विश्वास-प्रस्तुतिः
उखां चेद्विभ्रन्म्रियेत सोपकरणमाहिताग्न्यावृता दग्ध्वा नेदिष्ठ्यग्निं चित्वा तमस्मा अनुदिशेदित्येके १
मूलम्
उखां चेद्विभ्रन्म्रियेत सोपकरणमाहिताग्न्यावृता दग्ध्वा नेदिष्ठ्यग्निं चित्वा तमस्मा अनुदिशेदित्येके १
विश्वास-प्रस्तुतिः
न कर्मफलासम्भवात् २
मूलम्
न कर्मफलासम्भवात् २
विश्वास-प्रस्तुतिः
उपदीक्षी स्वेष्वग्निषु नखनिकृन्तनाद्युद्वादनान्तं सान्निपातिकम् ३
मूलम्
उपदीक्षी स्वेष्वग्निषु नखनिकृन्तनाद्युद्वादनान्तं सान्निपातिकम् ३
विश्वास-प्रस्तुतिः
तेषूपहवमिष्ट्वाग्नी संसृजेत ४
मूलम्
तेषूपहवमिष्ट्वाग्नी संसृजेत ४
विश्वास-प्रस्तुतिः
अनाहिताग्निश्चेत्तेष्वेवेत्येके वैश्वानरं निर्वपेत् यस्याग्निभिरन्यं याजयेयुरिति वचनात् ५
मूलम्
अनाहिताग्निश्चेत्तेष्वेवेत्येके वैश्वानरं निर्वपेत् यस्याग्निभिरन्यं याजयेयुरिति वचनात् ५
विश्वास-प्रस्तुतिः
नाश्रुतेः ६
मूलम्
नाश्रुतेः ६
विश्वास-प्रस्तुतिः
आपदि वैश्वानरः ७
मूलम्
आपदि वैश्वानरः ७
विश्वास-प्रस्तुतिः
समानजनपदसंसवे महारात्रे प्रातरनुवाकमुपाकृत्य पूर्वः पूर्वः कर्म प्रवर्तयेत् ८
मूलम्
समानजनपदसंसवे महारात्रे प्रातरनुवाकमुपाकृत्य पूर्वः पूर्वः कर्म प्रवर्तयेत् ८
विश्वास-प्रस्तुतिः
सुसमिद्धहोमः ९
मूलम्
सुसमिद्धहोमः ९
विश्वास-प्रस्तुतिः
संस्थोत्तरं च कुर्यात् १०
मूलम्
संस्थोत्तरं च कुर्यात् १०
विश्वास-प्रस्तुतिः
इच्छन्वृषण्वती प्रतिपत् ११
मूलम्
इच्छन्वृषण्वती प्रतिपत् ११
विश्वास-प्रस्तुतिः
अनुसवनं वा १२
मूलम्
अनुसवनं वा १२
विश्वास-प्रस्तुतिः
बृहद्र थन्तरपृष्ठः १३
मूलम्
बृहद्र थन्तरपृष्ठः १३
विश्वास-प्रस्तुतिः
तौरश्रवसे माध्यन्दिने पवमाने तदावपनश्रुतेः १४
मूलम्
तौरश्रवसे माध्यन्दिने पवमाने तदावपनश्रुतेः १४
विश्वास-प्रस्तुतिः
आभीकमभिनीधनमाभीशवानि चैके १५
मूलम्
आभीकमभिनीधनमाभीशवानि चैके १५
विश्वास-प्रस्तुतिः
प्रातःसवने जुहोति संवेशायो-पवेशाय गायत्र्यै छन्दसेऽभिभूत्यै स्वाहेति १६
मूलम्
प्रातःसवने जुहोति संवेशायो-पवेशाय गायत्र्यै छन्दसेऽभिभूत्यै स्वाहेति १६
विश्वास-प्रस्तुतिः
त्रिष्टुभे जगत्या इत्युत्तरयोः सवनयोः १७
मूलम्
त्रिष्टुभे जगत्या इत्युत्तरयोः सवनयोः १७
विश्वास-प्रस्तुतिः
विहवीय सजनीय कयाशुभीयानि होता शंसति १८
मूलम्
विहवीय सजनीय कयाशुभीयानि होता शंसति १८
विश्वास-प्रस्तुतिः
सारव्यमरणमिच्छन्तः प्राजापत्यर्चा जुहुयुः १९
मूलम्
सारव्यमरणमिच्छन्तः प्राजापत्यर्चा जुहुयुः १९
विश्वास-प्रस्तुतिः
प्रातः सवनेऽध्वर्यु-र्माध्यन्दिने होतोद्गाता तृतीयसवने २०
मूलम्
प्रातः सवनेऽध्वर्यु-र्माध्यन्दिने होतोद्गाता तृतीयसवने २०
विश्वास-प्रस्तुतिः
अनुसवनं ब्रह्मा गृहपतिश्च जुहुतः २१
मूलम्
अनुसवनं ब्रह्मा गृहपतिश्च जुहुतः २१
विश्वास-प्रस्तुतिः
सर्वमरणमिच्छन्तः सर्वेऽनुसवनम् २२
मूलम्
सर्वमरणमिच्छन्तः सर्वेऽनुसवनम् २२
विश्वास-प्रस्तुतिः
नद्यन्तरेऽसंसवो गिरिभिच्चेत् २३
मूलम्
नद्यन्तरेऽसंसवो गिरिभिच्चेत् २३
विश्वास-प्रस्तुतिः
गिरौ २४
मूलम्
गिरौ २४
विश्वास-प्रस्तुतिः
रथाह्ने च २५
मूलम्
रथाह्ने च २५
विश्वास-प्रस्तुतिः
सर्वत्राऽविद्विषाणानाम् २६
मूलम्
सर्वत्राऽविद्विषाणानाम् २६
विश्वास-प्रस्तुतिः
विद्वेषेऽप्ययं वायुर्महान्त्समुद्र इति श्रुतेः २७
मूलम्
विद्वेषेऽप्ययं वायुर्महान्त्समुद्र इति श्रुतेः २७
विश्वास-प्रस्तुतिः
सोमदाहे यथास्वं वृत्तान्तान्धारयेयुः २८
मूलम्
सोमदाहे यथास्वं वृत्तान्तान्धारयेयुः २८
विश्वास-प्रस्तुतिः
प्रतिनिधाय यथापूर्वं यज्ञेन चरेयुः २९
मूलम्
प्रतिनिधाय यथापूर्वं यज्ञेन चरेयुः २९
विश्वास-प्रस्तुतिः
पञ्च गा दत्त्वा प्राग्द्वादश्याः पुनर्यज्ञः ३०
मूलम्
पञ्च गा दत्त्वा प्राग्द्वादश्याः पुनर्यज्ञः ३०
विश्वास-प्रस्तुतिः
तत्र तद्दद्याद्यत्पूर्वस्मिन्दास्यन्त्स्यात्सत्त्रेऽप्यविशेषात् ३१
मूलम्
तत्र तद्दद्याद्यत्पूर्वस्मिन्दास्यन्त्स्यात्सत्त्रेऽप्यविशेषात् ३१
विश्वास-प्रस्तुतिः
दानं प्रायश्चित्तसंयोगात् ३२
मूलम्
दानं प्रायश्चित्तसंयोगात् ३२
विश्वास-प्रस्तुतिः
न वाऽदक्षिणात्वात् ३३
मूलम्
न वाऽदक्षिणात्वात् ३३
विश्वास-प्रस्तुतिः
तस्य त्वह्नः पुनराहारः ३४
मूलम्
तस्य त्वह्नः पुनराहारः ३४
विश्वास-प्रस्तुतिः
ब्रह्मा प्रायश्चित्तानि जुहुयादनादिष्टानि ३५
मूलम्
ब्रह्मा प्रायश्चित्तानि जुहुयादनादिष्टानि ३५
विश्वास-प्रस्तुतिः
ब्रह्मा विलिष्टं सन्दधातिति श्रुतेः ३६
मूलम्
ब्रह्मा विलिष्टं सन्दधातिति श्रुतेः ३६
विश्वास-प्रस्तुतिः
त्रिवेदसंयोगाच्च ३७
मूलम्
त्रिवेदसंयोगाच्च ३७