विश्वास-प्रस्तुतिः
उपसदा चरिष्यंश्चरिष्यन्प्रवर्ग्येण चरति सप्रवर्ग्ये १
मूलम्

अपिहितद्वारे प्रवर्ग्यचरणम् २
मूलम्
अपिहितद्वारे प्रवर्ग्यचरणम् २
विश्वास-प्रस्तुतिः
पत्न्यदर्शनम् ३
मूलम्
पत्न्यदर्शनम् ३
विश्वास-प्रस्तुतिः
अननूक्तिभिश्च ४
मूलम्
अननूक्तिभिश्च ४
विश्वास-प्रस्तुतिः
यावदुक्तम् ५
मूलम्
यावदुक्तम् ५
विश्वास-प्रस्तुतिः
परिघर्म्यमौदुम्बरम् ६
मूलम्
परिघर्म्यमौदुम्बरम् ६
विश्वास-प्रस्तुतिः
मौञ्जं त्रिवृद्र ज्जव्यम् ७
मूलम्
मौञ्जं त्रिवृद्र ज्जव्यम् ७
विश्वास-प्रस्तुतिः
बाल्वजं विवानमासन्द्यौदुम्बर्यास्कन्धमात्र्याः ८

पूर्वेण गार्हपत्यं प्राचः कुशानास्तीर्य्य पात्रासादनं द्वन्द्वम् ९

उपयमनीं महावीरं परीशासौ पिन्वने रौहिणकपालौ रौहिणहवन्यौ च स्रुचावनुत्कीर्णे स्थूणामयूखं घृष्टी शतमाने मुञ्जप्रलवान्विकङ्कतशकलान्विंशतिं प्रादेशमात्रान् स्रुवं मुञ्जवेदं धवित्राणि परिधींश्च रज्जुसन्दानमासन्दीं कृष्णाजिनमभ्रिं सिकताः खरार्था अर्थवच्च १०

प्रोक्षणीः संस्कृत्योद्यम्योत्थायाह ब्रह्मन्प्रचारिष्यामो होतरभिष्टुहि प्रस्तोतः सामानि गायेति ११

ब्रह्मानुज्ञातो यमाय त्वेति महावीरं प्रोक्षति १२

प्रतिमन्त्रं वा वाक्यभेदात् १३
मूलम्
प्रतिमन्त्रं वा वाक्यभेदात् १३
विश्वास-प्रस्तुतिः
परिधर्म्यं च तूष्णीम् १४
मूलम्
परिधर्म्यं च तूष्णीम् १४
विश्वास-प्रस्तुतिः
पूर्वया द्वारा स्थूणामयूखं निर्हृत्य दक्षिणतो निखनति होतुः सन्दर्शने १५

गार्हपत्याहवनीया उत्तरेण खरौ निवपति । दक्षिणतोऽनुभित्त्युच्छिष्टखरम् १६

पूर्वेणाहवनीयं सम्राडासन्दीं पर्याहृत्य दक्षिणतः प्राचीमासादयति राजासन्द्या उत्तरतः । कृष्णाजिनमस्यामास्तृणाति । तस्मिन्नभ्युपशये निदधाति । महावीरौ चावच्छादयेद्वा १७

अन्यो वा परिघर्म्ययोजनमध्वर्योः कालसम्पत्तेः १८

अञ्जन्तीत्युच्यमाने देवस्त्वेत्यनक्ति महावीरमाज्यं संस्कृत्य १९

रजतशतमानं खर उपगूहति पृथिव्याः संस्पृश इति २०