०३

०१ प्रदक्षिणमग्निं परीत्योपविशति ...{Loading}...

प्रदक्षिणमग्निं परीत्योपविशति १

०२ अन्वारब्ध आज्याहुतीर्हुत्वा प्राशनान्तेऽथैनम् ...{Loading}...

अन्वारब्ध आज्याहुतीर्हुत्वा प्राशनान्तेऽथैनं संशास्ति ब्रह्मचार्यस्यपोशान कर्म कुरु मा दिवा सुषुप्था वाचं यच्छ समिधमाधेह्यपोशानेति २

०३ अथाऽस्मै सावित्रीममन्वाहोत्तरतोऽग्नेः ...{Loading}...

अथाऽस्मै सावित्रीममन्वाहोत्तरतोऽग्नेः प्रत्यङ्मुखायोपविष्टायोपसन्नाय समीक्षमाणाय समीक्षिताय ३

०४ दक्षिणतस्तिष्ठत आसीनाय वैके ...{Loading}...

दक्षिणतस्तिष्ठत आसीनाय वैके ४

०५ पच्छोर्द्धर्चशः सर्वां च ...{Loading}...

पच्छोर्द्धर्चशः सर्वां च तृतीयेन सहानुवर्तयन् ५

०६ संवत्सरे षण्मास्ये चतुर्विंशत्यहे ...{Loading}...

संवत्सरे षण्मास्ये चतुर्विंशत्यहे द्वादशाहे षडहे त्र्यहे वा ६

०७ सद्यस्त्वेव गायत्रीं ब्राह्मणायानुब्रूयादाग्नेयो ...{Loading}...

सद्यस्त्वेव गायत्रीं ब्राह्मणायानुब्रूयादाग्नेयो वै ब्राह्मण इति श्रुतेः ७

०८ त्रिष्टुभं राजन्यस्य ...{Loading}...

त्रिष्टुभं राजन्यस्य ८

०९ जगतीं वैश्यस्य ...{Loading}...

जगतीं वैश्यस्य ९

१० सर्वेषां वा गायत्रीम् ...{Loading}...

सर्वेषां वा गायत्रीम् १०


  1. 3, 1 seqq. Comp. the corresponding section of the Śatapatha Brāhmaṇa XI, 5, 4, 6 seqq. ↩︎

  2. Śatapatha Brāhmaṇa l.l. § 14. ↩︎

  3. Śatapatha Brāhmaṇa l.l. § 12. ↩︎