विश्वास-प्रस्तुतिः
सत्त्रायागूर्याअशक्तौ विश्वजिताऽतिरात्रेण यजेत १
मूलम्

सत्त्राङ्गं वागूर्णमात्रश्रुतेः २
मूलम्
सत्त्राङ्गं वागूर्णमात्रश्रुतेः २
विश्वास-प्रस्तुतिः
निष्क्रयवादाच्च २
मूलम्
निष्क्रयवादाच्च २
विश्वास-प्रस्तुतिः
अ दीक्षितानां चेत्साम्युत्थानं जायेत सोमं विभज्य तेनैव सर्ववेदसेन सर्वपृष्ठेन यजेरन् ३

क्रीते विभागश्रुतेः ४
मूलम्
क्रीते विभागश्रुतेः ४
विश्वास-प्रस्तुतिः
उपपाताद्वोभयतः ५
मूलम्
उपपाताद्वोभयतः ५
विश्वास-प्रस्तुतिः
विभागः क्रियागुणत्वात् ६
मूलम्
विभागः क्रियागुणत्वात् ६
विश्वास-प्रस्तुतिः
अनीतासु चेद्दक्षिणासूद्गात्रपच्छेदोऽदक्षिणं संस्थाप्य पुनराहारः ७

प्रस्तोता चेद् ब्रह्मणे वरं दत्त्वा पुनर्वरणम् ८

प्रतिहर्ता चेत्सर्ववेदसं देयम् ९
मूलम्
प्रतिहर्ता चेत्सर्ववेदसं देयम् ९
विश्वास-प्रस्तुतिः
युगपच्चेद्विरोधाद्विकल्पः १०
मूलम्
युगपच्चेद्विरोधाद्विकल्पः १०
विश्वास-प्रस्तुतिः
पूर्वदौर्बल्यमानुपूर्व्ये प्रकृतिवत् ११
मूलम्
पूर्वदौर्बल्यमानुपूर्व्ये प्रकृतिवत् ११
विश्वास-प्रस्तुतिः
यस्मिन्नहन्युद्गात्रपच्छेदोऽहर्गणे तस्यावृत्तिः १२

पत्न्युदक्या दीक्षारूपाणि निधाय सिकतास्वासीतोपस्रवणात् १३

तिष्ठेत्सन्धिवेलयोः १४
मूलम्
तिष्ठेत्सन्धिवेलयोः १४
विश्वास-प्रस्तुतिः
वेदिसमीपे सुत्यासु १५
मूलम्
वेदिसमीपे सुत्यासु १५
विश्वास-प्रस्तुतिः
त्रिरात्रान्ते गोमूत्रमिश्रेणोदकेन स्नापयित्वा परिधानादि करोति सन्निपातिकम् १६

प्रजातायाश्च दशरात्रादूर्ध्वं स्नानादि १७

न गर्भिणीं दीक्षयेऽदित्येकेऽयज्ञिया गर्भा इति श्रुतेः १८

नानूबन्ध्याप्रकरणात् १९
मूलम्
नानूबन्ध्याप्रकरणात् १९
विश्वास-प्रस्तुतिः
दीक्षितोऽमनोज्ञं स्वप्नं दृष्ट्वा जपेत्पर्य्यावर्त्ते दुःस्वप्न्यात्पापः स्वप्नादभूत्यै ब्रह्माहमन्तरं करवे परः स्वप्नमुखा कृधीति २०

इन्द्रि यं स्कन्नमद्भिरुपसिञ्चेद्योमेऽद्य पयसो रसः परि दोषादुदर्पिथः अग्निहोत्रमिव सोमेन तमहं पुनरादद इति २१

उदकं चेत्तरेत्तदभिमन्त्रयेदुन्दतीर्बलं धत्तौजो धत्त सहो धत्त मा मे दीक्षां मा तपो निर्बधिष्ठेति २२

अववृष्टश्च २३
मूलम्
अववृष्टश्च २३
विश्वास-प्रस्तुतिः
अमेध्यं दृष्ट्वा सूर्यमुपतिष्ठेताबद्धं मनो दरिद्रं चक्षुः सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हासीदिति २४

शोणितं चेत्कुर्याद्रुद्रि याभ्योऽद्भ्यः स्वाहेति जुहुयात् २५

निष्ठीवेच्चेत् बीभत्साभ्योऽद्भ्यः स्वाहेति २६

धावेच्चेद्वायवे स्वाहेति २७
मूलम्
धावेच्चेद्वायवे स्वाहेति २७
विश्वास-प्रस्तुतिः
स्विद्याच्चेत्तपस्याभ्योऽद्भ्यः स्वाहेति २८

स्वप्याच्चेत्प्रजापतये स्वाहा २९
मूलम्
स्वप्याच्चेत्प्रजापतये स्वाहा २९
विश्वास-प्रस्तुतिः
आर्त्यश्रुकरणे तृप्ताभ्योऽद्भ्यः स्वाहेति ३०

छर्द्याविष्टः पयः पीत्वोदकं वा छर्दयीत निष्ठ्यूतवद्धोमः ३१

वयसाऽवप्रस्रुते चमसेऽन्तरिक्षेण पतति यातुधानप्रबोधितश्चमसं यमभ्यचुश्चुतदग्निष्टुच्छुन्धतादिह पुनः स्वाहेति ३२

अभ्युपाकृतचमसमुपस्थे कृत्वाग्न आयाहि वीतये गृणानो हव्यदातये नि होता सत्सि बर्हिषि स्वाहेति ३३

आग्नीध्रीये वा हिरण्यगर्भ इत्यृचः ३४
मूलम्
आग्नीध्रीये वा हिरण्यगर्भ इत्यृचः ३४
विश्वास-प्रस्तुतिः
हुताहुतसंसर्गेऽङ्गारमन्तःपरिधि निर्वर्त्त्य ३५