०३

०१ षडर्घ्या भवन्त्याचार्य ऋत्विग्वैवाह्यो ...{Loading}...

षडर्घ्या भवन्त्याचार्य ऋत्विग्वैवाह्यो राजा प्रियः स्नातक इति १

०२ प्रतिसंवत्सरानर्हयेयुः ...{Loading}...

प्रतिसंवत्सरानर्हयेयुः २

०३ यक्ष्यमाणास्त्वृत्विजः ...{Loading}...

यक्ष्यमाणास्त्वृत्विजः ३

०४ आसनमाहार्याह साधु भवानास्तामर्चयिष्यामो ...{Loading}...

आसनमाहार्याह साधु भवानास्तामर्चयिष्यामो भवन्तमिति ४

०५ आहरन्ति विष्टरं पद्यम् ...{Loading}...

आहरन्ति विष्टरं पद्यं पादार्थमुदकमर्घमाचमनीयं मधुपर्कं दधिमधुघृतमपिहितं कांस्ये कांस्येन ५

०६ अन्यस्त्रिस्त्रिः प्राह विष्टरादीनि ...{Loading}...

अन्यस्त्रिस्त्रिः प्राह विष्टरादीनि ६

०७ विष्टरं प्रतिगृह्णाति ...{Loading}...

विष्टरं प्रतिगृह्णाति ७

०८ वर्ष्मोऽस्मि समानानामुद्यतामिव सूर्यः ...{Loading}...

वर्ष्मोऽस्मि समानानामुद्यतामिव सूर्यः । इमं तमभितिष्ठामि यो मा कश्चाभिदासतीत्येनमभ्युपविशति ८

०९ पादयोरन्यं विष्टर आसीनाय ...{Loading}...

पादयोरन्यं विष्टर आसीनाय ९

१० सव्यं पादं प्रक्षाल्य ...{Loading}...

सव्यं पादं प्रक्षाल्य दक्षिणं प्रक्षालयति १०

११ ब्राह्मणश्चेद्दक्षिणं प्रथमम् ...{Loading}...

ब्राह्मणश्चेद्दक्षिणं प्रथमम् ११

१२ विराजो दोहोऽसि विराजो ...{Loading}...

विराजो दोहोऽसि विराजो दोहमशीय मयि पाद्यायै विराजो दोह इति १२

१३ अर्घं प्रतिगृह्णात्यापः स्थ ...{Loading}...

अर्घं प्रतिगृह्णात्यापः स्थ युष्माभिः सर्वान्कामानवाप्नवानीति १३

१४ निनयन्नभिमन्त्रयते समुद्रं वः ...{Loading}...

निनयन्नभिमन्त्रयते समुद्रं वः प्रहिणोमि स्वां योनिमभिगच्छत । अरिष्टा अस्माकं वीरा मा परासेचिमत्पय इति १४

१५ आचामत्यामागन्यशसा संसृज वर्चसा ...{Loading}...

आचामत्यामागन्यशसा संसृज वर्चसा । तं मा कुरु प्रियं प्रजानामधिपतिं पशूनामरिष्टिं तनूनामिति १५

१६ मित्रस्य त्वेति मधुपर्कम् ...{Loading}...

मित्रस्य त्वेति मधुपर्कं प्रतीक्षते १६

१७ देवस्य त्वेति प्रतिगृह्णाति ...{Loading}...

देवस्य त्वेति प्रतिगृह्णाति १७

१८ सव्ये पाणौ कृत्वा ...{Loading}...

सव्ये पाणौ कृत्वा दक्षिणस्यानामिकया त्रिः प्रयौति नमः श्यावास्यायान्नशने यत्त आविद्धं तत्ते निष्कृन्तामीति १८

१९ अनामिकाङ्गुष्ठेन च त्रिर्निरुक्षयति ...{Loading}...

अनामिकाङ्गुष्ठेन च त्रिर्निरुक्षयति १९

२० तस्य त्रिः प्राश्नाति ...{Loading}...

तस्य त्रिः प्राश्नाति यन्मधुनो मधव्यं परमं रूपमन्नाद्यम् । तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योऽन्नादोऽसानीति २०

२१ मधुमतीभिर्वा प्रत्यृचम् ...{Loading}...

मधुमतीभिर्वा प्रत्यृचम् २१

२२ पुत्रायान्तेवासिने वोत्तरत आसीनायोच्छिष्टम् ...{Loading}...

पुत्रायान्तेवासिने वोत्तरत आसीनायोच्छिष्टं दद्यात् २२

२३ सर्वं वा प्राश्नीयात् ...{Loading}...

सर्वं वा प्राश्नीयात् २३

२४ प्राग्वाऽसञ्चरे निनयेत् ...{Loading}...

प्राग्वाऽसञ्चरे निनयेत् २४

२५ आचम्य प्राणान्त्सम्मृशति वाङ्म ...{Loading}...

आचम्य प्राणान्त्सम्मृशति वाङ्म आस्ये नसोः प्राणोऽक्ष्णोश्चक्षुः कर्णयोः श्रोत्रं बाह्वोर्बलमूर्वोरोजोऽरिष्टानि मेऽङ्गानि तनूस्तन्वा मे सहेति २५

२६ आचान्तोदकाय शासमादाय गौरिति ...{Loading}...

आचान्तोदकाय शासमादाय गौरिति त्रिः प्राह २६

२७ प्रत्याह माता रुद्राणाम् ...{Loading}...

प्रत्याह । माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः । प्रनुवोचञ्चिकितुषे जनाय मागामनागामदितिं वधिष्ट । मम चामुष्य च पाप्मानं हनोमीति यद्यालभेत २७

२८ अथ यद्युत्सिसृक्षेन्मम चामुष्य ...{Loading}...

अथ यद्युत्सिसृक्षेन्मम चामुष्य च पाप्मा हत ओमुत्सृजत तृणान्यत्त्विति ब्रूयात् २८

२९ न त्वेवामांसोऽर्घः स्यात् ...{Loading}...

न त्वेवामांसोऽर्घः स्यात् २९

३० अधियज्ञमधिविवाहं कुरुतेत्येव ब्रूयात् ...{Loading}...

अधियज्ञमधिविवाहं कुरुतेत्येव ब्रूयात् ३०

३१ यद्यप्यसकृत्संवत्सरस्य सोमेन यजेत ...{Loading}...

यद्यप्यसकृत्संवत्सरस्य सोमेन यजेत कृतार्घ्या एवैनं याजयेयुर्नाकृतार्घ्या इति श्रुतेः ३१


  1. 3, 1. On vaivāhya, which I have translated father-in-law,’ comp. the note on Śāṅkhāyana II, 15, I. ↩︎

  2. 2, 3. Comp. below, Sūtra 31, and Śāṅkhāyana-Gṛhya II, 15, 10. ↩︎

  3. Āśvalāyana-Gṛhya I, 24, 7. ↩︎

  4. I have translated according to the reading of Āśvalāyana (l.l. § 8), vidyutām instead of udyatām. ↩︎

  5. 9, 10. There is no doubt that these Sūtras should be divided p. 274 thus: pādayor anyaṃ. viṣṭara asīnāya savyaṃ pādaṃ prakṣālya dakṣiṇaṃ prakṣālayati. Thus it is said in the Khādira-Gṛhya: viṣṭaram āstīrya . . . adhyāsīta. pādayor dvitiyayā (scil. ṛcā) dvau cet. Gobhila has the Sūtra: pādayor anyam. ↩︎

  6. The words brāhmaṇaś cet refer to the host, as the comparison of Āśvalāyana I, 24, 11, shows. ↩︎

  7. Comp. Āśvalāyana l.l. § 22; Śāṅkhāyana III, 7, 5. ↩︎

  8. The play on words (āpas = waters, avāpnavāni = may I obtain) is untranslatable. ↩︎

  9. Āśvalāyana-Gṛhya I, 24, 14. ↩︎

  10. Āśvalāyana-Gṛhya I, 24, 15. ↩︎

  11. Āśvalāyana-Gṛhya l.l. Annaśane instead of annāśane is simply a mistake in spelling. ↩︎

  12. These are the three verses, Vāj. Saṃhitā XIII, 27-29. ↩︎

  13. Āśvalāyana-Gṛhya I, 24, 25. ↩︎

  14. Āśvalāyana l.l. § 27. ↩︎

  15. Āśvalāyana l.l. § 26. ↩︎

  16. 29, 30. These Sūtras are identical with two Sūtras in the Śāṅkhāyana-Gṛhya II, 15, 2.3. See the note there. It seems to me inadmissible to translate § 29, as Professor Stenzler does: Der Argha darf aber nicht immer ohne Fleisch sein. ↩︎

  17. Śāṅkhāyana-Gṛhya II, 15, 10. ↩︎