विश्वास-प्रस्तुतिः
शुक्रं गायेति प्रेष्यति १
मूलम्
शुक्रं गायेति प्रेष्यति १
विश्वास-प्रस्तुतिः
पत्नी शिरः प्रोर्णुते २
मूलम्
पत्नी शिरः प्रोर्णुते २
विश्वास-प्रस्तुतिः
संसीदस्वेत्युच्यमाने मुञ्जप्रलवान् द्विगुणानादीप्य प्रतिदिशं खरे करोति ३
मूलम्
संसीदस्वेत्युच्यमाने मुञ्जप्रलवान् द्विगुणानादीप्य प्रतिदिशं खरे करोति ३
विश्वास-प्रस्तुतिः
तेषु महावीरमाज्यवन्तमर्चिरसीति ४
मूलम्
तेषु महावीरमाज्यवन्तमर्चिरसीति ४
विश्वास-प्रस्तुतिः
अनाधृष्टेति वाचयति प्रादेशमध्यधिधारयन्तम् ५
मूलम्
अनाधृष्टेति वाचयति प्रादेशमध्यधिधारयन्तम् ५
विश्वास-प्रस्तुतिः
प्रतिदिशमेके ६
मूलम्
प्रतिदिशमेके ६
विश्वास-प्रस्तुतिः
विश्वाभ्यो मेति दक्षिणत उत्तानं पाणिं निदधाति ७
मूलम्
विश्वाभ्यो मेति दक्षिणत उत्तानं पाणिं निदधाति ७
विश्वास-प्रस्तुतिः
मनोरश्वेति प्रादेशमुत्तरतः ८
मूलम्
मनोरश्वेति प्रादेशमुत्तरतः ८
विश्वास-प्रस्तुतिः
धृष्टिभ्यां भस्मना परिकीर्याङ्गारैश्च विकङ्कतशकलैः परिश्रयति त्रयोदशभिः प्रागुदग्भिः स्वाहा मरुद्भिरिति ९
मूलम्
धृष्टिभ्यां भस्मना परिकीर्याङ्गारैश्च विकङ्कतशकलैः परिश्रयति त्रयोदशभिः प्रागुदग्भिः स्वाहा मरुद्भिरिति ९
विश्वास-प्रस्तुतिः
अधिकं दक्षिणतो द्वौ मन्त्रेण सुवर्णशतमाने वापिदधाति दिवः संस्पृश इति १०
मूलम्
अधिकं दक्षिणतो द्वौ मन्त्रेण सुवर्णशतमाने वापिदधाति दिवः संस्पृश इति १०