०८

०१ अथैनामुदीचीं सप्तपदानि प्रक्रामयति ...{Loading}...

अथैनामुदीचीं सप्तपदानि प्रक्रामयति एकमिषे द्वे ऊर्जे त्रीणि रायस्पोषाय चत्वारि मायोभवाय पञ्च पशुभ्यः षड् ऋतुभ्यः सखे सप्तपदा भव सा मामनुव्रता भव १

०२ विष्णुस्त्वानयत्विति सर्वत्रानुषजति ...{Loading}...

विष्णुस्त्वानयत्विति सर्वत्रानुषजति २

०३ निष्क्रमणप्रभृत्युदकुम्भं स्कन्धे कृत्वा ...{Loading}...

निष्क्रमणप्रभृत्युदकुम्भं स्कन्धे कृत्वा दक्षिणतोऽग्नेर्वाग्यतः स्थितो भवति ३

०४ उत्तरत एकेषाम् ...{Loading}...

उत्तरत एकेषाम् ४

०५ तत एनां मूर्द्धन्यभिषिञ्चति ...{Loading}...

तत एनां मूर्द्धन्यभिषिञ्चति आपः शिवाः शिवतमाः शान्ताः शान्ततमास्तास्ते कृण्वन्तु भेषजमिति ५

०६ आपोहिष्ठेति च तिसृभिः ...{Loading}...

आपोहिष्ठेति च तिसृभिः ६

०७ अथैनां सूर्यमुदीक्षयति तच्चक्षुरिति ...{Loading}...

अथैनां सूर्यमुदीक्षयति तच्चक्षुरिति ७

०८ अथास्यै दक्षिणां समधिहृदयमालभते ...{Loading}...

अथास्यै दक्षिणां समधिहृदयमालभते मम व्रते ते हृदयं दधामि मम चित्तमनुचित्तं ते अस्तु मम वाचमेकमना जुषस्व प्रजापतिष्ट्वा नियुनक्तु मह्यमिति ८

०९ अथैनामभिमन्त्रयते सुमङ्गलीरियम् वधूरिमाम् ...{Loading}...

अथैनामभिमन्त्रयते सुमङ्गलीरियम् वधूरिमां समेत पश्यत सौभाग्यमस्यै दत्वायाथास्तं विपरेतनेति ९

१० तां दृढपुरुष उन्मथ्य ...{Loading}...

तां दृढपुरुष उन्मथ्य प्राग्वोदग्वाऽनुगुप्त आगार आनडुहे रोहिते चर्मण्युपवेशयति इह गावो निषीदन्त्विहाश्वा इह पूरुषाः । इहो सहस्रदक्षिणो यज्ञ इह पूषा निषीदन्त्विति १०

११ ग्रामवचनं च कुर्युः ...{Loading}...

ग्रामवचनं च कुर्युः ११

१२ विवाहश्मशानयोर्ग्रामं प्रविशतादितिवचनात् ...{Loading}...

विवाहश्मशानयोर्ग्रामं प्रविशतादितिवचनात् १२

१३ तस्मात्तयोर्ग्रामः प्रमानमिति श्रुतेः ...{Loading}...

तस्मात्तयोर्ग्रामः प्रमानमिति श्रुतेः १३

१४ आचार्याय वरं ददाति ...{Loading}...

आचार्याय वरं ददाति १४

१५ गौर्ब्राह्मणस्य वरः ...{Loading}...

गौर्ब्राह्मणस्य वरः १५

१६ ग्रामो राजन्यस्य ...{Loading}...

ग्रामो राजन्यस्य १६

१७ अश्वो वैश्यस्य ...{Loading}...

अश्वो वैश्यस्य १७

१८ अधिरथं शतं दुहितृमते ...{Loading}...

अधिरथं शतं दुहितृमते १८

१९ अस्तमिते ध्रुवं दर्शयति ...{Loading}...

अस्तमिते ध्रुवं दर्शयति । ध्रुवमसि ध्रुवं त्वा पश्यामि ध्रुवैधिपोष्ये मयि मह्यं त्वादादबृहस्पतिर्मया पत्या प्रजावती सञ्जीव शरदः शतमिति १९

२० सा यदि न ...{Loading}...

सा यदि न पश्येत्पश्यामीत्येव ब्रूयात् २०

२१ त्रिरात्रमक्षारालवणाशिनौ स्यातामधः शयीयाताम् ...{Loading}...

त्रिरात्रमक्षारालवणाशिनौ स्यातामधः शयीयातां संवत्सरं न मिथुनमुपेयातां द्वादशरात्रं षड्रात्रं त्रिरात्रमन्ततः २१


  1. 8, 1. The parallel texts have sakhā and saptapadī for sakhe and saptapadā of Pāraskara. ↩︎

  2. See above, I, 4, 15. The water mentioned here is designated as stheyā āpaḥ; see Śāṅkhāyana-Gṛhya I, 13, 5 seq.; Gṛhya-saṃgraha II, 26. 35. ↩︎

  3. See the note on Śāṅkhāyana-Gṛhya II, 3, 3. ↩︎

  4. Rig-veda X, 85, 33. ↩︎

  5. The Atharva-veda (XX, 127, 12) has the reading pra jāyadhvam instead of ni ṣīdantu (in the first Pāda); the second hemistich there runs thus: iho sahasradakṣiṇoऽpi Pūṣā ni ṣīdati. ↩︎

  6. I have ventured, differing from Professor Stenzler (‘Bei der Hochzeit und auf der Leichenstätte richte er sich nach dem Dorfe’), to translate praviśatāt according to its original meaning. Could this possibly be a rule for Vānaprasthas who live in the forest and enter the village only on exceptional occasions? ↩︎

  7. Śāṅkhāyana I, 14, 13 seqq. ↩︎

  8. Śāṅkhāyana I, 14, 16. Comp. the note there. ↩︎

  9. In the text the word ‘firm’ (dhruva) is neuter in the two first instances, and refers to the ‘firm star;’ the third time it is feminine, referring to the bride. Pāraskara has the vocative poshye for the nominative poshyā of Śāṅkhāyana I, 17, 3; comp. above, § 1 sakhe for sakhā. ↩︎

  10. Śāṅkhāyana I, 17, 5. 6; Āśvalāyana I, 8, 10. 11. ↩︎