११

०१ चतुर्थ्यामपररात्रेऽभ्यन्तरतोऽग्निमुपसमाधाय ...{Loading}...

चतुर्थ्यामपररात्रेऽभ्यन्तरतोऽग्निमुपसमाधाय दक्षिणतो ब्रह्माणमुपवेश्योत्तरत उदपात्रं प्रतिष्ठाप्य स्थालीपाकं श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति १

०२ अग्ने प्रायश्चित्ते त्वम् ...{Loading}...

अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै पतिघ्नी तनूस्तामस्यै नाशय स्वाहा । वायो प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै प्रजाघ्नी तनूस्तामस्यै नाशय स्वाहा । सूर्यप्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै पशुघ्नी तनूस्तामस्यै नाशय स्वाहा । चन्द्र प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै गृहघ्नी तनूस्तामस्यै नाशय स्वाहा । गन्धर्व प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै यशोघ्नी तनूस्तामस्यै नाशय स्वाहेति २

०३ स्थालीपाकस्य जुहोति प्रजापतये ...{Loading}...

स्थालीपाकस्य जुहोति प्रजापतये स्वाहेति ३

०४ हुत्वा हुत्वैतासामाहुतीनामुदपात्रे ...{Loading}...

हुत्वा हुत्वैतासामाहुतीनामुदपात्रे संस्रवान्त्समवनीय तत एनां मूर्द्धन्यभिषिञ्चति । याते पतिघ्नी प्रजाघ्नी पशुघ्नी गृहघ्नी यशोघ्नी निन्दिता तनूर्जारघ्नीं तत एनां करोमि सा जीर्य त्वं मया सहासाविति ४

०५ अथैनां स्थालीपाकं प्राशयति ...{Loading}...

अथैनां स्थालीपाकं प्राशयति प्राणैस्ते प्राणान्त्सन्दधाभ्यस्थिभिरस्थीनि मांसैर्मांसानि त्वचा त्वचमिति ५

०६ तस्मादेवंविच्छ्रोत्रियस्य दारेण नोपहासमिच्छेदुत ...{Loading}...

तस्मादेवंविच्छ्रोत्रियस्य दारेण नोपहासमिच्छेदुत ह्येवंवित्परो भवति ६

०७ तामुदुह्य यथर्तु प्रवेशनम् ...{Loading}...

तामुदुह्य यथर्तु प्रवेशनम् ७

०८ यथाकामी वा काममाविजनितोः ...{Loading}...

यथाकामी वा काममाविजनितोः सम्भवामेति वचनात् ८

०९ अथास्यै दक्षिणां समधिहृदयमालभते ...{Loading}...

अथास्यै दक्षिणां समधिहृदयमालभते । यत्ते सुसीमे हृदयं दिवि चन्द्रमसि श्रितम् । वेदाहं तन्मां तद्विद्यात्पश्येम शरदः शतं जीवेम शरदः शतं शृणुयाम शरदः शतमिति ९

१० एवमत ऊर्ध्वम् ...{Loading}...

एवमत ऊर्ध्वम् १०


  1. 11, 2. Comp. Śāṅkhāyana-Gṛhya I, 18, 3. ↩︎

  2. The water-pot is that mentioned in Sūtra 1. ↩︎

  3. Śatapatha Brāhmaṇa I, 6, 1, 18; XIV, 9, 4, II (= Bṛhad Āraṇyaka VI, 4, 12; Sacred Books of the East, vol. xv, p. 218). ↩︎

  4. Taittirīya Saṃhitā II, 5, 1, 5. ↩︎

  5. See above, chap. 8, 8. ↩︎