विश्वास-प्रस्तुतिः
स्वाहा घर्मायेत्युपयमन्यासिञ्चति घर्मे १
मूलम्
स्वाहा घर्मायेत्युपयमन्यासिञ्चति घर्मे १
विश्वास-प्रस्तुतिः
स्वाहा घर्मः पित्र इति जपित्वातिक्रम्याश्राव्याह घर्मस्य यजेति २
मूलम्
स्वाहा घर्मः पित्र इति जपित्वातिक्रम्याश्राव्याह घर्मस्य यजेति २
विश्वास-प्रस्तुतिः
वषट्कृते जुहोति विश्वा आशा इति ३
मूलम्
वषट्कृते जुहोति विश्वा आशा इति ३
विश्वास-प्रस्तुतिः
दिवि धां इति त्रिरुत्कम्पयति ४
मूलम्
दिवि धां इति त्रिरुत्कम्पयति ४
विश्वास-प्रस्तुतिः
स्वाहाग्नय इत्यनुवषट्कृते ५
मूलम्
स्वाहाग्नय इत्यनुवषट्कृते ५
विश्वास-प्रस्तुतिः
अश्विना घर्ममिति ब्रह्मानुमन्त्रयते ६
मूलम्
अश्विना घर्ममिति ब्रह्मानुमन्त्रयते ६
विश्वास-प्रस्तुतिः
अपातामिति यजमानः ७
मूलम्
अपातामिति यजमानः ७
विश्वास-प्रस्तुतिः
इषे पिन्वस्वेति पिन्वमानममुमन्त्रयते ८
मूलम्
इषे पिन्वस्वेति पिन्वमानममुमन्त्रयते ८
विश्वास-प्रस्तुतिः
घर्मासीत्युत्क्रामत्युत्तरपूर्वार्धम् ९
मूलम्
घर्मासीत्युत्क्रामत्युत्तरपूर्वार्धम् ९
विश्वास-प्रस्तुतिः
अमेन्यस्मे इति खरे करोति १०
मूलम्
अमेन्यस्मे इति खरे करोति १०
विश्वास-प्रस्तुतिः
विकङ्कतशकलैर्जुहोति घर्मे न्यज्य न्यज्य स्वाहा पूष्णे शरस इति प्रतिमन्त्रम् ११
मूलम्
विकङ्कतशकलैर्जुहोति घर्मे न्यज्य न्यज्य स्वाहा पूष्णे शरस इति प्रतिमन्त्रम् ११
विश्वास-प्रस्तुतिः
हुत्वा हुत्वा प्रथमपरिधा उपश्रयति १२
मूलम्
हुत्वा हुत्वा प्रथमपरिधा उपश्रयति १२
विश्वास-प्रस्तुतिः
चतुर्थमहुतमुदङ्ङीक्षमाणो दक्षिणतो बर्हिष्युपगूहति १३
मूलम्
चतुर्थमहुतमुदङ्ङीक्षमाणो दक्षिणतो बर्हिष्युपगूहति १३
विश्वास-प्रस्तुतिः
सप्तमं च सर्वलेपाक्तं दक्षिणेक्षमाणः प्रतिप्रस्थात्रे प्रयच्छति १४
मूलम्
सप्तमं च सर्वलेपाक्तं दक्षिणेक्षमाणः प्रतिप्रस्थात्रे प्रयच्छति १४
विश्वास-प्रस्तुतिः
तं स उत्तरतः शालाया उदञ्चं निरस्यति १५
मूलम्
तं स उत्तरतः शालाया उदञ्चं निरस्यति १५
विश्वास-प्रस्तुतिः
स्वाहा सं ज्योतिषेत्युपयमन्यामासिञ्चति घर्म्यम् १६
मूलम्
स्वाहा सं ज्योतिषेत्युपयमन्यामासिञ्चति घर्म्यम् १६
विश्वास-प्रस्तुतिः
रौहिणं जुहोति १७
मूलम्
रौहिणं जुहोति १७
विश्वास-प्रस्तुतिः
उपश्रितानि च प्रहरति १८
मूलम्
उपश्रितानि च प्रहरति १८
विश्वास-प्रस्तुतिः
अग्निहोत्रावृता हुत्वा वाजिनवद्भक्षयन्ति मधु हुतमिति १९
मूलम्
अग्निहोत्रावृता हुत्वा वाजिनवद्भक्षयन्ति मधु हुतमिति १९
विश्वास-प्रस्तुतिः
उच्छिष्टखरे प्रक्षाल्योपयमनीं निदधाति अत्र वोपश्रितप्रहरणं संसाद्यमानायानुवाचयति २०
मूलम्
उच्छिष्टखरे प्रक्षाल्योपयमनीं निदधाति अत्र वोपश्रितप्रहरणं संसाद्यमानायानुवाचयति २०
विश्वास-प्रस्तुतिः
संसाद्यमानेभ्य इत्येके २१
मूलम्
संसाद्यमानेभ्य इत्येके २१
विश्वास-प्रस्तुतिः
सूयवसाद्भगवतीत्युच्यमाने यवसोदके धेनवे प्रयच्छन्त्येके २२
मूलम्
सूयवसाद्भगवतीत्युच्यमाने यवसोदके धेनवे प्रयच्छन्त्येके २२
विश्वास-प्रस्तुतिः
सर्वमासन्द्यां करोति २३
मूलम्
सर्वमासन्द्यां करोति २३
विश्वास-प्रस्तुतिः
अभीममिति महावीरम् २४
मूलम्
अभीममिति महावीरम् २४
विश्वास-प्रस्तुतिः
सकृदासादनप्रोक्षणे खरस्थूणामयूखकृष्णाजिनाभ्र्युपशयासन्दीनाम् २५
मूलम्
सकृदासादनप्रोक्षणे खरस्थूणामयूखकृष्णाजिनाभ्र्युपशयासन्दीनाम् २५
विश्वास-प्रस्तुतिः
आवृत्तिर्वा प्रधानकालत्वात् २६
मूलम्
आवृत्तिर्वा प्रधानकालत्वात् २६