१६

०१ सोष्यन्तीमद्भिरभ्युक्षति एजतु दशमास्य ...{Loading}...

सोष्यन्तीमद्भिरभ्युक्षति । एजतु दशमास्य इति प्राग्यस्यै त इति १

०२ अथावरावपतनम् अवैतु पृश्निशेवलम् ...{Loading}...

अथावरावपतनम् । अवैतु पृश्निशेवलं शुनेजराय्वत्तवे । नैव मांसेन पीवसि न कस्मिंश्चनायतनमवजरायुपद्यतामिति २

०३ जातस्य कुमारस्याच्छिन्नायां नाड्याम् ...{Loading}...

जातस्य कुमारस्याच्छिन्नायां नाड्यां मेधाजननायुष्ये करोति ३

०४ अनामिकया सुवर्णान्तर्हितया मधुघृते ...{Loading}...

अनामिकया सुवर्णान्तर्हितया मधुघृते प्राजयति घृतं वा भूस्त्वयि दधामि भुवस्त्वयि दधामि स्वस्त्वयि दधामि भूर्भुवः स्वः सर्वं त्वयि दधामीति ४

०५ अथास्यायुष्यं करोति ...{Loading}...

अथास्यायुष्यं करोति ५

०६ नाभ्यां दक्षिणे वा ...{Loading}...

नाभ्यां दक्षिणे वा कर्णे जपति अग्निरायुष्मान्त्स वनस्पतिभिरायुष्मांस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । सोम आयुष्मान्त्स ओषधीभिरायुष्मांस्तेनत्वाऽऽयुषाऽऽयुष्मन्तं करोमि । ब्रह्मायुष्मत्तद्ब्राह्मणैरायुष्मत्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । देवा आयुष्मन्तरतेऽमृतेनायुष्मन्तस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । ऋषय आयुष्मन्तस्ते व्रतैरायुष्मन्तस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । पितर आयुष्मन्तस्ते स्वधाभिरायुष्मन्तस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । यज्ञ आयुष्मान्त्स दक्षिणाभिरायुष्मांस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । समुद्र आयुष्मान्त्स स्रवन्तीभिरायुष्मांस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमीति ६

०७ त्रिस्त्रिस्त्र्यायुषमिति च ...{Loading}...

त्रिस्त्रिस्त्र्यायुषमिति च ७

०८ स यदि कामयेत ...{Loading}...

स यदि कामयेत सर्वमायुरियादिति वात्सप्रेणैनमभिमृशेत् ८

०९ दिवस्परीत्येतस्यानुवाकस्योत्तमामृचं परिशिनष्टि ...{Loading}...

दिवस्परीत्येतस्यानुवाकस्योत्तमामृचं परिशिनष्टि ९

१० प्रतिदिशं पञ्च ब्राह्मणानवस्थाप्य ...{Loading}...

प्रतिदिशं पञ्च ब्राह्मणानवस्थाप्य ब्रूयादिममनुप्राणितेति १०

११ पूर्वो ब्रूयात्प्राणेति ...{Loading}...

पूर्वो ब्रूयात्प्राणेति ११

१२ व्यानेतिदक्षिणः ...{Loading}...

व्यानेतिदक्षिणः १२

१३ अपानेत्यपरः ...{Loading}...

अपानेत्यपरः १३

१४ उदानेत्युत्तरः ...{Loading}...

उदानेत्युत्तरः १४

१५ समानेति पञ्चम उपरिष्टादवेक्षमाणो ...{Loading}...

समानेति पञ्चम उपरिष्टादवेक्षमाणो ब्रूयात् १५

१६ स्वयम् वा कुर्यादनुपरिक्राममविद्यमानेषु ...{Loading}...

स्वयम् वा कुर्यादनुपरिक्राममविद्यमानेषु १६

१७ स यस्मिन्देशे जातो ...{Loading}...

स यस्मिन्देशे जातो भवति तमभिमन्त्रयते वेद ते भूमि हृदयं दिवि चन्द्रमसि श्रितम् । वेदाहं तन्मां तद्विद्यात्पश्येम शरदः शतं जीवेम शरदः शतं शृणुयाम शरदः शतमिति १७

१८ अथैनमभिमृशत्यश्मा भव परशुर्भव ...{Loading}...

अथैनमभिमृशत्यश्मा भव परशुर्भव हिरण्यमस्रुतं भव । आत्मा वै पुत्रनामाऽसि स जीव शरदः शतमिति १८

१९ अथास्य मातरमभिमन्त्रयत इडासि ...{Loading}...

अथास्य मातरमभिमन्त्रयत इडासि मैत्रावरुणी वीरे वीरमजीजनथाः । सा त्वं वीरवती भव याऽस्मान्वीरवतोऽकरदिति १९

२० अथास्यै दक्षिणं स्तनम् ...{Loading}...

अथास्यै दक्षिणं स्तनं प्रक्षाल्य प्रयच्छतीमं स्तनमिति २०

२१ यस्ते स्तन इत्युत्तरमेताभ्याम् ...{Loading}...

यस्ते स्तन इत्युत्तरमेताभ्याम् २१

२२ उदपात्रं शिरस्तो निदधात्यापो ...{Loading}...

उदपात्रं शिरस्तो निदधात्यापो देवेषु जाग्रथ यथा देवेषु जाग्रथ । एवमस्यां सूतिकायांसपुत्रिकायां जाग्रथेति २२

२३ द्वारदेशे सूतिकाग्निमुपसमाधायोत्थानात्सन्धिवेलयोः ...{Loading}...

द्वारदेशे सूतिकाग्निमुपसमाधायोत्थानात्सन्धिवेलयोः फलीकरणमिश्रान्सर्षपानग्नावावपति शण्डामर्क्का उपवीरः शौण्डिकेय उलूखलः । मलिम्लुचो द्रोणासश्च्यवनो नश्यतादितः स्वाहा । आलिखन्ननिमिषः किंवदन्त उपश्रुतिर्हर्यक्षः कुम्भी शत्रुः पात्रपाणिर्नृमणिर्हन्त्रीमुखः सर्षपारुणश्च्यवनो नश्यतादितः स्वाहेति २३

२४ यदि कुमार उपद्रवेज्जालेन ...{Loading}...

यदि कुमार उपद्रवेज्जालेन प्रच्छाद्योत्तरीयेण वा पिताऽङ्क आधाय जपति कूर्कुरः सुकूर्कुरः कूर्कुरो बालबन्धनः । चेच्चेच्छुनक सृज नमस्ते अस्तु सीसरो लपेतापह्वर तत्सत्यम् । यत्ते देवा वरमददुः स त्वं कुमारमेव वा वृणीथाः । चेच्चेच्छुनक सृज नमस्ते अस्तु सीसरो लपेतापह्वर तत्सत्यम् । यत्ते सरमा माता सीसरः पिता श्यामशबलौ भ्रातरौ चेच्चेच्छुनक सृज नमस्ते अस्तु सीसरो लपेतापह्वरेति २४

२५ अभिमृशति न नामयति ...{Loading}...

अभिमृशति न नामयति न रुदति न हृष्यति न ग्लायति यत्र वयं वदामो यत्र चाभिमृशामसीति २५


  1. 16, 1. Śatapatha Brāhmaṇa XIV, 9, 4, 22. ↩︎

  2. Atharva-veda I, II, 4. ↩︎

  3. Comp. Śatapatha Brāhmaṇa XIV, 9, 4, 23 seqq. (Bṛhad Āraṇyaka VI, 4, 24 seqq.; S.B.E., XV, 222 seq.). The text has anāmikayā suvarṇāntarhitayā, which literally is: with the nameless (or fourth) finger, between which (and the food) gold has been put. ↩︎

  4. 11 seqq. In translating the technical terms for the different kinds of breath, I adopt the expressions chosen by Professor Max Müller, S.B.E., XV, 94. As to the whole rite, comp. Śatap. Br. XI, 8, 3, 6. ↩︎

  5. Comp. above, I, 11, 9. The comparison of the parallel Mantra leaves scarcely any doubt that veda (the first word of the verse) is the first, not the third person, and bhūmi the vocative case. Compare the vocative darvi of the Vāj. Saṃhitā, while the Atharva-veda has darve. Lanman, Noun-Inflection, p. 390. ↩︎

  6. Śatapatha Brāhmaṇa XIV, 9, 4, 26; Āśvalāyana I, 15, 3. ↩︎

  7. Śatapatha Brāhmaṇa l.l. § 27. Comp. Professor Max Müller’s note, S.B.E., XV, 223 seq. ↩︎

  8. Śatapatha Brāhmaṇa l.1. § 28. ↩︎

  9. On the sūtikāgni, comp. Śatap. Br. l.l. § 23; Śāṅkhāyana-Gṛhya I, 25, 4, &c. ↩︎

  10. Kūrkura seems to me, and this is also Professor Stenzler’s p. 297 opinion, identical with kurkura, kukkura (‘dog’). The Petersburg Dictionary explains it, ‘Name eines die Kinder bedrohenden Dämons (vielleicht eine Personification des Hustens).’ ↩︎