१५

०१ अथ सीमन्तोन्नयनम् ...{Loading}...

अथ सीमन्तोन्नयनम् १

०२ पुंसवनवत् ...{Loading}...

पुंसवनवत् २

०३ प्रथमगर्भे मासे षष्ठेऽष्टमे ...{Loading}...

प्रथमगर्भे मासे षष्ठेऽष्टमे वा ३

०४ तिलमुद्गमिश्रं स्थालीपाकं श्रपयित्वा ...{Loading}...

तिलमुद्गमिश्रं स्थालीपाकं श्रपयित्वा प्रजापतेर्हुत्वा पश्चादग्नेर्भद्रपीठ उपविष्टाया युग्मेन सटालुग्रप्सेनौदुम्बरेण त्रिभिश्च दर्भपिञ्जूलैस्त्र्येण्या शलल्या वीरतरशङ्कुना पूर्णचात्रेण च सीमन्तमूर्ध्वं विनयति भूर्भुवः स्वरिति ४

०५ प्रतिमहाव्याहृतिभिर्वा ...{Loading}...

प्रतिमहाव्याहृतिभिर्वा ५

०६ त्रिवृतमाबध्नाति अयमूर्जावतो वृक्ष ...{Loading}...

त्रिवृतमाबध्नाति । अयमूर्जावतो वृक्ष उर्जीव फलिनी भवेति ६

०७ अथाह वीणागाथिनौ राजानम् ...{Loading}...

अथाह वीणागाथिनौ राजानं सङ्गायेताम् यो वाऽप्यन्यो वीरतर इति ७

०८ नियुक्तामप्येके गाथामुपोदाहरन्ति सोम ...{Loading}...

नियुक्तामप्येके गाथामुपोदाहरन्ति । सोम एव नो राजेमा मानुषीः प्रजाः । अविमुक्तचक्र आसीरंस्तीरे तुभ्यमसाविति यां नदीमुपावसिता भवति तस्या नाम गृह्णाति ८

०९ ततो ब्राह्मणभोजनम् ...{Loading}...

ततो ब्राह्मणभोजनम् ९


  1. 15, 2. I.e. the Nakṣatra under which the ceremony is performed, should be of male gender; the wife is to fast, &c. (see chap. 14, 3). ↩︎

  2. Śāṅkhāyana-Gṛhya I, 22, 8; Āśvalāyana I, 14, 4. ↩︎

  3. Śāṅkhāyana I, 22, 10. ↩︎

  4. Śāṅkhāyana l.l. §§ 11, 12; Āśvalāyana l.l. § 6. ↩︎

  5. Āśvalāyana l.l. § 7. I take avimuktacakre to be the vocative of the feminine. ↩︎