विश्वास-प्रस्तुतिः
उपसदन्ते प्रवर्ग्योत्सादनम् १
मूलम्
उपसदन्ते प्रवर्ग्योत्सादनम् १
विश्वास-प्रस्तुतिः
अन्तःपात्ये परिघर्म्य निधाय दक्षिणेन निर्हृत्योच्छिष्टखरम् २
मूलम्
अन्तःपात्ये परिघर्म्य निधाय दक्षिणेन निर्हृत्योच्छिष्टखरम् २
विश्वास-प्रस्तुतिः
आहवनीये त्रीञ्च्छालाकान् प्रदीप्य प्रदीप्याग्नीध्रो धारयति शतरुद्रि यवत्प्रतिलोमं प्रमाणेषु । चतुर्गृहीतेनाभिजुहोति या ते घर्म दिव्या शुगिति प्रतिमन्त्रम् ३
मूलम्
आहवनीये त्रीञ्च्छालाकान् प्रदीप्य प्रदीप्याग्नीध्रो धारयति शतरुद्रि यवत्प्रतिलोमं प्रमाणेषु । चतुर्गृहीतेनाभिजुहोति या ते घर्म दिव्या शुगिति प्रतिमन्त्रम् ३
विश्वास-प्रस्तुतिः
प्रास्य तृतीयमुपविश्य ४
मूलम्
प्रास्य तृतीयमुपविश्य ४
विश्वास-प्रस्तुतिः
क्षत्रस्य त्वेति निष्क्रमणं पुरस्तात्पत्नीमन्तर्धाय ५
मूलम्
क्षत्रस्य त्वेति निष्क्रमणं पुरस्तात्पत्नीमन्तर्धाय ५
विश्वास-प्रस्तुतिः
साम प्रेष्यत्यवमृथवद्देशाः ६
मूलम्
साम प्रेष्यत्यवमृथवद्देशाः ६
विश्वास-प्रस्तुतिः
निधनं च ७
मूलम्
निधनं च ७
विश्वास-प्रस्तुतिः
उत्सादनदेशं गच्छन्त्यनग्ना उत्तरवेदिम् ८
मूलम्
उत्सादनदेशं गच्छन्त्यनग्ना उत्तरवेदिम् ८
विश्वास-प्रस्तुतिः
त्रिः परिषिच्याचिक्रददिति ९
मूलम्
त्रिः परिषिच्याचिक्रददिति ९
विश्वास-प्रस्तुतिः
मन्त्रक्रमेण वा १०
मूलम्
मन्त्रक्रमेण वा १०
विश्वास-प्रस्तुतिः
नाभिस्पृशं प्रवृञ्जनीयं निदधाति चतुःसूक्तिरिति ११
मूलम्
नाभिस्पृशं प्रवृञ्जनीयं निदधाति चतुःसूक्तिरिति ११
विश्वास-प्रस्तुतिः
प्राञ्चावितरौ १२
मूलम्
प्राञ्चावितरौ १२
विश्वास-प्रस्तुतिः
उपशयां च तूष्णीम् १३
मूलम्
उपशयां च तूष्णीम् १३
विश्वास-प्रस्तुतिः
परीशासावभितः १४
मूलम्
परीशासावभितः १४
विश्वास-प्रस्तुतिः
रौहिणहवन्यौ चावकृष्टे बाह्ये १५
मूलम्
रौहिणहवन्यौ चावकृष्टे बाह्ये १५
विश्वास-प्रस्तुतिः
अभ्रिमुत्तरत आसन्दीं दक्षिणतः कृष्णाजिनमुत्तरतः सर्वतो धवित्राणि परिधींश्च रज्जुसन्दानं वेदमुपयमन्यामाधाय पश्चात् १६
मूलम्
अभ्रिमुत्तरत आसन्दीं दक्षिणतः कृष्णाजिनमुत्तरतः सर्वतो धवित्राणि परिधींश्च रज्जुसन्दानं वेदमुपयमन्यामाधाय पश्चात् १६
विश्वास-प्रस्तुतिः
पश्चात्पिन्वने चाभितो दण्डम् १७
मूलम्
पश्चात्पिन्वने चाभितो दण्डम् १७
विश्वास-प्रस्तुतिः
स्थूणामयूखम्पश्चात् १८
मूलम्
स्थूणामयूखम्पश्चात् १८
विश्वास-प्रस्तुतिः
रौहिणकपाले च १९
मूलम्
रौहिणकपाले च १९
विश्वास-प्रस्तुतिः
??? २०
मूलम्
??? २०
विश्वास-प्रस्तुतिः
मध्येऽन्यत् २१
मूलम्
मध्येऽन्यत् २१
विश्वास-प्रस्तुतिः
खरा उत्तरतः । दक्षिणतो मार्जालीयदेशं बहिर्वेद्युच्छिष्टखरम् २२
मूलम्
खरा उत्तरतः । दक्षिणतो मार्जालीयदेशं बहिर्वेद्युच्छिष्टखरम् २२
विश्वास-प्रस्तुतिः
आसेचनवन्ति पयसः पूरयति घर्मैतत्त इति २३
मूलम्
आसेचनवन्ति पयसः पूरयति घर्मैतत्त इति २३
विश्वास-प्रस्तुतिः
शेषं व्रतमिश्रं दीक्षिताय प्रयच्छति २४
मूलम्
शेषं व्रतमिश्रं दीक्षिताय प्रयच्छति २४
विश्वास-प्रस्तुतिः
प्रत्तं चेत्केवलम् २५
मूलम्
प्रत्तं चेत्केवलम् २५
विश्वास-प्रस्तुतिः
अत्र वा परिषेचनम् २६
मूलम्
अत्र वा परिषेचनम् २६
विश्वास-प्रस्तुतिः
वार्षाहरेष्टाहोत्रीये सामनी गायेति प्रेष्यति २७
मूलम्
वार्षाहरेष्टाहोत्रीये सामनी गायेति प्रेष्यति २७
विश्वास-प्रस्तुतिः
चात्वाले मार्जयन्ते सपत्नीका सुमित्रिया न इति । उद्वयमित्युक्रामत्युत्तरपूर्वार्धमनपेक्षमेत्यैधोऽसीति समिधमादायाहवनीयेऽभ्यादधाति समिदसीति पत्नी च गार्हपत्ये तूष्णीम् प्रवृञ्जनीयौ शतमानौ ब्रह्मणे ददाति २८

घर्मदुघामध्वर्यवे । यजमानव्रतदुघां होत्रे । पत्न्या उद्गात्रेऽग्नीधेऽजाम् २१
मूलम्
घर्मदुघामध्वर्यवे । यजमानव्रतदुघां होत्रे । पत्न्या उद्गात्रेऽग्नीधेऽजाम् २१
विश्वास-प्रस्तुतिः
घर्मभेदे यथोक्तम् ३०
मूलम्
घर्मभेदे यथोक्तम् ३०
विश्वास-प्रस्तुतिः
उखावच्चान्यं कुर्यात् ३१
मूलम्
उखावच्चान्यं कुर्यात् ३१
विश्वास-प्रस्तुतिः
अभिन्नेन चरेत् ३२
मूलम्
अभिन्नेन चरेत् ३२
विश्वास-प्रस्तुतिः
स्वाहा प्राणेभ्यः साधिपतिकेभ्य इति पूर्णाहुतिमाद्यामुत्तमां च मनसः काममाकूतिमिति ३३
मूलम्
स्वाहा प्राणेभ्यः साधिपतिकेभ्य इति पूर्णाहुतिमाद्यामुत्तमां च मनसः काममाकूतिमिति ३३
विश्वास-प्रस्तुतिः
प्रजापतिः सम्भ्रियमाण इति च यथाकालम् ३४
मूलम्
प्रजापतिः सम्भ्रियमाण इति च यथाकालम् ३४
विश्वास-प्रस्तुतिः
सविता प्रथमेऽहन्निति च प्रत्यहम् ३५
मूलम्
सविता प्रथमेऽहन्निति च प्रत्यहम् ३५
विश्वास-प्रस्तुतिः
अवकाश्यस्य प्रवृञ्जयात् ३६
मूलम्
अवकाश्यस्य प्रवृञ्जयात् ३६
विश्वास-प्रस्तुतिः
न प्रथमयज्ञे ३७
मूलम्
न प्रथमयज्ञे ३७
विश्वास-प्रस्तुतिः
यावती द्यावापृथिवी इति दधिघर्मग्रहणं मयि त्यदिति भक्षणम् ३८
मूलम्
यावती द्यावापृथिवी इति दधिघर्मग्रहणं मयि त्यदिति भक्षणम् ३८
विश्वास-प्रस्तुतिः
त्विषः संवृगिति महाव्रतीये ३९
मूलम्
त्विषः संवृगिति महाव्रतीये ३९
विश्वास-प्रस्तुतिः
चात्वाले मार्जनम् ४०
मूलम्
चात्वाले मार्जनम् ४०
विश्वास-प्रस्तुतिः
शान्तिकरणमाद्यन्तयोः । स्वाध्यायदर्शनात् ४१
मूलम्
शान्तिकरणमाद्यन्तयोः । स्वाध्यायदर्शनात् ४१