा ५

०६ पूर्ववत्परिसमूहनपर्युक्षणे ...{Loading}...

पूर्ववत्परिसमूहनपर्युक्षणे ६

०७ पाणी प्रतप्य मुख ...{Loading}...

पाणी प्रतप्य मुख विमृष्टे तनूपा अग्नेऽसि तन्वं मे पाह्यायुर्दा अग्नेऽस्यायुर्मे देहि व्वर्चोदा अग्नेऽसि व्वर्चो मे देहि । अग्ने यन्मे तन्वा ऊनं तन्म आपृण ७

०८ मेधां मे देवः ...{Loading}...

मेधां मे देवः सविता आदधातु मेधां मे देवी सरस्वती आदधातु मेधामश्विनौ देवावाधत्तां पुष्करस्रजाविति ८

04 अङ्गान्यालभ्य जपत्यङ्गानि च ...{Loading}...

अङ्गान्यालभ्य जपत्यङ्गानि च म आप्यायन्तां वाक्प्राणश्चक्षुः श्रोत्रंयशोबलमिति त्र्यायुषाणि करोति भस्मना ललाटे ग्रीवायां दक्षिणेंसे हृदि च त्र्यायुषमिति प्रतिमन्त्रम् ४


  1. 4, 2. Comp. Āśvalāyana-Gṛhya I, 22, 21. ↩︎

  2. As to anirākaṛṣṇu, comp. anirākaraṇa below, III, 16. ↩︎

  3. See above, Sūtras 2, 3. ↩︎