१२

०१ पक्षादिषु स्थालीपाकं श्रपयित्वा ...{Loading}...

पक्षादिषु स्थालीपाकं श्रपयित्वा दर्शपूर्णमासदेवताभ्यो हुत्वा जुहोति ब्रह्मणे प्रजापतये विश्वेभ्यो देवेभ्यो द्यावापृथिवीभ्यामिति १

०२ विश्वेभ्यो देवेभ्यो बलिहरणम् ...{Loading}...

विश्वेभ्यो देवेभ्यो बलिहरणं भूतगृह्येभ्य आकाशाय च २

०३ वैश्वदेवस्याग्नौ जुहोत्यग्नये स्वाहा ...{Loading}...

वैश्वदेवस्याग्नौ जुहोत्यग्नये स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहाग्नये स्विष्टकृते स्वाहेति ३

०४ बाह्यतः स्त्रीबलिं हरति ...{Loading}...

बाह्यतः स्त्रीबलिं हरति नमः स्त्रियै नमः पुंसे वयसेऽवयसे नमः शुक्लाय कृष्णदन्ताय पापीनां पतये । नमः ये मे प्रजामुपलोभयन्ति ग्रामे वसन्त उत वाऽरण्ये तेभ्यो नमोऽस्तु बलिमेभ्यो हरामि स्वस्ति मेऽस्तु प्रजां मे ददत्विति ४

०५ शेषमद्भिः प्रप्लाव्य ततो ...{Loading}...

शेषमद्भिः प्रप्लाव्य ततो ब्राह्मणभोजनम् ५


  1. 12, 1. Comp. Śāṅkhāyana-Gṛhya I, 3, 3. The deities of the corresponding Śrauta festivals are, at the full moon, Agni and Agnī-shomau; at the new moon, Agni, Viṣṇu, and Indrāgnī. ↩︎

  2. Comp. below, II, 9, 3. ↩︎

  3. Śāṅkhāyana-Gṛhya II, 14, 3, 4. ↩︎