विश्वास-प्रस्तुतिः
चन्द्र ङ्गायेति च प्रेष्यति १
मूलम्
चन्द्र ङ्गायेति च प्रेष्यति १
विश्वास-प्रस्तुतिः
कृष्णाजिनावकृत्तैर्द्धवित्रैरुपवाजयति त्रिभिर्दण्डवद्भिर्मधुमध्विति २

एकं प्रयच्छति प्रतिप्रस्थात्रेऽपरमग्नीधे धून्वन्तस्त्रिस्त्रिः परिक्रामन्ति पितृवद्देववच्च ३

रुचिते वोत्तरम् ४
मूलम्
रुचिते वोत्तरम् ४
विश्वास-प्रस्तुतिः
अर्चिषि प्राप्ते सुवर्णशतमानं निधायाज्येन महावीरं परिषिञ्चति स्रुवेण प्रतिप्रणवम् ५

रौहिणावधिश्रयति तूष्णीं ग्रामपिष्टानाम् ६

आज्यधर्माः स्थानापत्तः ७
मूलम्
आज्यधर्माः स्थानापत्तः ७
विश्वास-प्रस्तुतिः
औषधधर्मा वा संस्कारशब्दात् ८
मूलम्
औषधधर्मा वा संस्कारशब्दात् ८
विश्वास-प्रस्तुतिः
इडे द्यावापृथिवी इत्युच्यमाने परिधीन्परिधाय रौहिणौ उद्वास्य स्रुचोरासादयत्याहवनीयाद्दक्षिणोत्तरौ ९

अप्नस्वतीमित्युच्यमाने रुचितो घर्म इत्याहोपोत्तिष्ठन्घर्मस्य तन्वौ गायेति प्रेष्यति १०

परिक्रम्योपोत्तिष्ठन्तेऽकृन्तं चेद्गर्भो देवानामिति ११

अपोर्णौति पत्नी शिरः १२
मूलम्
अपोर्णौति पत्नी शिरः १२
विश्वास-प्रस्तुतिः
त्वष्टृमन्त इत्येनां वाचयति महावीरमीक्षमाणाम् १३

अहः केतुनेति दक्षिणं रौहिणं जुहोति मन्त्रक्रमेणोत्तरम् रात्रिरिति सायम् १४