०६

०१ कुमार्या भ्राता ...{Loading}...

कुमार्या भ्राता शमीपलाशमिश्राल्ँलाजानञ्जलिनाञ्जलावावपति १

०२ ताञ्जुहोति संहतेन तिष्ठती ...{Loading}...

ताञ्जुहोति संहतेन तिष्ठती अर्यमणं देवं कन्याऽऽग्निमयक्षत । सनो अर्यमा देवः प्रेतो मुञ्चतु मा पतेः स्वाहा । इयं नार्युपब्रूते लाजानावपन्तिका । आयुष्मानस्तु मे पतिरेधन्तां ज्ञातयो मम स्वाहा । इमाल्ँलाजानावपाम्यग्नौ समृद्धिकरणं तव । मम तुभ्य च संवननं तदग्निरनुमन्यतामियं स्वाहेति २

०३ अथास्यै दक्षिणं हस्तम् ...{Loading}...

अथास्यै दक्षिणं हस्तम् गृह्णाति साङ्गुष्ठं गृभ्णामि ते सौभगत्वाय हस्तं मयापत्या जरदष्टिर्यथा सः । भगोऽऽर्यमा सविता पुरन्धिर्मह्यं त्वाऽदुर्गार्हपत्याय देवाः । अमोऽहमस्मि सा त्वं सा त्वमस्यमोऽहम् । सामाहमस्मि ऋक्त्वं द्यौरहं पृथिवी त्वं तावेहि विवहावहै सहरेतो दधावहै प्रजां प्रजनयावहै पुत्रान्विन्द्यावहै बहून् ते सन्तु जरदष्टयः सम्प्रियौ रोचिष्णू सुमनस्यमानौ पश्येम शरदः शतं जीवेम शरदः शतं शृणुयाम शरदः शतमिति ३


  1. 6, 1. Śāṅkhāyana I, 13, 15; Āśvalāyana I, 7, 8. ↩︎

  2. Śāṅkhāyana I, 18, 3; 14, 1; Āśvalāyana I, 7. 13. ↩︎

  3. Rig-veda X, 85, 36; Śāṅkhāyana I, 13, 4, &c. ↩︎