१०

विश्वास-प्रस्तुतिः

यूपविरोहणेऽन्तस्तन्त्रं संस्थितेऽहनि । त्वाष्ट्रं बहुरूपमालभेत १

मूलम्

अनूबन्ध्यायै वपामुत्खिद्यानुमर्शं गर्भमेष्टवै ब्रूयात् २

दर्शने स्थालीं चैवोष्णीषं चोपकल्पयितवै ब्रूयात् ३

वपान्तेऽनपेक्षमध्वर्युः प्रेष्यति निरुहैतं गर्भमिति विरुज्य श्रोणी प्रत्यञ्चं निरुहितवै ब्रूयात् ४

निरुह्यमाणमभिमन्त्रयत एजतु दशमास्य इति पशुवदवदानं गर्भस्य ५

कण्ठं वावकृत्य स्थाल्यां मेधस्रावणम् ६

मूलम्

कण्ठं वावकृत्य स्थाल्यां मेधस्रावणम् ६

विश्वास-प्रस्तुतिः

अवदानसहितमधिश्रित्योष्णीषवेष्टितं गर्भं पार्श्वतो निदधाति अनभिघारितमवदानवद्धृत्वा दक्षिणतो मेधं निदधाति ७

प्रतिप्रस्थाता वशावदानकाले प्रचरण्यां मेधमवद्यति ८

अवदानान्यनु जुहोति यस्यै त इति ९

मूलम्

अवदानान्यनु जुहोति यस्यै त इति ९

विश्वास-प्रस्तुतिः

अङ्गान्यह्रुता यस्य यस्या इति यथालिङ्गम् १०

अविज्ञाते पुंवत् ११

मूलम्

अविज्ञाते पुंवत् ११

विश्वास-प्रस्तुतिः

स्विष्टकृद्वनस्पत्यन्तरे प्रत्येत्य प्रतिप्रस्थाता प्रचरण्यां सर्वं मेधमवद्यति १२

स्विष्टकृतमनु जुहोति पुरुदस्म इति १३

मूलम्

स्विष्टकृतमनु जुहोति पुरुदस्म इति १३

विश्वास-प्रस्तुतिः

स्विष्टकृदन्त उष्णीषवेष्टितस्य वृक्षासञ्जनं वाप्स्ववहरणं वाखूत्करोपकिरणं वा १४

अनुव्याहारभयं त्वेतेषु १५

मूलम्

अनुव्याहारभयं त्वेतेषु १५

विश्वास-प्रस्तुतिः

समिष्टयजुरन्ते शामित्र एव जुहुयात्तिष्ठन्मरुत इत्यस्वाहाकृत्या महीद्यौरित्यङ्गारैरभ्यूहति १६

अग्निहोत्र आसन्नेषु चेत्पात्रेष्वाहवनीयोऽनुगच्छेद्गार्यपत्ये जुहुयात्प्राण उदानमप्यगादिति १७

गार्यपत्यश्चेदाहवनीय उदानः प्राणमप्यगादिति १८

दक्षिणाग्निश्चेद्गार्हपत्ये व्यान उदानमप्यगादिति १९

सर्वे चेत्तूर्णं मथित्वा प्रतिवातमुद्धृत्य वायव्यामाहुतिं हुत्वा यथानुपूर्व्यकरणम् २०

निवातं चेत्पूर्ववन्मथित्वा प्राञ्चमुद्धृत्य गार्हपत्ये संस्कृत्य पश्चादावहनीयस्य स्वयं पानम् २१

अग्निहोत्रातिपत्तावाहुतिं जुहुयान् मनो ज्योतिर्जुषतामाज्यस्य विच्छिन्नं यज्ञं समिमं दधातु या इष्टा उषसो या अनिष्टास्ताः सन्तनोमि हविषा घृतेन स्वाहेति २२