विश्वास-प्रस्तुतिः
कुशतरुणेन जुहोति हुतस्य चाहुतस्य चाहुतस्य हुतस्य च पीतापीतस्य सोमस्येन्द्रा ग्नी पिबतं १
मूलम्
कुशतरुणेन जुहोति हुतस्य चाहुतस्य चाहुतस्य हुतस्य च पीतापीतस्य सोमस्येन्द्रा ग्नी पिबतं १
विश्वास-प्रस्तुतिः
सुतमिति वषट्कृते २
मूलम्
सुतमिति वषट्कृते २
विश्वास-प्रस्तुतिः
चुन्कुते स्वाहेत्यनुवषट्कृते ३
मूलम्
चुन्कुते स्वाहेत्यनुवषट्कृते ३
विश्वास-प्रस्तुतिः
संसर्गकाले वोपपातसामर्थ्यात् ४
मूलम्
संसर्गकाले वोपपातसामर्थ्यात् ४
विश्वास-प्रस्तुतिः
तस्य भक्षणं मा यजमानं तमो विदन्मर्त्विजो मा यः सोममिमं पिबा संसृष्टमभयं ऋतुमिति ५
मूलम्
तस्य भक्षणं मा यजमानं तमो विदन्मर्त्विजो मा यः सोममिमं पिबा संसृष्टमभयं ऋतुमिति ५
विश्वास-प्रस्तुतिः
अववृष्टभक्षणमिन्दुरिन्दुमवागात्तस्य त इन्द्र विन्द्र पीतस्येन्द्रि यावतो गायत्रच्छन्दसः सर्वगणस्य सर्वगण उपहूतस्योपहूतो भक्षयामिति ६
मूलम्
अववृष्टभक्षणमिन्दुरिन्दुमवागात्तस्य त इन्द्र विन्द्र पीतस्येन्द्रि यावतो गायत्रच्छन्दसः सर्वगणस्य सर्वगण उपहूतस्योपहूतो भक्षयामिति ६
विश्वास-प्रस्तुतिः
त्रिष्टुप्छन्दसो जगच्छन्दस इति यथासवनम् ७
मूलम्
त्रिष्टुप्छन्दसो जगच्छन्दस इति यथासवनम् ७
विश्वास-प्रस्तुतिः
अच्छन्दसमेके ८
मूलम्
अच्छन्दसमेके ८
विश्वास-प्रस्तुतिः
पतितं चमसमालभतेऽस्कन्पर्जन्यः पृथिवीमस्कन् गामृषभो युवा अस्कन्नेमा विश्वा भूतानि प्रस्कन्नाज्जायतां हविरिति ९
मूलम्
पतितं चमसमालभतेऽस्कन्पर्जन्यः पृथिवीमस्कन् गामृषभो युवा अस्कन्नेमा विश्वा भूतानि प्रस्कन्नाज्जायतां हविरिति ९
विश्वास-प्रस्तुतिः
उत्तरपूर्वे जुहोत्युपरवे चमसं दुष्टं प्रजापतये स्वाहेत्यथ येऽन्येऽनादिष्टास्तान्खरे जुहुयादग्नये वैश्वानराय स्वाहेति नाराशंसश्चेदुपवायात्तदुक्तम् १०
मूलम्
उत्तरपूर्वे जुहोत्युपरवे चमसं दुष्टं प्रजापतये स्वाहेत्यथ येऽन्येऽनादिष्टास्तान्खरे जुहुयादग्नये वैश्वानराय स्वाहेति नाराशंसश्चेदुपवायात्तदुक्तम् १०
विश्वास-प्रस्तुतिः
अन्त्याद्वा ग्रहात्स्तोकमासिच्य भक्षयेयुः ११
मूलम्
अन्त्याद्वा ग्रहात्स्तोकमासिच्य भक्षयेयुः ११
विश्वास-प्रस्तुतिः
कलशश्चेदुपवायात्क्षीरासेचनमेके १२
मूलम्
कलशश्चेदुपवायात्क्षीरासेचनमेके १२
विश्वास-प्रस्तुतिः
हिरण्यवद्वोदकम् १३
मूलम्
हिरण्यवद्वोदकम् १३
विश्वास-प्रस्तुतिः
उन्नयने च १४
मूलम्
उन्नयने च १४
विश्वास-प्रस्तुतिः
अद्रि भेदने मारुतेन ब्रह्मसाम्ना स्तुवीरन् १५
मूलम्
अद्रि भेदने मारुतेन ब्रह्मसाम्ना स्तुवीरन् १५
विश्वास-प्रस्तुतिः
चतुस्त्रिंशद्धोमश्च १६
मूलम्
चतुस्त्रिंशद्धोमश्च १६
विश्वास-प्रस्तुतिः
सोमापहरणे विधावतेच्छतेति ब्रूयात् १७
मूलम्
सोमापहरणे विधावतेच्छतेति ब्रूयात् १७
विश्वास-प्रस्तुतिः
अदर्शनेऽरुणपुष्पाण्यर्जुनान्यभिषुणुयात् १८
मूलम्
अदर्शनेऽरुणपुष्पाण्यर्जुनान्यभिषुणुयात् १८
विश्वास-प्रस्तुतिः
श्येनहृतं पूतीकानादारानरुणदूर्वा हरितकुशान्पूर्वालाभे पूर्वालाभ उत्तरान् १९
मूलम्
श्येनहृतं पूतीकानादारानरुणदूर्वा हरितकुशान्पूर्वालाभे पूर्वालाभ उत्तरान् १९
विश्वास-प्रस्तुतिः
एकां गां दत्त्वा समाप्य पुनर्यज्ञः २०
मूलम्
एकां गां दत्त्वा समाप्य पुनर्यज्ञः २०
विश्वास-प्रस्तुतिः
अवभृथान्ते वा श्रुतिसामर्थ्यात् २१
मूलम्
अवभृथान्ते वा श्रुतिसामर्थ्यात् २१
विश्वास-प्रस्तुतिः
कलशभेदने वषट्कारनिधनं ब्रह्मसाम २२
मूलम्
कलशभेदने वषट्कारनिधनं ब्रह्मसाम २२
विश्वास-प्रस्तुतिः
अनुलिप्सध्वमिति प्रेष्यति २३
मूलम्
अनुलिप्सध्वमिति प्रेष्यति २३
विश्वास-प्रस्तुतिः
यदनुलभेरंस्तदेकधनैरभ्युन्नीय प्रभावयन्तः प्रचरेयुः २४
मूलम्
यदनुलभेरंस्तदेकधनैरभ्युन्नीय प्रभावयन्तः प्रचरेयुः २४
विश्वास-प्रस्तुतिः
आग्रयणाद्वाऽनुपलभमानेषु पूर्ववत् २५
मूलम्
आग्रयणाद्वाऽनुपलभमानेषु पूर्ववत् २५
विश्वास-प्रस्तुतिः
अनीतासु चेद्दक्षिणासु भेदनं पूर्ववद्दत्त्वा तथैव यज्ञः २६
मूलम्
अनीतासु चेद्दक्षिणासु भेदनं पूर्ववद्दत्त्वा तथैव यज्ञः २६