विश्वास-प्रस्तुतिः
देवस्य त्वेति रज्जुसन्दानमादायेड एहीति गामाह्वयति नाम्ना च त्रिरुच्चैरपरेण गार्हपत्यं गच्छन् १
मूलम्
देवस्य त्वेति रज्जुसन्दानमादायेड एहीति गामाह्वयति नाम्ना च त्रिरुच्चैरपरेण गार्हपत्यं गच्छन् १
विश्वास-प्रस्तुतिः
धेनुं गायेति प्रेष्यति २
मूलम्
धेनुं गायेति प्रेष्यति २
विश्वास-प्रस्तुतिः
अदित्यै रास्नेति गां पाशेन प्रतिमुच्य स्थूणायां बध्वा पूषासीति वत्समुत्सृजति ३
मूलम्
अदित्यै रास्नेति गां पाशेन प्रतिमुच्य स्थूणायां बध्वा पूषासीति वत्समुत्सृजति ३
विश्वास-प्रस्तुतिः
सन्दाय घर्माय दीष्वेति वत्समुन्नयति ४
मूलम्
सन्दाय घर्माय दीष्वेति वत्समुन्नयति ४
विश्वास-प्रस्तुतिः
अश्विभ्यां पिन्वस्वेति पिन्वने दोग्धि ५
मूलम्
अश्विभ्यां पिन्वस्वेति पिन्वने दोग्धि ५
विश्वास-प्रस्तुतिः
स्वाहेन्द्र वदिति विप्रुषोऽभिमन्त्रयते ६
मूलम्
स्वाहेन्द्र वदिति विप्रुषोऽभिमन्त्रयते ६
विश्वास-प्रस्तुतिः
यस्ते स्तन इति स्तनमालभते ७
मूलम्
यस्ते स्तन इति स्तनमालभते ७
विश्वास-प्रस्तुतिः
एवं प्रतिप्रस्थाताऽजां मयूखे तूष्णीम् ८
मूलम्
एवं प्रतिप्रस्थाताऽजां मयूखे तूष्णीम् ८
विश्वास-प्रस्तुतिः
पयो गायेति प्रेष्यति ९
मूलम्
पयो गायेति प्रेष्यति ९
विश्वास-प्रस्तुतिः
उत्तिष्ठ ब्रह्मणस्पत इत्युच्यमाने उपोत्तिष्ठति १०
मूलम्
उत्तिष्ठ ब्रह्मणस्पत इत्युच्यमाने उपोत्तिष्ठति १०
विश्वास-प्रस्तुतिः
उपद्र व पयसेत्युच्यमाने गच्छत्युर्वन्तरिक्षमिति ११
मूलम्
उपद्र व पयसेत्युच्यमाने गच्छत्युर्वन्तरिक्षमिति ११
विश्वास-प्रस्तुतिः
परीशासावदत्ते गायत्रम् छन्दोऽसीति प्रतिमन्त्रम् १२
मूलम्
परीशासावदत्ते गायत्रम् छन्दोऽसीति प्रतिमन्त्रम् १२
विश्वास-प्रस्तुतिः
वशिष्ठशफौ गायेति प्रेष्यति १३
मूलम्
वशिष्ठशफौ गायेति प्रेष्यति १३
विश्वास-प्रस्तुतिः
ताभ्यां महावीरं प्रतिगृह्णाति द्यावापृथिवीभ्यां त्वा परिगृह्णामीति १४
मूलम्
ताभ्यां महावीरं प्रतिगृह्णाति द्यावापृथिवीभ्यां त्वा परिगृह्णामीति १४
विश्वास-प्रस्तुतिः
उद्यम्य मुञ्जवेदेनोपमृज्योपयमन्योपगृह्णात्यन्तरिक्षेणोपयच्छामीति १५
मूलम्
उद्यम्य मुञ्जवेदेनोपमृज्योपयमन्योपगृह्णात्यन्तरिक्षेणोपयच्छामीति १५
विश्वास-प्रस्तुतिः
अजापयसावसिच्य शान्ते गोः पयोऽवनयतीन्द्रा श्विनेति १६
मूलम्
अजापयसावसिच्य शान्ते गोः पयोऽवनयतीन्द्रा श्विनेति १६
विश्वास-प्रस्तुतिः
प्रैतु ब्रह्मणस्पतिरिप्युच्यमाने समुद्रा य त्वेति वातनामानि जपति गच्छन्नाहवनीयम् १७
मूलम्
प्रैतु ब्रह्मणस्पतिरिप्युच्यमाने समुद्रा य त्वेति वातनामानि जपति गच्छन्नाहवनीयम् १७