०२

01 अष्टवर्षं ब्राह्मणमुपनयेद्गर्भाष्टमे वा ...{Loading}...

अष्टवर्षं ब्राह्मणमुपनयेद्गर्भाष्टमे वा १

02 एकादशवर्षं राजन्यम् ...{Loading}...

एकादशवर्षं राजन्यम् २

03 द्वादशवर्षं वैश्यम् ...{Loading}...

द्वादशवर्षं वैश्यम् ३

04 यथामङ्गलं वा सर्वेषाम् ...{Loading}...

यथामङ्गलं वा सर्वेषाम् ४

05 ब्राह्मणान्भोजयेत्तं च पर्युप्तशिरसमलङ्कृतमानयन्ति ...{Loading}...

ब्राह्मणान्भोजयेत्तं च पर्युप्तशिरसमलङ्कृतमानयन्ति ५

06 पश्चादग्नेरवस्थाप्य ब्रह्मचर्यमागामिति वाचयति ...{Loading}...

पश्चादग्नेरवस्थाप्य ब्रह्मचर्यमागामिति वाचयति ब्रह्मचार्यसानीति च ६

07 अथैनं वासः परिधापयति ...{Loading}...

अथैनं वासः परिधापयति येनेन्द्राय बृहस्पतिर्वासः पर्यदधादमृतं तेन त्वा परिदधाम्यायुषे दीर्घायुत्वाय बलाय वर्चस इति ७

08 मेखलां बध्नीते इयम् ...{Loading}...

मेखलां बध्नीते । इयं दुरुक्तम् परिबाधमाना वर्णं पवित्रं पुनती म आगात् । प्राणापानाभ्यां बलमादधाना स्वसा देवी सुभगा मेखलेयमिति ८

09 युवासुवासाः परिवीत आगात्स ...{Loading}...

युवासुवासाः परिवीत आगात्स उ श्रेयान्भवति जायमानः । तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्त इति वा ९

10 तूष्णीं वा ...{Loading}...

तूष्णीं वा १०

11 यज्ञोपवीतं परमं पवित्रम् ...{Loading}...

यज्ञोपवीतं परमं पवित्रं ...{Loading}...

य॒ज्ञो॒प॒वी॒तं प॑र॒मं प॒वित्रं॑
प्र॒जाप॑ति॒र् यत् स॑ह॒जं पु॒रस्ता॑त् ।
आ॒यु॒ष्य॑म् अ॒ग्र्यं॑ प्रति॑मुञ्च शु॒भ्रं
य॑ज्ञोपवी॒तं बल॑म् अस्तु॒ तेजः॑ ॥

छन्द-आदि (द्रष्टुं नोद्यम्)

यज्ञोपवीत-धारण-महा-मन्त्रस्य
ब्रह्म र्षिः,
त्रिष्टुप् च्छन्दः
त्रयी विद्या देवता ।
यज्ञोपवीतधारणे विनियोगः ।

यज्ञोपवीतम् असि,
“यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामी"त्यथाजिनं प्रयच्छति

मित्रस्यचक्षुर्द्धरुणं बलीयस्
तेजो यसस्वि स्थविरं समिद्धं
अनाहनस्यं वसनं जरिष्णुः
परीदं वाज्य्-अजिनं दधेऽहम्

इति दण्डं प्रयच्छति ११

12 तं प्रतिगृह्णाति यो ...{Loading}...

तं प्रतिगृह्णाति यो मे दण्डः परापतद्वैहायसोऽधिभूम्यां तमहं पुनरादद आयुषे ब्रह्मणे ब्रह्मवर्चसायेति १२

13 दीक्षावदेके दीर्घसत्रमुपैतीति वच ...{Loading}...

दीक्षावदेके दीर्घसत्रमुपैतीति वच नात् १३

14 अथास्याद्भिरञ्चलिनाऽञ्जलिं पूरयति आपोहिष्ठेति ...{Loading}...

अथास्याद्भिरञ्चलिनाऽञ्जलिं पूरयति आपोहिष्ठेति तिसृभिः १४

15 अथैनं सूर्यमुदीक्षयति तच्चक्षुरिति ...{Loading}...

अथैनं सूर्यमुदीक्षयति तच्चक्षुरिति १५

16 अथास्य दक्षिणां समधि ...{Loading}...

अथास्य दक्षिणां समधि हृदयमालभते । मम व्रते ते हृदयं दधामि । मम चित्तमनुचित्तं ते अस्तु मम वाचमेकमना जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यमिति १६

17 आथास्य दक्षिणं हस्तम् ...{Loading}...

आथास्य दक्षिणं हस्तं गृहीत्वाऽऽह को नामासीति १७

18 असावहं भो३ इति ...{Loading}...

असावहं भो३ इति प्रत्याह १८

19 आथैनमाह कस्य ब्रह्मचार्यसीति ...{Loading}...

आथैनमाह कस्य ब्रह्मचार्यसीति १९

20 भवत इत्युच्यमान इन्द्रस्य ...{Loading}...

भवत इत्युच्यमान इन्द्रस्य ब्रह्मचार्यस्यग्निराचार्यस्तवाहमाचार्यस्तवासाविति २०

21 अथैनं भूतेभ्यः परिददाति ...{Loading}...

अथैनं भूतेभ्यः परिददाति प्रजापतये त्वा परिददामि देवाय त्वा सवित्रे परिददाम्यद्भ्यस्त्वौषधीभ्यः परिददामि द्यावापृथिवीभ्यां त्वा परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा भूतेभ्यः परिददाम्यरिष्ट्या इति २१


  1. 6 seqq. Comp. Śatapatha Brāhmaṇa XI, 5, 4. ↩︎

  2. The commentators differ as to whether the Ācārya or the youth should recite the verse. The comparison of Śāṅkhāyana II, 2, 1 would rather tend to show that it is the teacher, but Gobhila II, 10 says expressly: athainaṃ triḥ pradakṣiṇaṃ muñjamekhalāṃ pariharan vācayatīyaṃ duruktāt paribādhamānety ṛtasya goptrīti vā. ↩︎

  3. Rig-veda III, 8, 4. The verse is originally addressed to Agni. ↩︎

  4. Śatapatha Brāhmaṇa XI, 3, 3, 2: ‘He enters upon a long Sattra, who enters upon Brahmacarya.’ The student, when being initiated, ought to behave, consequently, in the same way as those who receive the inauguration (dīkṣā) for a long Sattra. This is the meaning of this Sūtra. The rules regarding the staff handed over by the Adhvaryu to the Yajamāna at the dīkṣā ceremony are given by Kātyāyana, Śrauta-sūtra VII, 4, 1-4. ↩︎

  5. See above, I, 8, 7. ↩︎

  6. See above, I, 8, 8. ↩︎

  7. 17 seqq. Comp. Śatapatha Brāhmaṇa XI, 5, 4, 1 seqq. ↩︎

  8. The words ‘I am thy teacher’ are omitted in one of Professor Stenzler’s MSS. and in his translation. But they are given in the parallel passage of the Śatapatha Brāhmaṇa. The p. 306 parallel passage in Śāṅkhāyana (Gṛhya II, 3, 1) also runs thus: Agnir ācāryas tava, asāv, ahaṃ cobhau. ↩︎