(प्रवर्ग्यनिरूपणम्)
विश्वास-प्रस्तुतिः
दीक्षासु महावीरान्त्सम्भरति १
मूलम्
दीक्षासु महावीरान्त्सम्भरति १
विश्वास-प्रस्तुतिः
अन्तःपात्यदेशे सम्भारान्निदधाति २
मूलम्
अन्तःपात्यदेशे सम्भारान्निदधाति २
विश्वास-प्रस्तुतिः
मृदं वल्मीकवपां वराहविहतं पूतीकानजापयो गवेधुकाः कृष्णाजिनमभ्रिं चोत्तरतः ३
मूलम्
मृदं वल्मीकवपां वराहविहतं पूतीकानजापयो गवेधुकाः कृष्णाजिनमभ्रिं चोत्तरतः ३
विश्वास-प्रस्तुतिः
देवस्य त्वेत्यभ्रिमादायौदुम्बरीं वैकङ्कतीं वाऽरत्निमात्रीं सव्ये कृत्वा दक्षिणेनालभ्य जपति युञ्जत इति ४
मूलम्
देवस्य त्वेत्यभ्रिमादायौदुम्बरीं वैकङ्कतीं वाऽरत्निमात्रीं सव्ये कृत्वा दक्षिणेनालभ्य जपति युञ्जत इति ४
विश्वास-प्रस्तुतिः
मृदमादत्ते पिण्डवद्देवी द्यावापृथिवी इति ५
मूलम्
मृदमादत्ते पिण्डवद्देवी द्यावापृथिवी इति ५
विश्वास-प्रस्तुतिः
कृष्णाजिने निदधात्युत्तरतः ६
मूलम्
कृष्णाजिने निदधात्युत्तरतः ६
विश्वास-प्रस्तुतिः
देव्यो वम्र्य इति वल्मीकवपाम् ७
मूलम्
देव्यो वम्र्य इति वल्मीकवपाम् ७
विश्वास-प्रस्तुतिः
इयत्यग्र इति वराहविहतम् ८
मूलम्
इयत्यग्र इति वराहविहतम् ८
विश्वास-प्रस्तुतिः
इन्द्र स्यौजस्येति पूतीकान् ९
मूलम्
इन्द्र स्यौजस्येति पूतीकान् ९
विश्वास-प्रस्तुतिः
मखायेति पयः १०
मूलम्
मखायेति पयः १०
विश्वास-प्रस्तुतिः
तूष्णीं गवेधुकाः ११
मूलम्
तूष्णीं गवेधुकाः ११
विश्वास-प्रस्तुतिः
सम्भृतानभिमृशति मखायेति १२
मूलम्
सम्भृतानभिमृशति मखायेति १२
विश्वास-प्रस्तुतिः
कृष्णाजिनं परिगृह्योत्तरतः परिवृतं गच्छन्ति प्रैतु ब्रह्मणस्पतिरिति १३
मूलम्
कृष्णाजिनं परिगृह्योत्तरतः परिवृतं गच्छन्ति प्रैतु ब्रह्मणस्पतिरिति १३
विश्वास-प्रस्तुतिः
परिवृते निदधाति सम्भारानुद्घतावोक्षिते सिकतोपकीर्णे प्राग्द्वारे मखायेति १४
मूलम्
परिवृते निदधाति सम्भारानुद्घतावोक्षिते सिकतोपकीर्णे प्राग्द्वारे मखायेति १४
विश्वास-प्रस्तुतिः
सम्भारैः संसृजाति मखायेति १५
मूलम्
सम्भारैः संसृजाति मखायेति १५
विश्वास-प्रस्तुतिः
मृदमादाय मखायेति महावीरं करोति प्रादेशमात्रमूर्द्ध्वमासेचनवन्तं मेखलावन्तं मध्यसङ्गृहीतमूर्द्ध्वं मेखलायास्त्र्यङ्गुलम् १६
मूलम्
मृदमादाय मखायेति महावीरं करोति प्रादेशमात्रमूर्द्ध्वमासेचनवन्तं मेखलावन्तं मध्यसङ्गृहीतमूर्द्ध्वं मेखलायास्त्र्यङ्गुलम् १६
विश्वास-प्रस्तुतिः
निष्ठितमभिमृशति मखस्य शिर इति १७
मूलम्
निष्ठितमभिमृशति मखस्य शिर इति १७
विश्वास-प्रस्तुतिः
आदानमेके १८
मूलम्
आदानमेके १८
विश्वास-प्रस्तुतिः
एवमितरौ प्रतिमन्त्रम् १९
मूलम्
एवमितरौ प्रतिमन्त्रम् १९
विश्वास-प्रस्तुतिः
स्रुक्पुष्कराकृती पिन्वने रौहिणकपाले परिमण्डले मृदमुपशयान्निदधाति २०
मूलम्
स्रुक्पुष्कराकृती पिन्वने रौहिणकपाले परिमण्डले मृदमुपशयान्निदधाति २०
विश्वास-प्रस्तुतिः
गवेधुकाभिः श्लक्ष्णयति मखायेति प्रतिमन्त्रम् २१
मूलम्
गवेधुकाभिः श्लक्ष्णयति मखायेति प्रतिमन्त्रम् २१
विश्वास-प्रस्तुतिः
अश्वशकृता धूपयत्यश्वस्य त्वेति प्रतिमन्त्रम् २२
मूलम्
अश्वशकृता धूपयत्यश्वस्य त्वेति प्रतिमन्त्रम् २२
विश्वास-प्रस्तुतिः
उखावदग्निः प्रदहनं च मखायेति प्रतिमन्त्रम् २३
मूलम्
उखावदग्निः प्रदहनं च मखायेति प्रतिमन्त्रम् २३
विश्वास-प्रस्तुतिः
पक्वानुद्घरत्यृजवे त्वेति प्रतिमन्त्रम् २४
मूलम्
पक्वानुद्घरत्यृजवे त्वेति प्रतिमन्त्रम् २४
विश्वास-प्रस्तुतिः
अजापयसावसिञ्चति मखायेति प्रतिमन्त्रम् २५
मूलम्
अजापयसावसिञ्चति मखायेति प्रतिमन्त्रम् २५
विश्वास-प्रस्तुतिः
तूष्णीं पिन्वनादीनां करणाभिमर्शनश्लक्ष्णनधूपनप्रदहनोद्घरणावसेचनानि २६
मूलम्
तूष्णीं पिन्वनादीनां करणाभिमर्शनश्लक्ष्णनधूपनप्रदहनोद्घरणावसेचनानि २६