१७

०१ दशम्यामुत्थाप्य ब्राह्मणान्भोजयित्वा पिता ...{Loading}...

दशम्यामुत्थाप्य ब्राह्मणान्भोजयित्वा पिता नाम करोति १

०२ द्व्यक्षरं चतुरक्षरं वा ...{Loading}...

द्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानं कृतं कुर्यान्न तद्धितम् २

०३ अयुजाक्षरमाकारान्तं स्त्रियै तद्धितम् ...{Loading}...

अयुजाक्षरमाकारान्तं स्त्रियै तद्धितम् ३

०४ शर्म ब्राह्मणस्य वर्म ...{Loading}...

शर्म ब्राह्मणस्य वर्म क्षत्रियस्य गुप्तेति वैश्यस्य ४

०५ चतुर्थे मासि निष्क्रमणिका ...{Loading}...

चतुर्थे मासि निष्क्रमणिका ५

०६ सूर्यमुदीक्षयति तच्चक्षुरिति ...{Loading}...

सूर्यमुदीक्षयति तच्चक्षुरिति ६


  1. 17, 1. Comp. Gobhila II, 8, 14; Āśvalāyana I, 15, 4. ↩︎