१८

०१ प्रोष्येत्य गृहानुपतिष्ठते पूर्ववत् ...{Loading}...

प्रोष्येत्य गृहानुपतिष्ठते पूर्ववत् १

०२ पुत्रं दृष्ट्वा जपति ...{Loading}...

पुत्रं दृष्ट्वा जपति अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे । आत्मा वै पुत्रनामाऽसि स जीव शरदः शतमिति २

०३ अथास्य मूर्द्धानमवजिघ्रति प्रजापतेष्ट्वा ...{Loading}...

अथास्य मूर्द्धानमवजिघ्रति । प्रजापतेष्ट्वा हिङ्कारेणावजिघ्रामि सहस्रायुषाऽसौ जीव शरदः शतमिति ३

०४ गवां त्वा हिङ्कारेणेति ...{Loading}...

गवां त्वा हिङ्कारेणेति च त्रिर्दक्षिणेऽस्य कर्णे जपति ।

०५ अस्मे प्रयन्धि मघवन्नृजीषिन्निन्द्ररायोविश्ववारस्य ...{Loading}...

अस्मे प्रयन्धि मघवन्नृजीषिन्निन्द्ररायोविश्ववारस्य भूरेः । अस्मे शतं शरदो जीवसे धा अस्मै वीराञ्च्छश्वत इन्द्र शिप्रिन्निति ४

०६ इन्द्र श्रेष्ठानि द्रविणानि ...{Loading}...

इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे । पोषं रयीणामरिष्टिं तनूनां स्वात्मानं वाचः सुदिनत्वमह्नामिति सव्ये ५

०७ स्त्रियै तु मूर्द्धानमेवावजिघ्रति ...{Loading}...

स्त्रियै तु मूर्द्धानमेवावजिघ्रति तूष्णीम् ६


  1. 18, 1. See Kātyāyana, Śrauta-sūtra IV, 12, 22 seq.: With the words, ‘House, be not afraid,’ &c. (Vāj. Saṃh. III, 41) he approaches the house. With, ‘For peace you’ (III, 43) he enters it. ↩︎

  2. Rig-veda III, 36, 10. ↩︎

  3. Rig-veda II, 21, 6. ↩︎