१९

०१ षष्ठे मासेऽन्नप्राशनम् ...{Loading}...

षष्ठे मासेऽन्नप्राशनम् १

०२ स्थालीपाकं श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुती ...{Loading}...

स्थालीपाकं श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुती जुहोति देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु स्वाहेति २

०३ वाजो नो अद्येति ...{Loading}...

वाजो नो अद्येति च द्वितीयाम् ३

०४ स्थालीपाकस्य जुहोति प्राणेनान्नमशीय ...{Loading}...

स्थालीपाकस्य जुहोति प्राणेनान्नमशीय स्वाहाऽपानेन गन्धानशीय स्वाहा चक्षुषा रूपाण्यशीय स्वाहा श्रोत्रेण यशोऽशीय स्वाहेति ४

०५ प्राशनान्ते सर्वान् रसान्त्सर्वमन्नमेकत ...{Loading}...

प्राशनान्ते सर्वान् रसान्त्सर्वमन्नमेकत उद्धृत्याथैनं प्राशयेत् ५

०६ तूष्णीं हन्तेति वा ...{Loading}...

तूष्णीं हन्तेति वा हन्तकारं मनुष्या इति श्रुतेः ६

०७ भारद्वाज्यामांसेन वाक्प्रसारकामस्य ...{Loading}...

भारद्वाज्यामांसेन वाक्प्रसारकामस्य ७

०८ कपिञ्जलमांसेनान्नाद्यकामस्य ...{Loading}...

कपिञ्जलमांसेनान्नाद्यकामस्य ८

०९ मत्स्यैर्जवनकामस्य ...{Loading}...

मत्स्यैर्जवनकामस्य ९

१० कृकषाया आयुष्कामस्य ...{Loading}...

कृकषाया आयुष्कामस्य १०

११ आट्या ब्रह्मवर्चसकामस्य ...{Loading}...

आट्या ब्रह्मवर्चसकामस्य ११

१२ सर्वैः सर्वकामस्य ...{Loading}...

सर्वैः सर्वकामस्य १२

१३ अन्नपर्याय वा ततो ...{Loading}...

अन्नपर्याय वा ततो ब्राह्मणभोजनमन्नपर्याय वा ततो ब्राह्मणभोजनम् १३


  1. Rig-veda VIII 100, 11. ↩︎

  2. Bṛhad Āraṇyaka V, 8. ↩︎