०७

०१ अथैनामश्मानमारोहयत्युत्तरतोऽग्नेर्दक्षिणपादेन ...{Loading}...

अथैनामश्मानमारोहयत्युत्तरतोऽग्नेर्दक्षिणपादेन आरोहेममश्मानमश्मेव त्वं स्थिरा भव । अभितिष्ठ पृतन्यतोऽवबाधस्व पृतनायत इति १

०२ अथ गाथां गायति ...{Loading}...

अथ गाथां गायति सरस्वति प्रेदमव सुभगे वाजिनीवती । यां त्वा विश्वस्य भूतस्य प्रजायामस्याग्रतः । यस्यां भूतं समभवद्यस्यां विश्वमिदं जगत् । तामद्य गाथां गास्यामि या स्त्रीणामुत्तमं यश इति २

०३ अथ परिक्रामतः तुभ्यमग्रे ...{Loading}...

अथ परिक्रामतः तुभ्यमग्रे पर्यवहन्सूर्यां वहतु ना सह । पुनः पतिभ्यो जायां दाग्ने प्रजया सहेति ३

०४ एवं द्विरपरं लाजादि ...{Loading}...

एवं द्विरपरं लाजादि ४

०५ चतुर्थं शूर्पकुष्ठया सर्वांल्लाजानावपति ...{Loading}...

चतुर्थं शूर्पकुष्ठया सर्वांल्लाजानावपति भगाय स्वाहेति ५

०६ त्रिः परिणीतां प्राजापत्यम् ...{Loading}...

त्रिः परिणीतां प्राजापत्यं हुत्वा ६


  1. 7, 1. Āśvalāyana-Gṛhya I, 7, 7; Śāṅkhāyana-Gṛhya I, 13, 12. ↩︎

  2. See chap. 6, 1. ↩︎

  3. Comp. Khādira-Gṛhya I, 3: śūrpeṇa śiṣṭān agnāv opya prāgudīcīm utkramayet. See also Gobhila II, 2; Āśvalāyana I, 7, 14. ↩︎