०५

०१ प्रदक्षिणमग्निं पर्याणीयैके ...{Loading}...

प्रदक्षिणमग्निं पर्याणीयैके १

०२ पश्चादग्नेस्तेजनीं कटं वा ...{Loading}...

पश्चादग्नेस्तेजनीं कटं वा दक्षिणपादेन प्रवृत्त्योपविशति २

०३ अन्वारब्ध आघारावाज्यभागौ महाव्याहृतयः ...{Loading}...

अन्वारब्ध आघारावाज्यभागौ महाव्याहृतयः सर्वप्रायश्चित्तं प्राजापत्यं स्विष्टकृच्च ३

०४ एतन्नित्यं सर्वत्र ...{Loading}...

एतन्नित्यं सर्वत्र ४

०५ प्राङ्महाव्याहृतिभ्यः ...{Loading}...

प्राङ्महाव्याहृतिभ्यः स्विष्टकृदन्यच्चेदाज्याद्धविः ५

०६ सर्वप्रायश्चित्तप्राजापत्यान्तरमेतदावापस्थानम् ...{Loading}...

सर्वप्रायश्चित्तप्राजापत्यान्तरमेतदावापस्थानं विवाहे ६

०७ राष्ट्रभृत इच्छञ्जयाभ्यातानांश्च जानन् ...{Loading}...

राष्ट्रभृत इच्छञ्जयाभ्यातानांश्च जानन् ७

०८ येन कर्मणेर्च्छेदितिवचनात् ...{Loading}...

येन कर्मणेर्च्छेदितिवचनात् ८

०९ चित्तं च चित्तिश्चाकूतम् ...{Loading}...

चित्तं च चित्तिश्चाकूतं चाकूतिश्च विज्ञातं च विज्ञातिश्च मनश्च शक्वरीश्च दर्शश्च पौर्णमासं च बृहच्च रथन्तरं च । प्रजापतिर्जयानिन्द्राय वृष्णे प्रायच्छदुग्रः पृतना जयेषु । तस्मै विशः समनमन्त सर्वाः स उग्रः स इहव्यो बभूव स्वाहेति ९

१० अग्निर्भूतानामधिपतिः समावत्विन्द्रो ज्येष्ठानाम् ...{Loading}...

अग्निर्भूतानामधिपतिः समावत्विन्द्रो ज्येष्ठानां यमः पृथिव्या वायुरन्तरिक्षस्य सूर्यो दिवश्चन्द्रमा नक्षत्राणां बृहस्पतिर्ब्रह्मणो मित्रः सत्यानां वरुणोऽपां समुद्रः स्रोत्यानामन्नं साम्राज्यानामधिपति तन्मावतु सोम ओषधीनां सविता प्रसवानां रुद्रः पशूनां त्वष्टा रूपाणां विष्णुः पर्वतानां मरुतो गणानामधिपतयस्ते मावन्तु पितरः पितामहाः परेवरे ततास्ततामहाः । इह मावन्त्वस्मिन्ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मण्यस्यां देवहूत्यां स्वाहेति सर्वत्रानुषजति १०

११ अग्निरैतु प्रथमो देवतानाम् ...{Loading}...

अग्निरैतु प्रथमो देवतानां सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयं राजा वरुणोऽनुमन्यतां यथेयं स्त्री पौत्रमघन्नरोदात्स्वाहा । इमामग्निस्त्रायताङ्गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिविबुध्यतामियं स्वाहा । स्वस्तिनो अग्ने दिव आपृथिव्या विश्वानिधेह्ययथा यजत्र यदस्यां महिदिवि जातं प्रशस्तं तदस्मासु द्रविणं धेहि चित्रं स्वाहा । सुगन्नु पन्थां प्रदिशन्न एहि ज्योतिष्मध्ये ह्यजरन्न आयुः । अपैतु मृत्युरमृतन्न आगाद्वैवस्वतो नो अभयं कृणोतु स्वाहेति ११

१२ परं मृत्यविति चैके ...{Loading}...

परं मृत्यविति चैके प्राशनान्ते १२


  1. 5, 3. See the note on Śāṅkhāyana-Gṛhya I, 9, 12. ↩︎

  2. See the note l.l. - I have altered the division of Sūtras 6 and 7, so as to draw the word vivāhe to the seventh Sūtra. The rule in § 6 has an entirely general character; the formulas stated in § 7 are given for the particular occasion of the vivāha ceremony. ↩︎

  3. Taittirīya Saṃhitā III, 4, 6, 1: ‘By what sacrifice he wishes to attain success, at that (sacrifice) he should make oblations with them (i.e. with the Abhyātāna Mantras): then he will attain success by that sacrifice.’ ↩︎

  4. Instead of sa i havyaḥ we ought to read probably sa u havyaḥ, or, as the Taitt. Saṃh. III, 4, 4, 1 gives, sa hi havyaḥ. The Maitr. Saṃh. has vihavyaḥ (II, 10, 2). ↩︎

  5. The words, ‘in this power of holiness . . . svāhā!’ are to be added to each member of the whole formula (comp. Atharva-veda V, 24). The expressions ‘fathers’ and ‘grandfathers,’ which are twice identically repeated in the translation, stand the first time for pitaraḥ pitāmahāḥ, and then for tatās tatāmahāḥ of the Sanskrit text. ↩︎