विश्वास-प्रस्तुतिः
प्रातः सवनाच्चेत्सोमोतिरिच्येत तमुन्नीयोपाकरणमस्ति सोमो अयमिति १
मूलम्
प्रातः सवनाच्चेत्सोमोतिरिच्येत तमुन्नीयोपाकरणमस्ति सोमो अयमिति १
विश्वास-प्रस्तुतिः
मरुत्वतीषु गायत्रेण स्तुवीरन् २
मूलम्
मरुत्वतीषु गायत्रेण स्तुवीरन् २
विश्वास-प्रस्तुतिः
ऐन्द्रा वैष्णवं होता शंसति ३
मूलम्
ऐन्द्रा वैष्णवं होता शंसति ३
विश्वास-प्रस्तुतिः
यस्मा-त्स्तोमादतिरिच्येत स एवं कार्यः सर्वत्र ४
मूलम्
यस्मा-त्स्तोमादतिरिच्येत स एवं कार्यः सर्वत्र ४
विश्वास-प्रस्तुतिः
माध्यन्दिनाच्चेत्पूर्ववदुपाकरणम् ५
मूलम्
माध्यन्दिनाच्चेत्पूर्ववदुपाकरणम् ५
विश्वास-प्रस्तुतिः
बण्महअसीति बृहतीष्वादित्यवतीषु गौरीवितेन स्तुवीरन् ६
मूलम्
बण्महअसीति बृहतीष्वादित्यवतीषु गौरीवितेन स्तुवीरन् ६
विश्वास-प्रस्तुतिः
पूर्व-वद्धोता ७
मूलम्
पूर्व-वद्धोता ७
विश्वास-प्रस्तुतिः
तृतीयाँ सवनाच्चेद्विष्णोः शिपिविष्टवतीषु गौरीवितेन ८
मूलम्
तृतीयाँ सवनाच्चेद्विष्णोः शिपिविष्टवतीषु गौरीवितेन ८
विश्वास-प्रस्तुतिः
एतत्कृत्वोक्थ्यं वा गृहीत्वा विगृह्णीयात् ९
मूलम्
एतत्कृत्वोक्थ्यं वा गृहीत्वा विगृह्णीयात् ९
विश्वास-प्रस्तुतिः
उक्थ्याच्चेत्षोडशी कार्यः १०
मूलम्
उक्थ्याच्चेत्षोडशी कार्यः १०
विश्वास-प्रस्तुतिः
षोडशिनश्चेदतिरात्रः ११
मूलम्
षोडशिनश्चेदतिरात्रः ११
विश्वास-प्रस्तुतिः
अतिरात्राच्चेद्बृहत् १२
मूलम्
अतिरात्राच्चेद्बृहत् १२
विश्वास-प्रस्तुतिः
महाव्रतमेके यथोक्तम् १३
मूलम्
महाव्रतमेके यथोक्तम् १३
विश्वास-प्रस्तुतिः
अप्तोर्यामो वा अन्त्याच्चेत्तस्यैवावृत्तिः १४
मूलम्
अप्तोर्यामो वा अन्त्याच्चेत्तस्यैवावृत्तिः १४
विश्वास-प्रस्तुतिः
नातिरेकोऽस्तीति श्रुतेः १५
मूलम्
नातिरेकोऽस्तीति श्रुतेः १५
विश्वास-प्रस्तुतिः
पूर्वात्सवनादतिरिक्तस्योत्तरे सम्पावनमेके १६
मूलम्
पूर्वात्सवनादतिरिक्तस्योत्तरे सम्पावनमेके १६
विश्वास-प्रस्तुतिः
तं निकामयमानोऽभ्यति-रिच्येत इति श्रुतेः १७
मूलम्
तं निकामयमानोऽभ्यति-रिच्येत इति श्रुतेः १७
विश्वास-प्रस्तुतिः
तृतीयसवनाच्चेद्धारियोजनेऽवनीयहोमः १८
मूलम्
तृतीयसवनाच्चेद्धारियोजनेऽवनीयहोमः १८
विश्वास-प्रस्तुतिः
अस्मृतावृजीषमिश्रस्याप्स्ववहरणम् १९
मूलम्
अस्मृतावृजीषमिश्रस्याप्स्ववहरणम् १९
विश्वास-प्रस्तुतिः
दीक्षितश्चेदुपतप्येतोप्यानां येने-च्छेत्तेन चिकित्सेत् २०
मूलम्
दीक्षितश्चेदुपतप्येतोप्यानां येने-च्छेत्तेन चिकित्सेत् २०
विश्वास-प्रस्तुतिः
आग्नीध्रमेनं नयतेति ब्रूयात् कृतं चेत् २१
मूलम्
आग्नीध्रमेनं नयतेति ब्रूयात् कृतं चेत् २१
विश्वास-प्रस्तुतिः
अकृतेऽप्यविशेषात् २२
मूलम्
अकृतेऽप्यविशेषात् २२
विश्वास-प्रस्तुतिः
तद्देशे वासः २३
मूलम्
तद्देशे वासः २३
विश्वास-प्रस्तुतिः
वासतीवरमुदकमाचामेदित्येके चात्वालगताभ्यः २४
मूलम्
वासतीवरमुदकमाचामेदित्येके चात्वालगताभ्यः २४
विश्वास-प्रस्तुतिः
आपःप्रजापतिर्यज्ञो यज्ञस्य भेषजमसीति २५
मूलम्
आपःप्रजापतिर्यज्ञो यज्ञस्य भेषजमसीति २५
विश्वास-प्रस्तुतिः
अनुसवनमेनमालभेरन्वसव एतद्वः प्रातःसवनं तद्र क्षध्वं तद्गोपायध्वं तद्वो मा व्यवच्छैत्सीदिति २६
मूलम्
अनुसवनमेनमालभेरन्वसव एतद्वः प्रातःसवनं तद्र क्षध्वं तद्गोपायध्वं तद्वो मा व्यवच्छैत्सीदिति २६
विश्वास-प्रस्तुतिः
रुद्रा आदित्या इत्युत्तरयोः सवनयोः २७
मूलम्
रुद्रा आदित्या इत्युत्तरयोः सवनयोः २७
विश्वास-प्रस्तुतिः
म्रियेत चेन्निर्मन्थ्येन दग्ध्वा शामित्राद्वास्थीन्युपनह्य नेदिष्ठिनमुपदीक्ष्य तेन सह यजेरन् २८
मूलम्
म्रियेत चेन्निर्मन्थ्येन दग्ध्वा शामित्राद्वास्थीन्युपनह्य नेदिष्ठिनमुपदीक्ष्य तेन सह यजेरन् २८
विश्वास-प्रस्तुतिः
सत्त्रगणयज्ञे सहत्वशब्दात् २९
मूलम्
सत्त्रगणयज्ञे सहत्वशब्दात् २९
विश्वास-प्रस्तुतिः
एकयज्ञे दर्शपूर्णमासवत् ३०
मूलम्
एकयज्ञे दर्शपूर्णमासवत् ३०
विश्वास-प्रस्तुतिः
एतत्कृत्वा राजानमभिषुत्यागृहीत्वा ग्रहान् दक्षिणपूर्वस्यां वेदिस्रक्त्यां यामेन स्तुवीरन् ३१
मूलम्
एतत्कृत्वा राजानमभिषुत्यागृहीत्वा ग्रहान् दक्षिणपूर्वस्यां वेदिस्रक्त्यां यामेन स्तुवीरन् ३१
विश्वास-प्रस्तुतिः
तिसृषु पराक्षु सार्पराज्ञीषु ३२
मूलम्
तिसृषु पराक्षु सार्पराज्ञीषु ३२
विश्वास-प्रस्तुतिः
मार्जालीये वा ३३
मूलम्
मार्जालीये वा ३३
विश्वास-प्रस्तुतिः
स्तुते मार्जालीयं त्रिः परियन्त्यपसव्यं सव्योरूनाघ्नाना स्तोत्रिया जपन्तः ३४
मूलम्
स्तुते मार्जालीयं त्रिः परियन्त्यपसव्यं सव्योरूनाघ्नाना स्तोत्रिया जपन्तः ३४
विश्वास-प्रस्तुतिः
अग्न आयूंषि पवस इति प्रतिपद्भवति ३५
मूलम्
अग्न आयूंषि पवस इति प्रतिपद्भवति ३५
विश्वास-प्रस्तुतिः
संवत्सरेऽस्थीनि याजयेयुः ३६
मूलम्
संवत्सरेऽस्थीनि याजयेयुः ३६
विश्वास-प्रस्तुतिः
कर्मापवर्गादसम्भवान्मरणस्य ३७
मूलम्
कर्मापवर्गादसम्भवान्मरणस्य ३७
विश्वास-प्रस्तुतिः
अपरिमितस्तोमेन यजेरन् ३८
मूलम्
अपरिमितस्तोमेन यजेरन् ३८
विश्वास-प्रस्तुतिः
त्रिवृद्बहिष्पवमानेन वा ३९
मूलम्
त्रिवृद्बहिष्पवमानेन वा ३९
विश्वास-प्रस्तुतिः
सप्तदशमन्यत् ४०
मूलम्
सप्तदशमन्यत् ४०
विश्वास-प्रस्तुतिः
मैत्रावरुणाग्रान् ग्रहान् गृह्णीयात् ४१
मूलम्
मैत्रावरुणाग्रान् ग्रहान् गृह्णीयात् ४१
विश्वास-प्रस्तुतिः
प्रातिनिधिको याजमानं कुर्यात् ४२
मूलम्
प्रातिनिधिको याजमानं कुर्यात् ४२
विश्वास-प्रस्तुतिः
दीक्षणीयापुरुष-संस्काराशीर्वर्जम् ४३
मूलम्
दीक्षणीयापुरुष-संस्काराशीर्वर्जम् ४३
विश्वास-प्रस्तुतिः
समाप्तेऽस्थीनि सपात्राण्यरण्ये निवपेयुः ४४
मूलम्
समाप्तेऽस्थीनि सपात्राण्यरण्ये निवपेयुः ४४
विश्वास-प्रस्तुतिः
पुन-र्दाहो वा युक्तत्वात्पात्राणाम् ४५
मूलम्
पुन-र्दाहो वा युक्तत्वात्पात्राणाम् ४५
विश्वास-प्रस्तुतिः
ततः सञ्चयनादि ४६
मूलम्
ततः सञ्चयनादि ४६