०४

०१ चत्वारः पाकयज्ञा हुतोऽहुतः ...{Loading}...

चत्वारः पाकयज्ञा हुतोऽहुतः प्रहुतः प्राशित इति १

०२ पञ्चसु बहिःशालायां विवाहे ...{Loading}...

पञ्चसु बहिःशालायां विवाहे चूडाकरण उपनयने केशान्ते सीमन्तोन्नयन इति २

०३ उपलिप्त उद्धतावोक्षितेऽग्निमुपसमाधाय ...{Loading}...

उपलिप्त उद्धतावोक्षितेऽग्निमुपसमाधाय ३

०४ निर्मन्थ्यमेके विवाहे ...{Loading}...

निर्मन्थ्यमेके विवाहे ४

०५ उदगयन आपूर्यमाणपक्षे पुण्याहे ...{Loading}...

उदगयन आपूर्यमाणपक्षे पुण्याहे कुमार्याः पाणिं गृह्णीयात् ५

०६ त्रिषु त्रिषूत्तरादिषु ...{Loading}...

त्रिषु त्रिषूत्तरादिषु ६

०७ स्वातौ मृगशिरसि रोहिण्याम् ...{Loading}...

स्वातौ मृगशिरसि रोहिण्यां वा ७

०८ तिस्रो ब्राह्मणस्य वर्णानुपूर्व्येण ...{Loading}...

तिस्रो ब्राह्मणस्य वर्णानुपूर्व्येण ८

०९ द्वे राजन्यस्य ...{Loading}...

द्वे राजन्यस्य ९

१० एका वैश्यस्य ...{Loading}...

एका वैश्यस्य १०

११ सर्वेषां शूद्रामप्येके मन्त्रवर्जम् ...{Loading}...

सर्वेषां शूद्रामप्येके मन्त्रवर्जम् ११

१२ अथैनां वासः परिधापयति ...{Loading}...

अथैनां वासः परिधापयति जरां गच्छ परिधत्स्व वासो भवाकृष्टीनामभिशस्तिपावा । शतं च जीव शरदः सुवर्च्चा रयिं च पुत्राननुसंव्ययस्वायुष्मतीदं परिधत्स्व वास इति १२

१३ अथोत्तरीयम् या अकृन्तन्नवयम् ...{Loading}...

अथोत्तरीयम् । या अकृन्तन्नवयं या अतन्वत । याश्च देवीस्तन्तूनभितो ततन्थ । तास्त्वा देवीर्जरसे संव्ययस्वायुष्मतीदं परिधत्स्व वास इति १३

१४ अथैनौ समञ्जयति समञ्जन्तु ...{Loading}...

अथैनौ समञ्जयति । समञ्जन्तु विश्वेदेवाः समापो हृदयानि नौ । सम्मातरिश्वा सन्धाता समुदेष्ट्री दधातु नाविति १४

१५ पित्रा प्रत्तामादाय गृहीत्वा ...{Loading}...

पित्रा प्रत्तामादाय गृहीत्वा निष्कामति । यदैषि मनसा दूरं दिशोऽनु पवमानो वा । हिरण्यपर्णो वैकर्णः स त्वा मन्मनसां करोत्वित्यसाविति १५

१६ अथैनौ समीक्षयति अघोरचक्षुरपतिघ्न्येधि ...{Loading}...

अथैनौ समीक्षयति । अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्च्चाः । वीरसूर्द्देवकामास्योनाशन्नो भव द्विपदे शं चतुष्पदे । सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयोऽग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः । सोमोऽददद्गन्धर्वाय गन्धर्वोऽददग्नये । रयिं च पुत्राश्चादादग्निर्मह्यमथो इमाम् । सा नः पूषा शिवतमामैरय सा न ऊरू उशती विहर । यस्यामुशन्तः प्रहराम शेपं यस्यामु कामा बहवो निविष्ट्या इति १६


  1. 4, 1-5. See Śāṅkhāyana-Gṛhya I, 5, 1-5 and the notes. ↩︎

  2. I.e. under the constellations Uttaraphalgunī or the two constellations following it, Uttarāṣāḍhā or the two constellations following it, Uttarabhādrapadā or the two constellations following it. ↩︎

  3. The words of the Mantra bhavā kṛṣṭīnām abhiśastipāvā no doubt are an imitation of Rig-veda I, 76, 3, bhavā yajñāṇām abhiśastipāvā (where the words are applied to Agni). Thus the use of the masculine abhiśastipāvā with reference to the bride may be accounted for. ↩︎

  4. Comp. Atharva-veda XIV, 1, 45. This parallel passage shows us the way to correct the text of this very much corrupted Mantra. ↩︎

  5. The literal translation would be: ‘He salves together (samañjayati) the two . . . May the waters salve together (samañjantu) our hearts.’ It was a real anointing of the bridegroom and of the bride, that took place, and we cannot accept Professor Stenzler’s translation (based on Jayarāma’s note: samañjayati parasparaṃ sammukhīkaroti), by which the proper signification of samañjayati is effaced: Dann heisst (der Vater der Braut) sie beide zusammentreten. See the note on Śāṅkhāyana-Gṛhya I, 12, 5. The parallel passage of the Khādira-Gṛhya runs thus: apareṇāgnim auduko gatvā pāṇigrāhaṃ mūrdhany avasiñced, vadhūṃ ca, samañjantv ity avasiktaḥ. ↩︎

  6. Comp. Rig-veda X, 85, 44. 40. 41. 37. ↩︎