परिशिष्टानि

परिशिष्टानि

वापीकूपतडागारामदेवतायतनानां प्रतिष्ठापनम्

अथातो वापीकूपतडागारामदेवतायतनानां प्रतिष्ठापनं व्याख्यास्यामः । तत्रोदगयन आपूर्यमाणपक्षे पुण्याहे तिथिवारनक्षत्रकरणे च गुणान्विते तत्र वारुणं यवमयं चरुं श्रपयित्वाज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति त्वं नो अग्न इमं मेवरुण तत्वायाभि येते शतमयाश्चाग्न उदुत्तममुरुं हि राजा वरुणस्यो-त्तभ्भनमग्नेरनीकमिति दशर्चं हुत्वा स्थालीपाकस्य जुहोत्यग्नये स्वाहा सोमाय स्वाहा वरुणाय स्वाहा यज्ञाय स्वाहोग्राय स्वाहा भीमाय स्वाहा शतक्रतवे स्वाहा व्युष्ट्यै स्वाहा स्वर्गाय स्वाहेति यथोक्तं स्विष्टकृत् प्राशनान्ते जलचराणि क्षिप्त्वाऽलङ्कृत्य गां तारयित्वा पुरुषसूक्तं जपन्नाचार्याय वरं दत्वा कर्णवेष्टकौ वासांसि धेनुर्दक्षिणा ततो ब्राह्मणभोजनम् अथातः शौचविधिं व्याख्यास्यामो दूरं गत्वा दूरतरं गत्वा यज्ञोपवीतं शिरसि दक्षिणकर्णे वा धृत्वा तृणमन्तर्धान कृत्वोपविश्याहनीत्युत्तरतो निशायां दक्षिणत उभयोः सन्ध्ययोरुदङ्मुखो नाग्नौ न गोसमीपे नाप्सु नागे वृक्षमूले चतुष्पथे गवाङ्गोष्ठे देवब्राह्मणसन्निधौ दहनभूमिं भस्माच्छन्नं देशं फालकृष्टभूमिं च वर्जयित्वा मूत्रपुरीषे कुर्यात् । ततः शिश्नं गृहीत्वोत्थायाद्भिः शौचं गन्ध-लेपहरं विदध्यात् । लिङ्गे देया सकृन्मृद्वै त्रिवारं गुदे दशधा वामपाणावुभयोः सप्तवारं मृत्तिकां दद्यात् । करयोः पादयोः सकृत्सकृदेव मृत्तिका देयेति शौचं गृहस्थानां द्विगुणम् ब्रह्मचारिणां त्रिगुणं वनस्थानां चतुर्गुणम् यतीनामिति । यद्दिवा विहितं शौचं तदर्धं निशाया भवति मार्गे चेत्तदर्धमार्त्तश्चेद्यथाशक्ति कुर्यात् १
प्रक्षालितपाणिपादः शुचौ देश उपविश्य नित्यं बद्धशिखी यज्ञो-पवीती प्रागुदङ्मुखो वा भूत्वा जान्वोर्मध्ये करौ कृत्वाऽशूद्रानीतोदकैर्द्विजातयो यथाक्रमं हृत्कण्ठतालुगैराचामन्ति । न तधिन्नोष्ठेन न विरलाङ्गुलिभिर्न तिष्ठ-न्नैव हसन्नापि फेनबुद्बुदयुतम् । ब्रह्मतीर्थेन त्रिः पिबेत् द्विः परिमृजेत् । ब्राह्म-णस्य दक्षिणहस्ते पञ्चतीर्थानि भवन्ति अङ्गुष्ठमूले ब्रह्मतीर्थं कनिष्ठिकाङ्गुलिमूले प्रजापतितीर्थं तर्जन्यङ्गुष्ठमध्यमूले पितृतीर्थमङ्गुल्यग्रे देवतीर्थं मध्येऽग्नितीर्थ-मित्येतानि तीर्थानि भवन्ति २

प्रथमं यत्पिबति तेन ऋग्वेदं प्रीणाति द्वितीयं यत्पिबति तेन यजुर्वेदं प्राणाति तृतीयं यत्पिबति तेन सामवेदं प्रीणाति चतुर्थं यदि पिबेत्तेनाथर्ववेदेतिहासपुराणानि प्रीणाति यदङ्गुलिभ्यः स्रवति तेन नागयक्षकुबेराः सर्वे वेदाः प्रीणन्ति यत्पादाभ्युक्षणं पितरस्तेन प्रीणन्ति यन्मु-खमुपस्पृशत्यग्निस्तेन प्रीणाति यन्नासिके उपस्पृशति वायुस्तेन प्रीणाति यच्च-क्षुरुपस्पृशति सूर्यस्तेन प्रीणाति यच्छ्रोत्रमुपस्पृशति दिशस्तेन प्रीणन्ति यन्ना-भिमुपस्पृशति ब्रह्मा तेन प्रीणाति यद्धृदयमुपस्पृशति तेन परमात्मा प्रीणाति यच्छिर उपस्पृशति रुद्रस्तेन प्रीणाति यद्बाहू उपस्पृशति विष्णुस्तेन प्रीणाति मध्यमानामिकया मुखं तर्जन्यङ्गुष्ठेन नासिकां मध्यमाङ्गुष्ठेन चक्षुषी अना-मिकाङ्गुष्ठेन श्रोत्रं कनिष्ठिकाङ्गुष्ठेन नाभिं हस्तेन हृदयम् सर्वाङ्गुलिभिः शिर इत्यसौ सर्वदेवमयो ब्राह्मणो देहिनामित्याह इत्येवं शौचविधिं कृत्वा ब्रह्मलोके महीयते ब्रह्मलोके महीयते इत्याह भगवान् कात्यायनः इति कात्यायनकृतं परिशिष्टशौचसूत्रं समाप्तम् अथातो नित्यस्नानं नद्यादौ मृद्गोमयकुशतिलसुमनस आहृत्योदकान्तं गत्वा शुचौ देशे स्थाप्य प्रक्षाल्य पाणिपादं कुशोपग्रहो बद्धशिखी यज्ञोपवी-त्याचम्योरुंहीति तोयमामन्त्र्यावर्तयेद्येतेशतमिति सुमित्रियान इत्यपोऽञ्जलि-नादाय दुर्मित्रिया इति द्वेष्यं प्रति निषिञ्चेत्कटिं बस्त्यूरू जङ्घे चरणौ करौ मृदा त्रिस्त्रिः प्रक्षाल्याचम्य नमस्योदकमालभेदङ्गानि मृदेदं विष्णुरिति सूर्याभिमुखो निमज्जोदापो अस्मानिति स्नात्वोदिदाभ्य इत्युन्मज्य निमज्योन्मज्याचम्य गोमयेन विलिम्पेन्मानस्तोक इति ततोऽभिषिञ्चेदिमम्मे वरुणेति चतसृभिर्माप उदुत्तम मुञ्चन्त्ववभृथेत्यन्ते चैतन्निमज्योन्मज्याचम्य दर्भैः पावयेदापो हिष्ठेति तिसृभिरिदमापो हविष्मतीर्द्देवीराप इति द्वाभ्यामपोदेवाद्रुपदादिव शन्नो देवीरपां रसमपोदेवीः पुनन्तुमेति नवभिश्चित्पतिर्मेत्योङ्कारेण व्याहृतिभि-र्गायत्र्या चादावन्ते चान्तर्जलेऽघमर्षणं त्रिरावर्त्तयेद् द्रुपदादिवायङ्गौरिति वा तृचं प्राणायामं वा सशिरसमोमिति वा विष्णोर्वा स्मरणम् १

उत्तीर्य धौते वाससी परिधाय मृदोरूकरौ प्रक्षाल्याचम्य त्रिरायम्यासून् पुष्पाण्यम्बुमिश्राण्यूर्द्ध्वं क्षिप्त्वोर्ध्वबाहुः सूर्यमुदीक्षन्नुद्वयमुदुत्यं चित्रं तच्च-क्षुरिति गायत्र्या च यथाशक्ति विभ्राडित्यनुवाकपुरुषसूक्तशिवसङ्कल्पम-ण्डलब्राह्मणैरित्युपस्थाय प्रदक्षिणीकृत्य नमस्कृत्योपविशेत् दर्भेषु दर्भपाणिः स्वाध्यायं च यथाशक्त्यादावारभ्य वेदम् २

ततस्तर्पयेद्ब्रह्माणं पूर्वं विष्णुं रुद्रं प्रजापतिं देवांश्छन्दांसि वेदानृषीन् पुराणाचार्यान् गन्धर्वानितराचार्यान्त्संवत्सरम् च सावयवं देवीरप्सरसो देवानुगान्नागान्सागरान्पर्वतान्सरितो मनुष्यान् यक्षान् रक्षांसि पिशा-चान्त्सुपर्णान् भूतानि पशून् वनस्पतीनोषधीर्भूतग्रामश्चतुर्विधस्तृप्यतामिति ॐकारपूर्वं ततो निवीती मनुष्यान् । सनकं च सनन्दनं तृतीयं च सनातनम् । कपिलमासुरिञ्चैव वोढुं पञ्चशिखं तथा । ततोऽपसव्यं तिलमिश्रं कव्य-वाडनलं सोमं यममर्यमणमग्निष्वात्तान् सोमपो बर्हिषदो यमांश्चैके । यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च । औदुम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नम इति एकैकस्य तिलैर्मिश्रांस्त्रींस्त्रीन्दद्याज्जलाञ्जलीन् । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति जीवत्पितृकोऽप्येतानन्यांश्चेतर उदीरतामङ्गिरस आयन्तुन ऊर्ज्जंवहन्ती पितृभ्यो येचेह मधुव्वाता इति तृचञ्जपन् प्रसिञ्चेत्तृप्यध्वमिति त्रिर्नमोव इत्युक्त्वा मातामहानां चैवं गुरुशिष्यर्त्विग्ज्ञातिबान्धवा न तर्पिता देहाद्रुधिरं पिबन्ति वासो निष्पीड्याचम्य ब्राह्मवैष्णवरौद्रसावित्रमैत्रवारु-णैस्तल्लिङ्गैरर्चयेददृश्रं हंस इत्युपस्थाय प्रदक्षिणीकृत्य दिशश्च देवताश्च नम-स्कृत्योपविश्य ब्रह्माग्निपृथिव्योषधिवाग्वाचस्पतिविष्णुमहद्भ्योऽद्भ्योऽपाम्पतये वरुणाय नम इति सर्वत्र संवर्चसेति मुखं विमृष्टे देवागातुविद इति विसर्जयेदेष स्नानविधिरेष स्नानविधिः ३

इति श्रीकात्यायनोक्तं त्रिकण्डिकासूत्रं समाप्तम्

श्राद्धसूत्रम्

अपरपक्षे श्राद्धं कुर्वीतोर्द्ध्वं वा चतुर्थ्या यदहः सम्पद्येत तदहर्ब्राह्मणानामन्त्र्य पूर्वेद्युर्वा स्नातकानेके यतीन् गृहस्थान् साधून्वा श्रोत्रियान् वृद्धाननवद्यान्त्स्वकर्मस्थानभावेऽपि शिष्यान्त्स्वाचारान् द्विर्नग्नशुक्लवि-क्लिधश्यावदन्तविद्धप्रजननव्याधितव्यङ्गिश्वित्रिकुष्ठिकुनखिवर्जमनिन्द्येनामन्त्रितो नापक्रामेदामन्त्रितो वाऽन्यदन्नं न प्रतिगृह्णीयात्स्नाताञ्च्छुचीनाचा-न्तान्प्राङ्मुखानुपवेश्य दैवे युग्मानयुग्मान्यथाशक्ति पित्र्ये एकैकस्योदङ्मुखान्द्वौ वा दैवे त्रीन् पित्र्य एकैकमुभयत्र वा मातामहानाञ्चैवं तन्त्रम् वा वैश्वदेविकम् । श्रद्धान्वितः श्राद्धङ्कुर्वीत शाकेनापि नापरपक्षमतिक्रामेन्मासि मासि वोशन-मिति श्रुतेरतदहः शुचिरक्रोधनोऽत्वरितोऽप्रमत्तः सत्यवादी स्यादध्वमैथुनश्रमस्वाध्यायान्वर्जयेदावाहनादि वाग्यत ओपोस्पर्शनादामन्त्रिताश्चैवम् १

दैवपूर्वं श्राद्धं पिण्डपितृयज्ञवदुपचारः पित्र्ये द्विगुणास्तु दर्भाः पवित्र-पाणिर्दद्यादासीनः सर्वत्र प्रश्नेषु पङ्क्तिमूर्द्धन्यं पृच्छति सर्वान्वासनेषु दर्भाना-स्तीर्य विश्वान्देवानावाहयिष्य इति पृच्छत्यावाहयेत्यनुज्ञातो विश्वेदेवास आगतेत्यनयाऽऽवाह्यावकीर्य विश्वेदेवाः शृणुतेममिति जपित्वा पितॄना-वाहयिष्य इति पृच्छत्यावाहयेत्यनुज्ञात उशन्तस्त्वेत्यनयाऽऽवाह्यावकीर्यायन्तु न इति जपित्वा यज्ञियवृक्षचमसेषु पवित्रान्तर्हितेष्वेकैकस्मिन्नप आसिञ्चति शन्नोदेवीरित्येकैकस्मिन्नेव तिलानावपति तिलोऽसि सोमदैवत्यो गोसवो देवनिर्मितः । प्रत्नमद्भिः पृक्तः स्वधया पितॄल्ँ लोकान् प्रीणाहि नः स्वाहेति सौवर्णराजतौदुम्बरखड्गमणिमयानां पात्राणामन्यतमेषु यानि वा विद्यन्ते पत्रपुटेषु वैकैकस्यैकैकेन ददाति सपवित्रेषु हस्तेषु या दिव्या आपः पयसा सम्बभूवुर्या आन्तरिक्षा उत पार्थवीर्याः । हिरण्यवर्णा यज्ञियास्ता न आपः शिवाः शंस्योनाः सुहवा भवन्त्वित्यसावेषतेऽर्घ इति प्रथमे पात्रे संस्रवा-न्त्समवनीय पितृभ्यः स्थानमसीति न्युब्जं पात्रं निदधात्यत्र गन्धपुष्पधूपदीपवाससां च प्रदानम् २

उद्धृत्य घृताक्तमन्नं पृच्छत्यग्नौ करिष्य इति कुरुष्वेत्यनुज्ञातः पिण्ड-पितृयज्ञवद्धुत्वा हुतशेषं दत्वा पात्रमालभ्य जपति पृथिवी ते पात्रं द्यौरपिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहेति वैष्णव्यर्चा यजुषा वाऽङ्गुष्ठमन्नेऽवगाह्यापहता इति तिलान्प्रकीर्योष्णं स्विष्टमन्नं दद्याच्छक्त्या वाश्नत्सु जपेद्व्याहृतिपूर्वाङ्गायत्रीं सप्रणवां सकृत्त्रिर्वा राक्षोघ्नीः पित्र्य-मन्त्रान्पुरुषसूक्तमप्रतिरथमन्यानि च पवित्राणि तृप्तान् ज्ञात्वाऽन्नं प्रकीर्य सकृ-त्सकृदपो दत्वा पूर्ववद्गायत्रीञ्जपित्वा मधुमतीर्मधुमध्विति च तृप्ताः स्थेति पृच्छति तृप्ताः स्म इत्यनुज्ञातः शेषमन्नमनुज्ञाप्य सर्वमन्नमेकतोद्धृत्योच्छि-ष्टसमीपे दर्भेषु त्रींस्त्रीन् पिण्डानवनेज्य दद्यादाचान्तेष्वित्येक आचान्तेषूदकं पुष्पाण्यक्षतानक्षय्योदकं च दद्यादघोराः पितरः सन्तु सन्त्वित्युक्ते गोत्रं नो वर्धतां वर्धतामित्युक्ते दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च । श्रद्धा च नो माव्यगमद्बहुधेयं च नोऽस्त्वित्याशिषः प्रतिगृह्य स्वधावाचनीयान्त्सप-वित्रान् कुशानास्तीर्य स्वधां वाचयिष्य इति पृच्छति वाच्यतामित्यनुज्ञातः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमाता-महेभ्यश्च स्वधोच्यतामित्यस्तु स्वधेत्युच्यमाने स्वधावाचनीयेष्वपो निषिञ्चति ऊर्ज्जमित्युत्तानं पात्रं कृत्वा यथाशक्ति दक्षिणां दद्याद् ब्राह्मणेभ्यो विश्वेदेवाः प्रीयन्तामिति दैवे वाचयित्वा वाजेवाजेवतेति विसृज्यामावाजस्येत्यनुव्रज्य प्रदक्षिणीकृत्योपविशेत् ३

अथैकोद्दिष्टमेकोऽर्घ एकं पवित्रमेकः पिण्डो नावाहनं नाग्नौकरणं नात्र विश्वे-देवाः स्वदितमिति तृप्तिप्रश्नः । सुस्वदितमितीतरे ब्रूयुरुपतिष्ठतामित्यक्षय्यस्थानेऽभिरम्यतामिति विसर्गोऽभिरताः स्म इतीतरे ४

ततः संवत्सरे पूर्णे त्रिपक्षे द्वादशाहे वा यदहर्वा वृद्धिरापद्येत चत्वारि पात्राणि सतिलगन्धोदकानि पूरयित्वा त्रीणि पितॄणामेकं प्रेतस्य । प्रेतपात्रं पितृपा-त्रेष्वासिञ्चति ये समाना इति द्वाभ्याम् । एतेनैव पिण्डो व्याख्यातः । अत ऊर्द्धं संवत्सरे संवत्सरे प्रेतायान्नं दद्यात् यस्मिन्नहनि प्रेतः स्यात् ५

आभ्युदयिके प्रदक्षिणमुपचारः पूर्वाह्णे पित्र्यमन्त्रवर्जं जप ऋजवो दर्भा यवैस्तिलार्थाः सम्पन्नमिति तृप्तिप्रश्नः सुसम्पन्नमितीतरे ब्रूयुर्दधिबदराक्षतमिश्राः पिण्डा नान्दीमुखान् पितॄनावाहयिष्य इति पृच्छत्यावाहयेत्यनुज्ञातो ना-न्दीमुखाः पितरः प्रीयन्तामित्यक्षय्यस्थाने नान्दीमुखान् पितॄन्वाचयिष्य इति पृच्छति वाच्यतामित्यनुज्ञातो नान्दीमुखाः पितरः पितामहाः प्रपितामहा मातामहाः प्रमातामहा वृद्वप्रमातामहाश्च प्रीयन्तामिति न स्वधां प्रयुञ्जीत युग्मानाशयेदत्र ६

अथ तृप्तिर्ग्राम्याभिरोषधीभिर्मासं तृप्तिस्तदभाव आरण्याभिर्मूलफलैरोषधी-भिर्वा सहान्नेनोत्तरास्तर्पयन्ति छागोस्रमेषानालभ्य क्रीत्वा लब्ध्वा वा न स्वयम्मृतानाहृत्य पचेन्मासद्वयं तु मत्स्यैर्मासत्रयं तु हारिणेन चतुरऽऔरभ्रेण पञ्च शाकुनेन षट् छागेन सप्त कौर्मेणाष्टौ वाराहेण नव मेषमांसेन दश माहिषेणैकादश पार्षतेन संवत्सरं तु गव्येन पयसा पायसेन वा वार्ध्रीणसमांसेन द्वादश वर्षाणि ७

अथाक्षय्यतृप्तिः खड्गमांसं कालशाकं लोहच्छागमांसं मधु महाशल्को व-र्षासु मघाश्राद्धंहस्तिच्छायायाञ्च मन्त्राध्यायिनः पूताः शाखाध्यायी षडङ्ग-विज्ज्येष्ठसामगो गायत्रीसारमात्रोऽपि पञ्चाग्निः स्नातकस्त्रिणाचिकेतस्त्रिम-धुस्त्रिसुपर्णी द्रोणपाठको ब्रह्मोढापुत्रो वागीश्वरो याज्ञिकश्च नियोज्या अभा-वेऽप्येकं वेदविदं पङ्क्तिमूर्धनि नियुञ्ज्यात् आसहस्रात्पङ्क्तिं पुनातीति वचनात् ८

काम्यानि

अथ काम्यानि भवन्ति स्त्रियोऽप्रतिरूपाः प्रतिपदि द्वितीयायां स्त्रीजन्मा-श्वास्तृतीयायां चतुर्थ्यां क्षुद्रपशवः पुत्राः पञ्चम्यां द्यूतर्द्धिः षष्ठ्यां कृषिः सप्तम्यां वाणिज्यमष्टम्यामेकशफं नवम्यां दशम्यां गावः परिचारका एकादश्यां धन-धान्यानि द्वादश्यां कुप्यं हिरण्यं ज्ञातिश्रैष्ठ्यं च त्रयोदश्यां युवानस्तत्र म्रियन्ते शस्त्रहतस्य चतुर्द्दश्याममावास्यायां सर्वमित्यमावास्यायां सर्वमिति १

भोजनविधिः

वन्दे श्रीदक्षिणामूर्त्तिं सच्चिदानन्दविग्रहम् । सर्वार्थानां प्रदातारं शिवादेहार्धधारिणम्॥

अथातः श्रुतिस्मृतीरनुसृत्य भोजनविधिं व्याख्या-स्यामः । आचान्तो धृतोत्तरीयवस्त्रो धृतश्रीखण्डगन्धपुण्ड्रो भोजनशालामा-गत्य गोमयेनोपलिप्य शुचौ देशे विहितपीठाधिष्ठितो नित्यं प्राङ्मुखो न दक्षिणामुखो न प्रत्यङ्मुखो न विदिङ्मुखः । श्रीकामश्चेत्प्रत्यङ्मुखः सत्यकामश्चेदुदङ्मुखो यशस्कामश्चेद्दक्षिणामुखो जीवन्मातृकवर्जं हस्तपादास्येषु पञ्चस्वार्द्रो नीवारचूर्णैर्गोमृदा भस्मनोदकेन वा मण्डलं कुर्यात् । चतुष्कोणं ब्राह्मणस्य त्रिकोणं क्षत्रियस्य मण्डलाकृति वैश्यस्याभ्युक्षणं शूद्रस्य यथा चक्रायुधो विष्णुस्त्रैलोक्यं परिरक्षति । एवं मण्डलभस्मैतत्सर्वभूतानि रक्षत्विति । तत्र भूमौ निहितपात्रेऽन्ने परिविष्टे पितुन्नुस्तोषमित्यन्नं स्तुत्वा मानस्तोके नमोवः किरिकेभ्यो नमः शम्भवायेत्यभिमन्त्र्य प्रोक्षयेत् सत्यन्त्वर्तेन परिषिञ्चामीति प्रातरृतं त्वा सत्येन परिषिञ्चामीति सायम् । तेजोऽसि शुक्रमस्यमृतमसीति यजुषाऽन्नमभिमृश्याग्निरस्मीत्यात्मानमग्निं ध्यात्वा भूपतये भुवनपतये भूतानां पतय इति चित्राय चित्रगुप्ताय सर्वेभ्यो भूतेभ्यो नम इति दिवा प्रणवादिकैः स्वाहानमोन्तैर्मन्त्रैः प्रतिमन्त्रं बलीन् हरेत् अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः । त्वं ब्रह्म त्वं यज्ञस्त्वं वषट्कारस्त्वमॐकरस्त्वं विष्णोः परमं पदम् । अमृतो-पस्तरणमसि स्वाहेति विष्णुमन्त्रमभिध्यायन्नाचम्यान्नममृतं ध्यायन् मौनी हस्तचापल्यादिरहितो मुखे पञ्च प्राणाहुतीर्जुहोति १
प्राणाय स्वाहाऽपानाय स्वाहा व्यानाय स्वाहा समानाय स्वाहोदानाय स्वाहेति क्रमं याज्ञवल्क्यो मन्यत उदानाय स्वाहेति शौनकबौधायनौ । याज्ञवल्क्योदितक्रमो वाजस-नेयिनाम् । दन्तैर्नोपस्पृशेत् । जिह्वया ग्रसेदङ्गुष्ठप्रदेशिनीमध्यमाभिः प्रथमा-मङ्गुष्ठमध्यमानामिकाभिर्द्वितीयामङ्गुष्ठानामिकाकनिष्ठिकाभिस्तृतीयां कनिष्ठिकातर्जन्यङ्गुष्ठैश्चतुर्थीं सर्वाभिरङ्गुलीभिः साङ्गुष्ठाभिः पञ्चमीम् । अङ्गु-ष्ठानामिकाग्राह्यान्ने नैता आहुतय इति हारीतव्याख्यातारः । सर्वाभिरेता इति बौधायनः । मौनं त्यक्त्वा प्राग्द्रवरूपमश्नीयान्मध्ये कठिनमन्ते पुनर्द्रवाशी स्यान्मधुरं पूर्वं लवणाम्लौ मध्ये कटुतिक्तादिकान् पश्चाद्यथासुखं भुञ्जीत भुञ्जानो वामहस्तेनान्नं न स्पृशेन्न पादौ न शिरो न बस्ति न पराभोजनं स्पृशेदेवं यथारुचि भुक्त्वा भुक्तशेषमन्नमादाय मद्भुक्तोच्छिष्टशेषं ये भुञ्जते पितरोऽधमाः । तेषामन्नं मया दत्तमक्षय्यमुपतिष्ठतु इति पितृतीर्थेन दत्वाऽमृतापिधानमसि स्वाहेति हस्तगृहीतानामपामर्धं पीत्वाऽर्धं भूमौ निक्षिपेत् । रौरवे पूयनिलये पद्मार्बुदनिवासिनाम् । अर्थिनां सर्वभूतानामक्षय्यमुपतिष्ठत्विति तस्माद्देशा-दपसृत्य गण्डूषशलाकादिभिस्तर्जनीवर्जमास्यं शोधयेत् २

न भार्यादर्श-नेऽश्नीयान्न भार्यया सह न सन्ध्ययोर्न मध्यान्हे नार्धरात्रे नायज्ञोपवीती नाऽऽर्द्रशिरा नाद्रवासा नैकवासा न शयानो न ताम्रभाजने न भिन्ने न राजतसौवर्नशङ्खस्फाटिककांस्यभाजनवर्जं न लौहे न मृन्मये न सन्धिसंस्थिते न भुवि न पाणौ न सर्वभोजी स्यात्किञ्चिद्भोज्यं परित्यजेदन्यत्र घृतपाय-सदधिसक्तुपललमधुभ्यः साध्वाचान्तो दक्षिणपादाङ्गुष्ठे पाणिं निःस्रावये-दङ्गुष्ठमात्रः पुरुषो अङ्गुष्ठं च समाश्रितः । ईशः सर्वस्य जगतः प्रभुः प्रीणातु विश्वभुगिति श्वात्राः पीता इति नाभिमालभेत अमृता इत्यतः प्रागगस्त्यं वैनतेयं च शनिं च वडवानलम् । आहारपरिणामार्थं स्मरेद्भीमं च पञ्चममित्युदर-मालभ्य शर्यातिं च सुकन्यां च च्यवनं शक्रमश्विनौ । भोजनान्ते स्मरेन्नित्यं तस्य चक्षुर्न हीयत इति स्मृत्वा मुखशुद्धिं कुर्यान्नमो भगवते वाजसनेयाय याज्ञवल्क्याय नमो भगवते वाजसनेयाय याज्ञवल्क्याय ३

योगीश्वरद्वादशनामानि

अथ श्री६योगीश्वरद्वादशनामानि वन्देऽहं मङ्गलात्मानं भास्वन्तं वेदविग्रहम् याज्ञवल्क्यं मुनिश्रेष्ठं जिष्णुं हरिहरप्रभम् १
जितेन्द्रियं जितक्रोधं सदा ध्यानपरायणम् आनन्दनिलयं वन्दे योगानन्दं मुनीश्वरम् २
एवं द्वादश नामानि त्रिसन्ध्यं यः पठेन्नरः योगीश्वरप्रसादेन विद्यावान्धनवान् भवेत् ३