१०

०१ राज्ञोऽक्षभेदे नद्धविमोक्षे यानविपर्यासेऽन्यस्याम् ...{Loading}...

राज्ञोऽक्षभेदे नद्धविमोक्षे यानविपर्यासेऽन्यस्यां वा व्यापत्तौ स्त्रियाश्चोद्वहने तमेवाग्निमुपसमाधायाज्यं संस्कृत्येहरतिरिति जुहोति नानामन्त्राभ्याम् १

०२ अन्यद्यानमुपकल्प्य तत्रोपवेशयेद्राजानं स्त्रियम् ...{Loading}...

अन्यद्यानमुपकल्प्य तत्रोपवेशयेद्राजानं स्त्रियं वा प्रतिक्षत्र इति यज्ञान्तेनात्वाहार्षमिति चैतया २

०३ धुर्यौ दक्षिणा ...{Loading}...

धुर्यौ दक्षिणा ३

०४ प्रायश्चित्तिः ...{Loading}...

प्रायश्चित्तिः ४

०५ ततो ब्राह्मणभोजनम् ...{Loading}...

ततो ब्राह्मणभोजनम् ५


  1. 10, 1. ‘The same fire’ is the senāgni (the fire belonging to the army) in the case of the king, the nuptial fire in the second case. The two Mantras are the two parts of Vāj. Saṃh. VIII, 51 a. ↩︎